न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 336, कुल 608 में से
संदर्भ में पढ़ें३०२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां तथा च भाविप्रवाहवद्भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते । स्मरति च भगवान् व्यासो गीतासु भगवद्वचनम्— यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ इति कः पुनरयं महाजनपरिग्रहः ? । हेतुदर्शनशून्यैर्ग्रहणधारणार्थानुष्ठानादिः, न ह्यत्र न स्यादृते निमित्तम् । न ह्यत्रालस्यादिनिमित्तम् । दुःखमयकर्मप्रधानत्वात् । नाप्यन्यत्र सिद्धप्रामाण्येऽ- भ्युपायेऽनधिकारेणाऽस्मिन्ननन्यगतिकतयाऽनुप्रवेशः । परैः पूज्यानामप्यत्राप्रवेशात्। नापि भक्ष्यपेयाद्यद्वैतरागः, तद्विभागव्यवस्थापरत्वात् । नापि कुतर्काभ्यासाऽहित- व्यामोहः, आकुमारं प्रवृत्तेः । नापि सम्भवद्विप्रलम्भपाखण्डसंसर्गः, पित्रादिक्रमेण प्रवर्त्तनात् । नाऽपि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः, प्राथमिकस्य कर्मकाण्डे बोधनी । च्छेदी कथं सिध्यत इत्यत्राह-तथा च इति । वर्तमानोऽयं प्रवाहः प्रवाहोच्छेदपूर्वकः प्रवाहत्वाद्भा- विप्रवाहवत् । प्रवाहविच्छेदयोः पुनः प्रवृत्तावागमसंवादं दर्शयति-स्मरति च इति । महाजनप- रिग्रहाद् वेदस्य प्रामाण्यमित्युक्तं, तत्र कोऽयं परिग्रहो नामेत्याह-कः पुनः इति । हेतुदर्शनशू- न्यैः इति । दृष्टहेतुदर्शनशून्यैरिति । वेदपरिग्रहे न कश्चिद् दृष्टो हेतुरित्याह-न ह्यत्र इति । न च सिद्धपुरुषार्थावगत्युपाय आगमान्तरेऽनधिकारिणः केचिद् गत्यन्तराभावादर्थसंदेहादेवात्र प्रवर्त्तन्ते । यद्ययं वेदागमः प्रमाणं स्यात् ततः पुरुषार्थसिद्धिः, नो चेत् पूर्वावस्थाया न हानिरिति । न तु प्रामाण्यनिश्चयादिति वाच्यमित्याह-नापि इति । परैर्बौद्धैः, सम्मतानामप्यत्र प्रवेशो नास्ति किमु तैरपि त्यक्तानामिति । न वागमान्तराणां भक्ष्याभक्ष्यविभागपरत्वादसिद्धप्रामाण्यान्यपि तानि परि- त्यज्य स्वैरभक्षणार्थमत्र प्रवर्त्तन्त इत्याह-नापि इति । भक्ष्यस्य पेयस्य वा भक्ष्येण पेयेन च सह द्वैतं नास्ति किं तु सर्वं भक्ष्यं च पेयं चैकत्वमेव तयोरिति कामयमाना इति । नापि कुतर्काभ्यास- वन्तस्तैः कुतर्कैः प्रमाणमेवेदं प्रमाणतया निश्चित्य प्रवर्त्तन्ते तदभ्यासविरहिणामेव कुमाराणां प्रवृत्ते- रित्याह-नापि इति । नापि संभवद्विप्रलम्भैः षण्डजैः संसर्गेण तैर्विप्रलब्धाः प्रवर्त्तन्ते, पितृपितामहा- दयोऽत्र प्रवृत्ता इत्यवगम्य प्रवृत्तेरित्याह-नापि इति । 'नापि योगमभ्यस्यता मया तूष्णीमास्यत इति व्यपदेशेनाव्यग्रतां निर्व्यापारतां फलत्वेनाभिसंधायात्र प्रवृत्तिरित्याह-नापि इति । कर्मकाण्डे ह्ययं प्राथमिकः प्रवृत्ते न तु ब्रह्मकाण्डे “ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्” इति वचनात् तत्र चास्यानेकधाऽनुष्ठानव्यग्रत्वात् । यद्वा, अन्तिममोक्षाश्रममप्राप्तः प्राथमिकस्तस्य कर्मकाण्डव्यग्रत्वादिति । नापि जीविकाऽत्र प्रवृत्तेर्निमित्तं, 'दृष्टलाभफला नापि' (न्या०कु० १ । ८) प्रकाशः । नादिरेवायं संप्रदाय इत्यत्र न किञ्चिदनिष्टमित्यत आह । तथा चेति । प्रवाहत्वादिति शेषः । धर्मो = यागादिः, तस्य ग्लानिरुच्छेदः । अधर्मस्य = मण्डलीकरणादेः । संस्थापना = व्यवस्था । ननु महाजनपरिग्रहाद्वेदस्य प्रामाण्यधौः, स एव क इत्यत आह कः पुनरिति । हेतुदर्शनेति । अनन्यथासिद्धप्रवृत्तिविषयत्वमित्यर्थः । तदेवाह । न ह्यत्रेति । निमित्तमित्यग्रे सर्वत्रानुषज्ज्यते । योगेति । योग एव कर्तव्यो, न तु चित्तविक्षेपहेतुर्यागादिरित्यभिमानेनेत्यर्थः । प्राथमिकस्येति । ब्रह्मचारिण इत्यर्थः । योग्यव्यग्रताभिमानेन कर्मकाण्डे प्रवृत्तिर्न स्यात् तस्य