न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 341, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तवके] ईश्वरे समाश्वासोपसंहारः। ३०६ कारं कारमलौकिकाद्भुतमयं मायावशात् संहरन् हारं हारमपीन्द्रजालमिव यः कुर्वन् जगत् क्रीडति ॥ तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवं विश्वालैकसुवं शिवं प्रति नमन् भूयासमन्त्येष्वपि ॥४॥ इति द्वितीयः स्तवकः ॥ २ ॥ बोधनी। -कारं कारम् इति। संसारिचेतनवर्गसमवेतमदृष्टं माया, तद्वशादलौकिकमन्यत्रादृष्टचरमद्भुत- मयं विचित्रं च जगत्कृत्वा कृत्वा पुनः संहृत्य संहृत्य पुनरपि कुर्वन् ऐन्द्रजालिक इवेन्द्रजालं यः क्रीडति तं देवं, निरवग्रहस्फुरदभिध्यानानुभावं निरवग्रहम्=अप्रतिघातं, स्फुरत् प्रकाशमानम्। अभिध्यानं सर्वानपि विषयान्दृष्टपरमाण्वादीनभिध्याय व्यवस्थितं ध्यानं ज्ञानं, तदेव तस्यानुभावो = महिमा यस्य तथोक्तः । यद्वा, अनुभावः = क्रियाशक्तिः, अप्रतिहते सर्वविषये ज्ञानशक्तिक्रिया- शक्ती यस्य स तथा । नित्यज्ञानत्वेन विश्वासभुवां कपिलादीनां निरस्तत्वात् तस्यैकभुवं शिवं प्रति नमन्, भूयासमन्त्येष्वपि जननेषु नीचास्वपि जातिषु वर्तमानः शिवं प्रति नमन् भूयासमिति यावत् । यदि शिवं प्रति नमन् भवे, अन्येष्वपि भूयासम्, अन्यथा तूत्तमेष्वपि न भूयासमित्यर्थः॥४॥ इति श्रीमद्दामदेवमिश्रसूनोर्वरदराजस्य कृतौ न्यायकुसुमाञ्जलिटीकायां द्वितीयः परिच्छेदः॥ प्रकाशः। परिच्छेदार्थमुपसंहरन् ईश्वरस्य नतिमाह । कारमिति । जगत् = कार्यद्रव्यजातं, कृत्वा कृत्वा संहरन्, हृत्वा हृत्वा सृजन् , मायावशात् सृष्टिसंहारसहकारिसम्पत्तेर्यः क्रीडतीव, तं, देवं= स्तुत्यं, सत्यविश्वासाैककारणं, भवं = जगन्मूलकारणम्, निष्प्रतिबन्धस्फुरदिच्छाप्रभावं शिवं प्रत्यु द्दिश्य नमन्नन्तकालेष्वपि भूयासमित्याशंसा ॥ ४ ॥ इति श्रीमहामहोपाध्यायश्रीवर्धमानविरचिते कुसुमाञ्जलिप्रकाशे द्वितीयः स्तवकः॥ २ ॥ प्रकाशिका। जगतो नित्यघटितत्वात्, संहरणादिकमसम्भवोति व्याचष्टे । कार्यद्रव्येति । कार्यमात्र- संहरणं महाप्रलय एवेति तत्र पौनःपुन्यमनुपपन्नमत उक्तं-द्रव्येति । माया पदार्थान्तरं न्यायमते नास्त्येव, मिथ्याज्ञानात्मिकापि नेश्वर इत्यन्यथा व्याचष्टे-सृष्टीति । तथा चादृष्टमेवात्र मायापदार्थ इति भावः। क्रीडनमपि वास्तवमीश्वरे बाधितमित्यत आह-इवेति। ननु दीव्यतीति देवः खेदः दैवनं च क्रीडनं तच्चेश्वरे नास्तीत्य ( त आह ) र्थान्तरमाह । स्तुत्यमिति । अवग्रहशब्दस्यैव वृत्तिप्रतिबन्धके शक्तिर्न च तेनार्थेन प्रकृते सङ्गतिरिति प्रतिबन्ध- कमात्रपरतया व्याचष्टे-निष्प्रतिवन्धकेति । अन्त्येष्वपीत्यर्थः । विशिष्टस्य भवनस्याऽऽशंसायां मुमुक्षुताविरोधः बहुत्वविशिष्टस्यान्तस्य जन्मबहुत्वाधीनत्वात्, न च जन्म मुमुक्षोराशंसनीय- मित्याशंसाविषयं विच्छिद्य दर्शयति । भूयासमित्याशंसेति । तेन भूयासमित्याशीर्लिङ् स्फु- टत्वादाशंसेति विफलमिति न दोषः । तथा च नमनविशिष्टभवनमात्रमाशास्यमित्यर्थः ॥ ४ ॥ इति श्रीमद्महामहोपाध्यायश्रीभगीरथापरनामकमेघठक्कुरविरचितायां कुसुमाञ्जलिप्रकाशिकायां द्वितीयः स्तवकः। मकरन्दः। नित्यस्य संहरणादिकमसम्भवीति व्याचष्टे-कार्यद्रव्येति । कार्यमात्रसंहरणं महाप्रलय- एवेति तत्राभीक्ष्णत्वमनुपपन्नं तस्याप्रकृतत्वञ्चेति द्रव्यपदमुपात्तम् । ईश्वरस्य मायावित्वे संसारित्वा पत्तिरिति व्याचष्टे सृष्टीति । वास्तवक्रीडनमपि तस्य नास्तीत्यत आह । इवेति ॥ ४ ॥ इति महामहोपाध्यायदेवदत्तात्मजमहामहोपाध्यायरुचिदत्तविरचिते कुसुमा- ञ्जलिप्रकाशव्याख्याने मकरन्दे द्वितीयः स्तवकः॥