न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 315, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तबके ] .. प्रलयोपपादनम् । २८१ उच्यते— वर्षांदिवद्भवोपाधिर्वृत्तिरोधः सुषुप्तिवत् ॥ उद्भिद्वृश्चिकवद्वर्णा मायावत् समयादयः ॥ २ ॥ तत्पूर्वकत्वमात्रे सिद्धसाधनाद् , अनन्तरतत्पूर्वकत्वे अप्रयोजकत्वाद् , वर्षादि बोधनी । तानि कर्माणि न युगपन्निरुद्धवृत्तीनि विषमविपाकसमयत्वात् इदानीं भुक्तभुज्यमानभोक्ष्यमाणकर्मव- दिति । किञ्च, सर्गादिभुवां जातिविशेषव्यवस्थापकोत्पादकजातिविशेषाभावाद् ब्राह्मणत्वादि- वर्णव्यवस्था न स्यात् । विप्रतिपन्ना ब्राह्मणा ब्राह्मणसंतानजन्मानः ब्राह्मणत्वादद्यतनवत् । किञ्च, सर्गादौ सर्वेषामव्युत्पन्नतवेन समयग्रहणाद्युपपत्तौ शब्दव्यवहारोऽपि लुप्येत । विप्रतिपन्नः शाब्द- व्यवहारः वृद्धव्यवहारपूर्वकः शाब्दव्यवहारत्वात् अद्यतनवत् । किञ्च, तदानीं कस्यचिदादर्शक- स्याभावाद् घटादिनिर्माणसंप्रदायो न स्यात् । विप्रतिपन्नं घटादिनिर्माणं तथाभूतादर्शकज्ञानपूर्वकं घटादिनिर्माणत्वादद्यतनवत् इत्येतैर्हेतुभिर्युगपत्सर्गप्रलययोर भावे सति कथं वेदसंप्रदायविच्छेदः स्यादिति ॥ पञ्चापि साधनानि दूषयति-उच्यते वर्षादिवत् इति । न तावदहोरात्रपूर्वकत्वे अहोरात्रत्वं प्रयोजकं, भवस्य ब्रह्माण्डस्थितेस्तत्रोपाधित्वात् । यथा वर्षादिदिनस्य तद्दिनपूर्वकत्वे तद्दिनत्वमप्र- योजकं राश्यादिसंसर्गोपाधित्वात् । तस्य च कर्मणां युगपद्वृत्तिनिरोधोऽपि सुषुप्तिदशायामिव संभवति । ब्राह्मणत्वादिनियमोऽपि गोमयादिजातानामिव वृश्चिकादीनामुपपद्यते । समयग्रहोऽपि सर्गादौ स्वयमेव परिगृहीतप्रयोज्यप्रयोजकवृद्धशरीरव्यवहारस्य परमेश्वरस्य व्यवहारात एव सुकरः, यथेन्द्रजालिकस्य सूत्रप्रोता दारुमयीपुत्रिकां इदमानयेति नियुज्य तथा कुर्वन्तीभिस्ताभिर्मायाव्यव- हारे तद्दर्शिनां बालानां, तया घटादिक्रियासंप्रदायोऽपि गृहीतकुलालादिविग्रहेण भगवतैव सिध्यतीति । प्रथमं पादं व्याचष्टे-तत्पूर्वकत्वमात्रे इति । सर्गादिवृत्तिनोऽहोरात्रस्याहोरात्रपूर्वकत्वे साध्ये सिद्धसाधनं, तस्यापि पूर्वसर्गान्तिमाहोरात्रपूर्वकत्वात् । किञ्च, संप्रतिपन्नाहोरात्रपक्षीकर- णे सिद्धसाधनं सर्गादिवृत्तिनस्तवाश्रयासिद्धिरिति भावः । नन्वव्यवहिताहोरात्रपूर्वकत्वं साध्यत इत्यत्राह-अनन्तर इति । तत्राहोरात्रत्वमप्रयोजकं संप्रतिपन्नाहोरात्राणामनन्तरतत्पूर्वकत्वेस्योपा- ध्यन्तरप्रयुक्तत्वादिति । अप्रयोजकत्वमेव दृष्टान्तेन दर्शयति-वर्षादि इति । यथा हि वर्षाः शरदि- प्रकाशः । वर्षादिवदिति । वर्षादौ, वर्षादिनपूर्वकत्वे साध्ये यथा राश्यादिभेदसंसर्गभेद उपाधिः, तथाऽ- होरात्रपूर्वकत्वेऽहोरात्रस्य साध्ये भवो ब्रह्माण्डस्य स्थितिकालः, स एवोपाधिरित्यर्थः । सुषुप्तौ यथा कर्मणां युगपन्निरोधस्तथा अन्यत्रापि स्यादित्याह । वृत्तिरोध इति । यथा तण्डुलीयवृश्चि- कयोस्तत्पूर्वकत्वेऽपि आद्यौ तौ तण्डुलकणगोमयाभ्यां भवतः, तथा ब्राह्मणादीनां तत्पूर्वकत्वेऽपि सर्गादौ तज्जनककर्मोपगृहीतभूतभेदात् स्यादित्याह । उद्भिदिति । प्रयोज्यप्रयोजकाद्यधिष्ठातुरी- श्वरस्यैव व्यवहारान्मायादिव्यवहारादिव तद्दर्शी व्युत्पन्नः स्यादित्याह । मायावदिति । विवादाध्यासिताहोरात्रस्याहोरात्रपूर्वकत्वं साध्यम् अव्यवहिताऽहोरात्रपूर्वकत्वं वा ? । नाद्य इत्याह । तत्पूर्वकत्वेति । पूर्वसर्गाहोरात्रपूर्वकत्वेन प्रलयेऽपि साध्यसिद्धेरित्यर्थः । नान्त्योऽप्रयोजक- त्वादित्याह । अनन्तरेति । वर्षादीति । तद्दिनं = वर्षादिनम् । ननु शारदाद्यदिनस्य वर्षादिनपूर्वकत्वं प्रकाशिका । वर्षादाविति । वर्षाद्यदिन इत्यर्थः । प्रलये = प्रलयाभ्युपगम इत्यर्थः । ३६ न्या०कु०