भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 304, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 304

२५० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्याया विरोधव्यभिचारावसम्भावितावेवाऽत्रेत्यसिद्धिरवशिष्यते । साऽपि नास्ति । तथा हि । शब्दस्तावत् पूर्वोक्तन्यायेन स्वाभाविकतीव्रमन्दतरतमादिभावेन प्रकर्ष- निकर्षवानुपलभ्यते । इयंञ्च प्रकर्षनिकर्षवत्ता कारणभेदानुविधायिनी सर्वत्रोपलब्धा । अकारणाका हि नित्याः प्रकर्षवन्त एव भवन्ति, यथाऽऽकाशादयः । निकृष्टा एव वा, यथा परमाण्वादयः । न तु किञ्चिदतिशयानाः कुतश्चिदपकृष्यन्ते । तदियं नित्येभ्यो व्यावर्त्तमाना कारणवत्सु च भवन्ती जायमानतामादायैव विश्राम्यतीति प्रतिबन्धसिद्धौ प्रयुज्यते, 'शब्दो जायते, प्रकर्षनिकर्षाभ्यामुपेतत्वान्माधुर्यादिवत् । अन्यथा, नियामकमन्तरेण भवन्ती नित्येष्वपि सा स्यात्, नियमहेतोरभावात् । शब्दादन्यत्रेयं गतिरिति चेन्न । साध्यधर्मिणं विहायेति प्रत्यवस्थानस्य सर्वानुमान- सुलभत्वात् । न चेद् व्यञ्जकतारतम्याद्व्यञ्जनीयतारतम्यम्, अस्वाभाविकत्वप्रस- ङ्गात् । व्यवस्थितञ्च स्वाभाविकत्वम् । न च व्यञ्जकोत्पादकाभ्यामन्यस्यानुविधा- नमस्ति । न च स्वाभाविकत्वौपाधिकत्वाभ्यामन्यः प्रकारः सम्भवति । बोधनी । धव्यभिचारौ त्वसंभावितावेव सपक्षवृत्तित्वसद्भावादिपच्चे वृत्त्यभावाच्चेत्याह-विरोध इति । तस्माद- न्यतरासिद्धिरैव संभाव्यतया विशिष्ठा, सापि निराक्रियत इत्याह-अत्रेति इति । हेतुसिद्धावनुमानं विपक्षस्तस्य प्रतिबन्धसिद्धिं तावदाह-शब्दस्तावत् इति । पूर्वोक्तन्यायेन इति । तीव्रत्वादीना- मन्यधर्मत्वेनानुपलम्भः शब्दगतत्वेनोपलम्भः शब्दधर्मत्वेनैवोपलम्भो बाधकाभाव इत्यादिर्यः पूर्वमुक्तस्तेनेति । ततः किमित्यत्राह-इयं च इति । सर्वत्र माधुर्यादौ कारणप्रकर्षनिकर्षानुविधायि- नी दृष्टेत्यन्वयं दर्शयित्वा व्यतिरेकमपि दर्शयति-अकारणका हि इति । ततोऽपि किमित्यत्राह- तदियम् इति । तस्मादियं प्रकर्षनिकर्षवत्तेति । तत्रानुमानं तदनुग्राहकं च दर्शयति-शब्दो जायते इति । नियामकं कारणप्रकर्षनिकर्षरूपमन्तरेण शब्दे भवन्ती प्रकर्षनिकर्षवत्ता गगनादि- ष्वपि भवेत्, शब्द एव नाकाशादिष्वस्तीति नियमहेत्वभावादिति । ननु शब्दव्यतिरि- क्तस्य प्रकर्षनिकर्षवत्वं जायमानतया व्याप्तं तद्दर्शनान्न तु प्रकर्षनिकर्षवत्तामात्रमित्याह- शब्दात् इति । न इति । बाधकाभावेऽपि व्याप्तिसङ्कोचे सर्वानुमानोच्छेदः स्यादिति । ननु व्यञ्ज- कानां ध्वनीनां प्रकर्षनिकर्षाभ्यां व्यञ्जनीयस्य शब्दस्य तद्वत्ताभिमानः, ततश्चासिद्धो हेतुरित्याश- ङ्क्याह-न च इति । प्रसज्यतां कामं, तदेव नः समीहितम् । अत्राह-व्यवस्थितश्च इति । ध्वनिधर्माणामारोपस्यासंभवादिति । ननु मा भूद् व्यञ्जकोपाधित्वं तारतारतरत्वादिरस्त्यथापि कथं कारणप्रकर्षाद्यनुविधानं कथं वा स्वाभाविकत्वं सिध्यतीत्यत्राह-न च इति । औपाधिकत्वनिषेधेन परिशेषात् सिध्यति गत्यन्तराभावादिति । प्रकाशः । परमाणुरूपवत् । अव्यासज्यवृत्तित्वे सत्यनात्मविभुगुणत्वाद्, विशेषगुणान्तरासमानाधिकरणैक- वृत्तिगुणत्वात्, कालपरिमाणवदित्यत्राप्यकार्यत्वमुपाधिरिति भावः । पूर्वोक्तेति । उपाधेरनुपल- म्भेन तद्गततया चोपलम्भेन चेत्यर्थः । प्रकर्षनिकर्षाभ्यामिति । ननूत्कर्षापकर्षयोर्जात्योर्जा- प्रकाशिका । परमाणुनिष्ठदैशिकपरत्वादौ व्यभिचारवारणाय । अव्यासज्येति । न च गुणपदमधिकं समवाय कालादिवृत्तौ तन्मते व्यभिचारवारकत्वात् तस्यापि व्यासज्यसमवेतत्वाभावात् । विशेषगुणेति । टिप्पणी । प्रतियोगित्वापेक्षया लघुत्वादिदमेव साध्यमुचितं तत्र व्यभिचारवारणं सम्भवति प्रयोजनमित्याशयः। विशेषगुणान्तरासमानाधिकरणेति । शब्दान्यविशेषगुणसमानाधिकरणेत्यर्थः । तेन वायुस्पर्शे