न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 306, कुल 608 में से
संदर्भ में पढ़ें२७२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां सन्निधिविरुद्धेभ्यो नित्येभ्यः स्वव्यापकनिवृत्तौ निवर्त्तमानं, विनाशकसन्निधिमति विनाशिनि विश्राम्यतीति । विनाशकारणसन्निधानेनावश्यं जायमानस्य भवितव्य- मिति कुतो निर्णीतमिति चेन्न । तत्सन्निधानं हि न तावदाकाशादेरिव, स्वभाववि- रोधात् । उत्पत्तिविनाशयोः संसर्गदर्शनात् । अविरुद्धयोरसन्निधिस्तु देशविप्रकर्षाद् हिमवद्विन्ध्ययोरिव स्यात् । देशयोरपि विप्रकर्षो विरोधाद्वा हेत्वभावाद्वा ? पूर्वोक्ता- देव न प्रथमः । द्वितीयस्तु पटकुङ्कुमयोरिव स्यात् । यदि हि कुङ्कुमसमागमादर्वागेव प्रध्वंसक संसर्गादर्वागेव पटो विनश्येत् । यथा हि विनाशकारणं विना न विनाशः, तथा यदि कुङ्कुमसमागमं विना न विनाशः पटस्येति स्यात् कस्तयोः संसर्गं वार- येत् । तस्मादविरुद्धयोरसंसर्गः कालविप्रकर्षनियमेन व्याप्तः, स चातो निवर्त्तमानः स्वव्याप्यमुपादाय निवर्त्तत इति प्रतिबन्धसिद्धिः । बोधनी । त्सिद्ध्यतीत्याह-विनाशकारणसंनिधानेन इति । विनाशकारणसन्निधानं ह्युत्पत्तिमतो न ताव- द्भावाभावयोरिव स्वभावविरोधाद्भवति घटादिषु तयोः संसर्गदर्शनादित्याह-तद्संनिधानम् इति । तर्ह्यविरुद्धयोरेव हिमवद्विन्ध्ययोरिवासंसर्गोऽस्त्वित्यत्राह-अविरुद्धयोः इति । अस्तु तर्हि देशविप्रकर्षादेवेत्यत्राह-देशयोरपि इति । सोऽपि देशयोः स्वभावविरोधात् संसर्गहेत्वभावाद्वा भवतीति तंतः किमित्यत आह-पूर्वोक्तात् इति । यदि हि तयोः स्वभावविरोधः स्यात् तत- स्तदाश्रययोरुत्पत्तिविनाशयोरपि संसर्गो न स्याद्, दृश्यते चासावित्युक्तमेवेति । द्वितीयस्तु इति । विनाशकारणजायमानत्वयोर्हेत्वभावादसंसर्गस्तु यथा पटकुङ्कुमयोरविरुद्धदेशस्वभावतया क्वचित्संसृष्टयोरपि संसर्गहेत्वभावात् क्वचिदसंसर्गः तथा कदाचित्स्यादिति । कथं च तथा स्यादि- त्याह-यदि हि इति । यथा हि कुङ्कुमसंसर्गात्प्रागेव क्वचित्पटविनाशाद्धेत्वभावेन तयोरसंसर्गः, तथा यदि विनाशकारणसमागमात् प्रागेव जायमानस्य विनाशः कदाचित्स्यात् तदा जायमानवि- नाशकारणयोरसंसर्गः स्यात्, न त्वेतत्संभवतीति । यदि वा यथा विनाशकारणसमागमे सत्येव विनाशः पटस्य नासतीति दृश्यते, तथा यदि कुङ्कुम समागमे विनाशो नासतीति स्यात् तदा पट- कुङ्कुमयोरपि संसर्गोऽवश्यंभावो भवेत्, न त्वेतदस्तीत्याशयावानाह-यथा इति । यत एवं देशवि- प्रकर्षो नास्ति तस्मादविरुद्धस्वभावयोरसंसर्गः कालविप्रकर्षगेत्यवशिष्यते, स च कालविप्रकर्ष अत उत्पत्तिमद्विनाशकारणाभ्यां व्यावर्तमानः स्वव्याप्यं तयोरसंसर्गमप्युपादायैव निवर्त्तत इति उत्पत्तिमत्त्वस्य विनाशकारणसंसर्गेण सिद्धः प्रतिबन्धः इत्याह-तस्मात् इति । प्रकाशः । स्वव्यापकेति । उत्पत्तिमत्त्वव्यापकं विनाशकारणं, तस्य निवृत्तावित्यर्थः । पूर्वोक्तादे- वेति । उत्पत्तिविनाशयोः संसर्गदर्शनादेवेत्यर्थः । द्वितीयस्त्विति । पटकुङ्कुमयोः संसर्गस्ता- वदविरुद्धोऽपि कस्यचित्पटस्यान्तरा ध्वंसान्न भवति । तद् यदि विनाशकसंसर्गं विनैव नाशः स्यात्तदा नाशकासन्निधिः स्यात्, न त्वेवमित्यर्थः । तस्मादिति । यद्यपि अत्रापि व्याप्तावप्र- योजकत्वशङ्का तदवस्थैव, तथापि भावानां नाशं प्रति स्वरूपयोग्यत्वमुत्पत्तिमत्त्वेनैवावच्छिद्यत इति न शङ्केति भावः । स चेति । स कालविप्रकर्षस्तदा स्याद्यदि नाशकसम्वन्धनमनपेक्ष्यैव कार्यस्य प्रकाशिका । मात्रव्यापकत्वमिति द्रष्टव्यम् । उत्पत्तिमत्त्वेति । भावत्वसमानाधिकरणोत्पत्तिमत्त्वव्यापकमित्यर्थः। मकरन्दः । मात्रमेव व्यावर्तयतीति तथोक्तमिति वाच्यम् । यथाश्रुतस्य तत्रापि सत्त्वादिति चिन्त्यम् । उत्पत्तिमत्त्वेति । भावत्वसमानाधिकरणोत्पत्तिमत्त्वव्यापकमित्यर्थः । अप्रयोजकत्व- शङ्केत्युपलक्षणं, ध्वंसे व्यभिचारश्चेत्यपि बोध्यम् । अत एवाह भावानामिति ।