न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 301, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २६७ व्यवस्थाहेतुत्वात्, रूपादिवदिति परिशेषाद् गुणत्वेन समवायिसिद्धौ, लिङ्गग्राह- कमप्रमाणबाधितत्वाद् नाव्यवहितसंबन्धग्राह्यत्वेन द्रव्यत्वसिद्धिः । न चासिद्धेन सत्प्र- तिपक्षत्वम् । असिद्धस्य हीनबलत्वात् । ननु शब्दस्तावच्छ्रोत्रगुणो नैवेति त्वयैव साधितं प्रबन्धेन । न च श्रोत्रगुणः, तेन गृह्यमाणत्वात् , यद् येनेन्द्रियेण गृह्यते नासौ तस्य गुणः, यथा गृह्यमाणो गन्धादिः। श्रोत्रं वा न स्वगुणग्राहकम्, इन्द्रियत्वाद् घ्राणवदिति न गुणत्वसिद्धि- रिति चेत् । ततः किम् ? । न चैतदपि । घ्राणादिसमवेतगन्धाद्यग्रहे स्वगुणत्वस्या- बोधनी । सत्प्रतिपक्षम नित्यत्वानुमानस्येत्याह-न चासिद्धेनेति । यद्वा, नास्मत्प्रतिपक्षस्य स्वरूपसिद्धिरिति । ननु श्रोत्रव्यतिरिक्तानां पृथिव्यादीनां गुणः शब्दो नेति भवद्भिरव परिशेषानुमानेन साधितम् । वयं तु श्रोत्रगुणो नेति अनुमानद्वयेन साधयामः । ततश्च गुणत्वस्यैवासिद्धौ द्रव्यत्वमेव परिशिष्यत इति । केचित्तु शब्दः श्रोत्रगुणो नेति पठन्ति । तत्रायमर्थः । महता प्रबन्धेन शब्दस्य श्रोत्रग्राह्यत्वं प्रतिपादयता त्वयैव श्रोत्रगुणो नेति साधितं भवति कथमेतेनैतत्प्रतिपादितं भवेदित्यत्रोक्तं-न श्रोत्र- गुणः इति । न हि श्रोत्रग्राह्यः शब्दः तद्गुणो भवतीति । मा भूद् गुणत्वसिद्धिर्द्रव्यत्वं तु कुतस्त्य- मित्यह-ततः किम् इति । यद्वा, अनुग्राहक तर्काभावेऽनुमानमात्रान किञ्चित्सिध्यतीति सोपा- धित्वादप्रयोजकत्वं चानुमानद्वयमित्याह-न चैतदपि इति । स्वगुणत्वस्यैव ग्रहणप्रयोजकत्वेऽ- प्रकाशः । द्रसादिवदित्यर्थः । अथ परिशेषो नोपजीव्यस्तत्राह-न चेति । अनेन द्रव्यत्वसाधनस्य प्रति- रुद्धत्वादद्रव्यद्रव्यत्वासिद्धौ न तेनाऽनित्यत्वसाधने सत्प्रतिपक्षत्वमित्यर्थः । ननु गुणत्वेऽपि बाधकाद् न तत्सिद्धिरततो न शब्दादिलिङ्गग्राहुकमानबाध इत्याह — नन्विति । गुणत्वासिद्धावपि द्रव्यत्वासिद्धौ न साक्षात्सम्बन्धेन गृह्यमाणत्वे प्रमाणमुक्तं स्यादित्याह-तत इति । ननु गुणत्वे निषिद्धे परिशेषाद् द्रव्यत्वं सेत्स्यतीत्यत आह--न चेति । प्रथमानुमाने श्रोत्रयोग्यगुणत्वव्याप्यजातिशून्यत्वमुपाधिरन्त्यानुमाने त्वयोग्यगुणत्वमुपा- प्रकाशिका । र्बहिदिति । उक्तभागासिद्धि निरासाय जातिगर्भता । धर्ममात्रगर्भतायां गन्धादिकमादाय द्रव्ये व्यभि- चार इति जातित्वपर्यन्तानुधावनम् । एवं च सति यथाश्रुतमूलदृष्टान्तासङ्गतिरत आह-रसा- दिवदिति । मूलस्याप्येतद्गुणसं विज्ञानबहुव्रीहिणैवै तात्पर्यमिति भावः । प्रतिरुद्धत्वात् । बाधितत्वादित्यर्थः । प्रथमानुमान इति । श्रोत्रगुणत्वाभावसाधक इत्यर्थः । रूपाद्यौ साध्याव्या- प्तकत्वनिरासाय श्रोत्रयोग्येति । सत्तामादाय स एव दोष इति गुणत्वव्याप्येति । ककार- भिन्नगुणत्वमादाय स एव दोष इति जातीति । । न च पक्षेतरत्वमुपाधिरिति वाच्यम् । ध्वनयो वायवीया एवेति मते ध्वनौ सिद्धसाधनभयेन वर्णमात्रस्यैव पक्षत्वमिति पक्षभिन्नध्वनिव्यावर्त्त- कत्वाद् । केचित्तु बाधोन्नीत्ततया न पक्षेतरत्वे दोषः, बाधकश्च परिशेष एवेत्याहुः । अयोग्यगुण- वत्त्वमिति । योग्यगुणाभाववत्त्वमित्यर्थः । आत्मनि परमाणौ च यथाश्रुतसाध्याव्यापकत्वादाइ मकरन्दः । जातित्वपर्यन्तञ्च गन्धादिकमादाय द्रव्ये व्यभिचारवारणार्थम् । एवं सति मूलदृष्टान्तस्य साधनवै- कल्यादाह रसादिवदिति । प्रतिरुद्धत्वादिति । बाधितत्वादित्यर्थः । श्रोत्रयोग्येति । एतच्च रूपाद्यौ साध्याव्याप्तिवारणार्थम् । सत्तामादाय दोषतादवस्थ्यादाइ गुणत्वव्याप्येति । गुणान्या- न्यत्वमादाय दोषतादवस्थ्यादाइ जातीति । टिप्पणी । रूपत्वे प्रभायां व्यभिचारोऽतीन्द्रियशब्दे भागासिद्धिश्च स्यादत आह-चक्षुर्ग्राह्येति ।