न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 310, कुल 608 में से
संदर्भ में पढ़ें२७६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां तस्यानुपपन्नेति चेन्न । एवं तर्ह्येकज्ञानगोचरतायां किमनुपपन्नं किं प्रतिपादयेदिति । जातीनामन्वयानुपपत्त्या व्यक्तिरवसीयते इति चेन्न, परस्पराश्रयप्रसङ्गात् । बोधनी । दांतं मनो व्यक्तिविषयतामाक्षिपतो व्यक्तिज्ञानसिद्धिरिति । न इति । एवं हि जातिव्यक्त्योरेकज्ञान- विषयत्वमेवोक्तं स्यात्, तत्रोभयोरपि ज्ञातत्वाविशेषात् किमनुपपन्नं प्रतिपादकं भवेत् किं वा प्रतिपाद्यं भवेत् । अत्रानुपपन्नमात्रनिराकरणप्रकरणे किं प्रतिपादयेदिति प्रक्रियाया असंगतत्वात् प्रमादकृतः पाठ इति संप्रदाय इति । जातीनाम इति । गोत्वशुक्लत्वादीनां परस्परमन्वयानुपपत्त्या तदन्वयसिद्ध्यर्थं व्यक्तिः प्रतीयत इति । यद्वा, जातीनामनेकव्यक्त्यन्वयः प्रतीयमानो नान्तरेण व्यक्तिमुपपद्यत इति व्यक्तिरवसीयत इति । न इति । प्रतीते ह्यन्वये तदन्वयानुपपत्त्या व्यक्तिः प्रतीयते, प्रतीतायां च व्यक्तौ तदन्वयप्रतीतिरितीतरेतराश्रयत्वम् । किंच, जातिप्रतीतौ सत्यां तद्- न्वयानुपपत्त्या व्यक्तिप्रतीतिः, व्यक्तिप्रतीतौ च सत्यां जातिरित्यात्माश्रयत्वं, व्यक्तिप्रतीतिपुर- प्रकाशः । गोभिन्नभावत्वेन गां विनाऽपि त्वया गोत्वज्ञानाभ्युपगमादित्यर्थः । एवं तर्हीति । व्यक्तिं विनापि जातेर्ज्ञानात् केवला जातिर्नोपस्थितेति जातित्वविशिष्ट एव पदानां शक्तिः । विशिष्टानामानन्त्येऽ- प्येकत्र विशिष्टे तत्वं विहाय गोत्वमादाय गोत्वविशिष्टं शक्यमिति शक्तिग्रहात् सर्वत्रोदासीनस्य गोः शक्यत्वान्यत्किंचिदेकोपादानेऽपि गोरुपादानान्नोपादानाशक्यत्वमेकोपादानेऽनध्यवसायो वा, व्यक्ति- वाचकपश्वादिपदवदुपपत्तेः। वस्तुतो नानुमानार्थापत्तिभ्यां व्यक्तिलाभः । न हि यत्र यदा वा गोत्वं तत्र तदा वा, यद् गोत्वं सा व्यक्तिरिति वा व्याप्तिर्व्यभिचारात्। नापि जातित्वं व्यक्त्याश्रितत्वे । लिङ्गम्। जातित्वस्य पदानुपस्थितेः । तथात्वे वा, जातिरिति वेथैव व्यक्तिः, नित्यानेकसमवेतत्वस्य जाति- त्वात् । व्यक्तेश्चापदार्थत्वे विभक्त्यर्थसंख्याकर्मत्वादेर्व्यक्तावनन्वयः स्यात् । सुब्विभक्तीनां प्रकृत्यर्था- न्वितस्वार्थबोधकत्वस्य व्युत्पत्तिसिद्धत्वात् । न च प्रकृतितात्पर्यविषये तदन्वयव्युत्पत्तिः । लक्षणोच्छे- दापत्तेः । एवं तर्हि गामानयेत्यादौ जातेरानयनाद्यन्वयानुपपत्त्या जातिशक्तपदेन व्यक्तिर्लक्ष्यते, अत एव व्यक्तेः प्रकृतिप्रतिपाद्यत्वे विभक्त्यर्थाऽन्वयस्तत्र सङ्गच्छत इत्याह । जातीनामिति । जाति- ज्ञाने सति लक्षणया व्यक्तिज्ञानं, व्यक्तिमादाय जातिज्ञानमित्यन्योन्याश्रय इत्याह । परस्परेति । प्रकाशिका । विशेषः, तथापि समवेतत्वमात्रमेव हेतुः कर्त्तव्यमिति भावः । गामिति । गोज्ञानं विनापीत्यर्थः । जातित्वस्येति । प्रकारान्तरेण च तदुपस्थितिः कांदाचित्की व्यक्तिधीश्र्व सर्वदैव पदादिति तन्नि- र्वाहाय व्यक्तौ पदशक्तिस्वीकार इति भावः । व्युत्पत्तिसिद्धत्वादिति । पश्वादिपदे तथा कल्प- नादिति भावः । लक्षणेति । वह्नितात्पर्यके धूमोऽस्तीति वाक्ये धूमपदोत्तरविभक्त्यर्थस्य वह्नाव- मकरन्दः। गोभिन्नेति । यद्यपि तेनैकवित्तिवेद्यत्वमपाकृतं तच्चानुपदमेव शङ्कितं, तथापि व्यक्तेर्ज्ञानान्तरमपि तदा नास्तीत्यस्यापि तन्निंरस्यत्वमुक्तम् । वस्तुतो व्यक्तिज्ञानकारणत्वशङ्केयं, तत्र च तुल्यग्रहसामग्रीक- त्वात् तदभावेऽप्युत्पादादित्यर्थो युक्तः । गामिति । गोज्ञानं विनाऽपीत्यर्थः । जातित्वस्येति । न ह्यः प्रकारान्तरात्तदुपस्थितिः, तस्यासार्वत्रिकत्वात् , व्यक्तिबुद्धेश्च सार्वत्रिकतया शक्तिरेवेति भावः । टिप्पणी । गोत्वज्ञानाभ्युपगमादिति । गोभिन्नभावत्वेन लिङ्गेन गोत्वमात्रज्ञानस्य साधितत्वात् तथा च व्यक्तिज्ञानकारणत्वस्य समानकालत्वस्य च निरासः । व्यक्तिं विनापोति “एवं तर्हीत्यादे”रियं व्याख्या। नियमेन जातिव्यक्त्योरेकज्ञानविषयत्वे सतीत्येवं ह्येकज्ञानगोचरतायामित्येतस्यार्थोऽत्रादिः। एवन्तर्हीति । सुब्विभक्तीनाम्प्रकृत्यर्थेत्यादिव्यवस्थितौ । जातियक्त्योर्नियमेनै कज्ञाने भासमा-