न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 313, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तबके ] शब्दानित्योपपादनम् । २७९ न च नित्या अपि वर्णाः स्वरानुपूर्व्यादिहीनाः पदार्थैः सङ्गम्यन्ते, न च तद्विशि- बोधनी । सन्तु वर्णाः स्वरूपेण नित्यास्तथाप्यनित्यानामेव संगतिग्रहोऽभ्युपगन्तव्यः स्वरानुपूर्व्यादिवि- शिष्टानां तेषां वाचकत्वाद्व्यञ्जकध्वनिधर्मयत्त्वाच्च स्वरादीनामित्याह- न च इति । कथं तर्ह्यनि- त्यानामेव पदार्थानां पदानां चानन्त्यव्यभिचारादिपरिहारेण संगतिग्रह इत्याशङ्क्य सुहृद्भावेन प्रकाशः । वाच्यम् । जातेः स्वत एव व्यावृत्तत्वात् । अन्यथाऽन्योन्याश्रयात् । स्वतो व्यावृत्तत्वं च परेषा- मन्वयविशेषस्येव स्वाश्रयवत स्वस्मिन् व्यावृत्तधीजनकत्वम् । व्यक्तिधीस्तु जातिशक्तादेव पदात् , गोपदं हि नियमतो जातिव्यक्ती बोधयति, तत्रास्य जातिशक्तिज्ञानमेव सहकारि कल्प्यते, लाघ- वादावश्यकत्वाच्च, न तु व्यक्तिशक्तिज्ञानं, गौरवात् , जातिशक्तिज्ञाने सति तज्ज्ञानं विना व्यक्ति- ज्ञाने विलम्बाभावाच्च, यथा परेषां पदार्थशक्तादेव पदादन्वयधीः । यद्वा, जातिशक्तिज्ञानाज्जाति- ज्ञानं जायमानं व्यक्तिमपिविषयीकरोति । यद्येन विना न भासते, तज्ज्ञानहेतोस्तद्बोधकत्वनिय- मात् । अन्यथा, जातिमपि न बोधयेत् । तस्मादेकवित्तिवेद्यत्वनियमाज्जातिज्ञानार्थं क्लृप्ता शक्ति- र्व्यक्तिमपि ज्ञापयति । न च जातिं विनाऽपि प्रत्यक्षादिज्ञाऽपि व्यक्तिज्ञानादन्यैव व्यक्तिज्ञानसा- मग्री, जातिविशिष्टज्ञानं चोभयज्ञापकसामग्रीसमाजादिति वाच्यम् । जातिव्यक्त्योः प्रत्यक्षादिना बोधे सामग्रीभेदेऽपि शाब्दव्यक्तिबोधे जातिशक्तिज्ञानस्यैव हेतुत्वात् । लाघवात् । तत्सत्त्वे तन्न विलम्बाभावेन सामग्र्यन्तराकल्पनाच्च । न चैवं व्यक्तिज्ञानस्य शक्यत्वात्तद्विषयत्वाज्जातिवद् व्यक्तिरपि शक्या स्यात् । यद्विषयतया ज्ञाने ज्ञाता शक्तिरुपयोगिनी तस्यैव विषयतया शक्य- तावच्छेदकस्य शक्यत्वात् । एवञ्च जातिव्यक्तिज्ञानजनकत्वादुभयत्रापि पदशक्तिः । जात्यंशे तु सा ज्ञाता हेतुः । परेणाऽप्यन्वये कुब्जशक्तिस्वीकारात् । उच्यते । शक्यज्ञाने विषयतया जातेरवच्छेदकत्वं व्यक्तिमादायैव ज्ञायते, न तु केवलायाः । व्यक्तिं विना जातेरज्ञानादिति जातेरवच्छेदकत्वे नागृहीतविशेषणान्यायाद्व्यक्तेरवच्छेदकत्वमाव श्यकमिति शक्यज्ञाने विषयतयाऽवच्छेदकत्वाज्जातिवद्व्यक्तिरपि शक्या । यद्वा, प्रथमं व्यवहा- रानुमितव्यक्तिज्ञाने पदानुविधानात् पदं शक्तमित्यवधारयति न तु जातिज्ञाने, व्यवहाराहेतु- त्वेन तदा तस्यानुपस्थितेः । पश्चाद्व्यक्तेर्व्यावृत्त्यर्थमनुगमार्थञ्च जातिरपि तद्विषय इति मानान्तरेण ज्ञात्वा जातिज्ञानेऽपि तत्पदस्य कारणतां प्रत्येति । तथा च व्यक्तिशक्तिज्ञानमपि कारणम् । न च जातिशक्तिज्ञानेनान्यथासिद्धिः । व्यक्तिज्ञानकारणतामुपजीव्य जातिज्ञानकारणताग्रह इति उपजीव्य- विरोधात् । अपि च, पदस्य व्यक्तिज्ञानार्थं शक्यज्ञाने विषयतया व्यक्तेरवच्छेदकत्वमात्रं कल्पयति । लाघवात् । जातिविषयत्वाद्व्यक्तिविषयत्वस्य ज्ञानवित्तिवेद्यत्वेनावश्यं शीघ्रोपस्थितत्वात् । न तु जातौ शक्तिं तज्ज्ञानं कारणान्तरं वा तदवच्छेदकं कल्पयति गौरवात् । शक्तिग्रहकाले तेषां कल्प- नीयोपस्थितिकत्वाच्चेत्यस्मत्पितृचरणाः । इदानीं वर्णनित्यतापक्षेऽपि पदानित्यताया सङ्गतिरविशिष्टेत्याह- न चेति । स्वरो = ध्वनिः । तन्मतेऽप्यनित्यः । न हि तावद्वर्णमात्रे शक्तिः, व्युत्क्रमेण ततोऽर्थप्रत्ययाभावादित्यानुपूर्वीविशेषविशिष्टे तत्र शक्तिः, सा चैकवर्णज्ञानानन्तरज्ञानविषयत्वमर्पर- मकरन्दः । यत्र शक्तिरस्ति, परन्तु शाब्दबोधे तस्याः कारणता नास्ति, तत्रैव कुब्जशक्तिरित्येके । यत्र स्वरूपसत्येव शक्तिः कारणं न तु ज्ञाता, तत्र कुब्जशक्तिरित्यपरे ॥ १ ॥ टिप्पणी । नित्यत्वेऽपि शब्दत्वसामान्यस्यैव शक्तिः । क्वचित् ज्ञानानन्तरज्ञानविषयत्वमिति पाठः । इदञ्च शब्दनित्यतामते, स्वमते एकवर्णान्तरापरवर्णत्वस्यैव तथात्वात् ॥ १ ॥