न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 320, कुल 608 में से
संदर्भ में पढ़ें२८६ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ २ कारिकान्याख्याने तीयत्वमिति किमसङ्गतम् ? । गतं तर्हि गोपूर्वकोऽयं गोत्वादित्यादिना । न गतम्, योनिजेष्वेव व्यवस्थापनात्, मानसास्त्वन्यथाऽपीति । गोमयवृश्चिकादिवद् इदानी- मपि किं न स्यादिति चेन्न । कालविशेषनियतत्वात् कार्यविशेषाणाम्, न हि वर्षासु गोमयाच्छालुक इति हेमन्ते किं न स्यात् ॥ समयोऽप्येकेनैव मायाविनेव व्युत्पाद्यव्युत्पादकभावावस्थितनानाकायाधिष्ठा- नाद् व्यवहारात एव सुकरः । यथा हि मायावी सूत्रसञ्चाराधिष्ठितं दारुपुत्रकमिद- मानयेति प्रयुङ्क्ते, स च दारुपुत्रकस्तथा करोति तदा चेतनव्यवहारादिवत् तद्दर्शी बालो व्युत्पद्यते, तथेहापि स्यात् । क्रियाव्युत्पत्तिरपि तत एव कुलालकुविन्दा- दीनाम् । सर्गादावेव किं प्रमाणमिति चेत् । विश्वसन्तानोऽयं दृश्यसन्तानशून्यैः समवा- बोधनी। मुत्पाद्यजातीनामिति नियमो निरस्तः स्यात् इत्याह-गतं तर्हि इति । न गतम् इति । न च सोऽपि नियमः सर्वथा निरस्यत इति । कथमित्याह-योनिजेषु इति । योनिजेष्वेवायं नियमो नायोनिजेष्विति केवलं व्यवस्थाप्यते, तेन मानसानामन्यथात्वमपि संभवतीति । नन्वन्यत्वेऽपि यथा गोमयाद् वृश्चिका जायन्ते तथा मनसाऽपि केचिज्ञ्जायन्ताम् इत्याह-गोमय इति । न इति । कालविशेषलक्षणसहकारिविरहादित्यर्थः । तत्रैव दृष्टान्तमाह-न हि इति । तथा सर्गादावेवादृष्टोप- निबद्धभूतहेतुको जातिनियमः, नेदानीमपीति सिद्ध एव । संग्रहस्य तुरीयं पादं व्याचष्टे-समयोऽपि इति । मायाविनेत्येतद्विभजते-यथा हि इति । शब्दव्युत्पत्तिवद् घटादिनिर्माणव्युत्पत्तिरपि कुलालादिभावव्यवस्थितकायानाधिष्ठाय पटादिकं निर्मिमाऐनैवेश्वरेण सुकरेत्याह-क्रियाव्युत्पत्तिरपि इति । ननु सर्गप्रलययोः सिद्धौ सर्वमेतदेवं स्यात्, तयोरेव सिद्धिः कुतस्त्येत्याह-सर्गादौ इति । सर्गसिद्धौ तावदनुमानमाह-विश्वसंतानो ऽयम् इति । अवयवावयविप्रवाहः संतानः, सिद्धसा- ध्यतान्निवृत्यर्थमुक्तं-विश्व इति । दृश्यसंतानशून्यैः इति । यथा ह्यद्यत्वे घटादिकार्याणि तदारम्भकैः परमाणुभिः तदारम्भात् पूर्वदृश्यमानमृत्पिण्डादिकार्यसंतानवद्भिरारभ्यन्ते, नैवं सर्व- दापीति । कदाचिद्दृश्यसंतानशून्यैरनारब्धसर्वकार्यैः स्वरूपेणावस्थितैरिति यावत् । परमाणुभिर्विश्वं कार्यमारभ्यते यथा हारणिजनितोऽग्निः संतानान्तरशून्यैरवारणिवर्तिभिरान्नेयपरमाणुभिरारभ्यत प्रकाशः। इत्येतार्थः । गतमिति । सर्गायगोव्यक्तौ व्यभिचारादित्यर्थः । योनिजेष्विति । योनिजमात्रवृत्ति- गोत्वव्याप्यजातेस्तत्र हेतुत्वादित्यर्थः। तन्निश्चयश्च कालविशेषवृत्त्येति भावः । समयोऽपीति । नन्वीश्वरव्यवहाराच्छक्तिग्रहे स भ्रमः स्यात् । व्यवहारहेतुतज्ज्ञानस्य नित्यतया शब्दजन्यत्वबाधात् । तथा च तन्मूलकः सर्वशाब्दव्यवहारो भ्रमः स्यात् । न । घट- पदं घटज्ञानमित्यस्य भ्रगत्वेऽपि घटपदं घटशक्तमित्यस्य ज्ञानस्य सत्यज्ञानत्वाद् विषयाबाधावात्। न च भ्रममूलकत्वेन भ्रगत्वम् । विशेष्यावृत्तिप्रकारकत्वस्योपाधित्वात् । अत एवानुरूपं दृष्टान्तमाह । यथा हीति । विश्वसन्तान इति । ननु विश्वशब्देन ब्रह्माण्डपक्षत्वे तदसिद्ध्या आश्रयासिद्धि, कार्यमात्र- पक्षत्वे क्रमारब्धदहनपवनादिन्यायेनारम्भेऽपि प्रलयासिद्धौ सिद्धसाधनम्। एकदेति विशेषणे टिप्पणी। प्रलयेऽहोरात्रत्वानभ्युपगमेऽपि ब्रह्माण्डस्यानित्यत्वे सर्गायहोरात्रव्यक्तित्वे साधनाव्यापक-