न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 361, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम्। ३२६ श्वरस्तज्ज्ञानं वा क्वचित् सिद्धम्। आभासप्रतिपन्नमिति चेन्न। तस्याश्रयत्वानु- पपत्तेः। प्रतिषेध्यत्वानुपपत्तेश्च ॥ १ ॥ व्यावत्र्त्याभाववत्तैव भाविकी हि विशेष्यता ॥ अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ॥ २ ॥ न चैतदाभासप्रतिपन्नस्यास्तीति कुतस्तस्य निषेधाधिकरणत्वं निषेध्यता वेति । कथं तर्हि शशशृङ्गस्य निषेधः । न कथञ्चित् । बोधनी । ज्ञानाश्रय एव सर्वकर्त्तृत्वस्य विषयत्वस्य वा प्रतिषेधः संभवतीति । आभास इति ॥ तेनाश्रयत्वोपप- त्तिरिति । न इति । न परस्माभासप्रतिपन्नाश्रयत्वानुपपत्तिः । प्रतिषेधप्रतियोगित्वं च नोपपद्यत इति ॥१॥ उभयमप्यनुपपत्तिमपपादयति व्यावत्र्त्ये-इति । व्यावत्र्त्यस्य=निषेधस्य । अभाववत्ता=तत्संबन्धिता । भाविकी=पारमार्थिकी । विशेष्यता नामाभावाधिकरणतेति । यावत्पारमार्थिकी चाभाववत्ता पारमार्थिक- स्यैव भावस्य न चाभासप्रतिपन्नस्येति भावः । निषेध्यस्य प्रतियोगिनः परमार्थतोऽभावविरुद्धात्मत्वं हि प्रतियोगिता निषेध्यत्वमिति यावत्, न चैतदप्याभासप्रतिपन्नस्यास्तीति । यथाहुः "लब्धरूपे क्वचि- त्किञ्चित्तादृगेव निषिद्ध्यते" इति । न चैतत् इति ॥ विशेष्यप्रतियोगिनोर्दर्शितं रूपमिति । कथं तर्हि-इति । यद्यसद्वस्त्वैतन्नास्तीति । उत्तरं न कथञ्चित्-इति । शशशृङ्गप्रतियोगिको निषेधो न . प्रकाशः । आभासेति । असत्ख्यात्युपस्थितमित्यर्थः । यदीश्वरे कर्त्तृत्वनिषेधः साध्यते तदाऽऽश्रयत्वमीश्वरस्य, यदा तस्यैवाभावः, तदेश्वरस्य प्रतियोगितात्वम्, उभयमपि नास्तीत्याह । तस्येति । ॥ १ ॥ कुत इत्याह । व्यावत्र्त्येति । व्यावत्र्त्यः = प्रतियोगी, तदभाववत्ता भाविकी पारमार्थिकी विशेष्यता आश्रयता, वस्तुनः प्रामाणिकस्य, स्वाभावविरहरूपत्वं च प्रतियोगितात्वम् । असत्ख्यातेः कारणाभावेन निरासादित्यर्थः । नन्वनुमितिरैव पक्षः । तथा हि इयमनुमितिरयथार्था, अशरीरे कर्तृत्वज्ञानत्वात्, ज्ञाने नित्यत्वज्ञानत्वाद्वा । घटः कर्त्ता, चैत्रज्ञानं नित्यमिति ज्ञानवदित्यस्तु । न चोपजीव्यविरोधः । अनु- मितिर्हि उपजीव्या, न तु तन्मथार्थत्वमपि । न । अप्रयोजकत्वात् । अन्यथा, पर्वते वह्न्यनुमि- तिरयथार्था उभयसिद्धाग्निमद्भिन्नोऽग्निमत्त्वज्ञानत्वात्, ह्रदोऽग्निमानितिवदित्यापत्तेः । अपि चानु- मितेरयथार्थत्वं दोषादुत्पन्नमनेन ज्ञाप्यं, न त्वनेनोत्पाद्यम् । तत्र चायमेव दोषो दोषान्तरं वा ? नाद्यः, अन्योन्याश्रयात् । नान्त्यः, तदभावात् । न चेति । आभासानाभाससङ्करापत्तेरिति भावः । कथमिति । यदि नासतो निषेध्यत्वमिति शेषः । न कथञ्चिदिति । नात्रापि कल्पितस्य निषेध्यत्वं, शशेऽधिकरणे शृङ्गस्यैव निषेधा- प्रकाशिका । अयमेवेति । प्रकृतानुमानरूप एवेत्यर्थः । आभासेति । आभासप्रतिपन्नस्यापि वस्तुत्वे वास्तवव- स्तुनोरभेदापत्तिरित्यर्थः । तर्हीत्यस्य तदेत्यर्थः । तत्त्व च यदीतिशब्दसापेक्षतया शेषं पूरयति । यदीति । मकरन्दः । अयमेवेति । प्रकृतानुमानमेवेत्यर्थः । आभासेति । आभासप्रतिपन्नस्यापि वस्तुत्वाभ्युपगमे वस्तुत्वावस्तुत्वसङ्करापत्तिरित्यर्थः । यदीति । यद्यपि तर्हीत्यस्य तदेत्यर्थः, तस्य च नित्यसापे- क्षतया शेषदानं विनाऽपि तदर्थलाभः, तथापि नित्यसापेक्षतया अध्याहारात् तदपेक्षया शेषस्य टिप्पणी । अप्रयोजकत्वादिति । कृतिं प्रति शरीरस्य कारणत्वे सिद्धे सप्रयोजकत्वं स्यात्, नित्यकृत्यभ्युपग मेन तदभावादिति भावः । आभासानाभाससङ्करेति । आभासप्रतिपन्नस्यापि वस्तुत्वाभ्युपगमे ४१ न्या० कु०