भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 373, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 373

तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४१ तत्र तादात्म्यं विपक्षे बाधकाद्भवति । तदुत्पत्तिश्च पौर्वापर्येण प्रत्यक्षानुपलम्भाभ्याम् । न ह्येवं सति शङ्कापिशाच्यवकाशमासादयति, आशङ्क्यमानकारणभावस्यापि पिशाचादेरेतल्लक्षणाविरोधेनैव तत्त्वनिर्वाहादिति । न । एवमप्युभयगामिनोऽव्य- भिचारनिबन्धनस्यैकस्याऽविवेचनात् , प्रत्येकं चाव्यापकत्वात् । कुतश्च कार्यात्मानौ कारणमात्मानञ्च न व्यभिचरत इति ॥ अत्रोच्यते— शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् ॥ बोधनी । तादात्म्यतदुत्पत्त्योरेव निश्चयः कुतस्त्य इत्यत्राह तत्र-इति । अवृक्षे शिलादौ शिंशपात्वस्यानु- पलब्धिबाधितत्वाद् वृक्षः शिंशपात्वेति निश्चीयते । तदुत्पत्तिस्तु पूर्वापरभावेन प्रत्यक्षानुपलम्भाभ्यां सिध्यति । “प्रत्यक्षानुपलम्भपञ्चकेन तदुत्पत्तिनिश्चयः” इति हि बौद्धाः । तत्र पौर्वापर्येण वह्निधूम- योरुपलम्भो प्रत्यक्षद्वयं वह्नयनुपलम्भे धूमानुपलम्भः अन्यस्मिन्पूर्वभावेनोपलब्धेऽपि धूमस्या- नुपलम्भ इत्यनुपलम्भत्रयमिति प्रत्यक्षानुपलम्भपञ्चकम् । अन्येषां तु वह्नेर्धूमस्य पौर्वापर्यस्य च त्रीणि प्रत्यक्षाणि वह्नेर्धूमस्य च द्वावनुपलम्भाविति । नन्वेवमप्यदृश्यभावः पिशाचादिर्धूमस्य कारणं, वह्निस्तु नान्तरीयकसंनिधिर्न वेति शङ्कायां न तदुत्पत्तिसिद्धिरित्यत्राह न ह्येवम्—इति । पिशाचा- देस्तु पौर्वापर्येण प्रत्यक्षानुपलम्भगोचरत्वरूपस्य कारणलक्षणस्य विरोधाभावेन तत्त्वस्य कारणत्वस्य निर्वाहान्न शङ्कावकाश इति नानेनापि प्रकारेणाविनाभावनिश्चय इत्याह नैवम्-इति । कुत इत्यत आह उभय-इति । किमत्र क्वचित्तादात्म्यमव्यभिचारनिबन्धनमन्यत्र तदुत्पत्तिरिति विषयव्यव- स्थयोच्यते किं वा स्वतन्त्रमुभयं तादात्म्यं तदुत्पत्तिर्वेति । नाद्यः, अनुवृत्तस्याव्यभिचारनिबन्ध- नस्यावचनात् , तद्वचने च तस्यालक्षितत्वात् । नाप्युत्तरः, तादात्म्यस्य तदुत्पत्तावभावात् तस्या- श्चेतरत्राभावाद्व्यापकत्वादत एव नापि संभूयेति भावः । कि च उपाधिविधूननापेक्ष एव ताभ्या- मप्यविनाभावनिश्चय इत्याह कुतश्च-इति । तदेवमनुमानस्याव्यभिचारनिश्चयापेक्षत्वात्तस्य चोपाधि- निषेधायतत्वात्तन्निषेधे योग्यानुपलम्भाभावादनुपलम्भमात्रस्य च निषेधकत्वानङ्गीकारादनुमानेन च तन्निषेधेऽनवस्थाप्रसङ्गात् । बौद्धानामपि निषेधाच्चानुमानादिविलोपप्रसङ्ग इति । चार्वाके प्रत्यवस्थिते परमसिद्धान्तीत्याह अत्रोच्यते-इति । उपाधिविरहस्य दुरवधारणत्वेना- नुमानकुलोत्सादाच्छङ्कास्ति चेत् तत एवानुमाऽस्त्येव तत्कालतद्देशयोः सहदृष्टस्य किं कालान्तरे देशान्तरे चाऽविनाभावो भविष्यति न वेत्येवं व्यभिचारस्य शङ्कनीयत्वात् कालान्तरभवनमसंनिहितं च देशमनाकलप्य शङ्कानुपपत्तेः तदाकलनस्य चानुमानमवधीर्याशक्यत्वादिति हृदयम् । तदनाकलने तु शङ्कैव न स्यान्निराश्रयत्वादित्यभिसंधायोक्तं न चेच्छङ्का ततस्तराम्-इति । न चेच्छङ्का, प्रकाशः । आशङ्क्यमानेति ॥ अग्निं विना पिशाचादेव धूमः स्यादिति पिशाचस्य कारणत्वशङ्काऽन्वयव्यति- रेकावादाय वाच्या तौ चाग्नेः प्रत्यक्षसिद्धस्येति नान्यकारणशङ्केत्यर्थः । दूषयति ॥ नैवमपीति ॥ तयोर्न मिलितयोर्व्याप्तिग्राहकत्वमसिद्धेरिति प्रत्येकं तत्त्वे व्याप्तिग्राहकतावच्छेदकानुगतरूपाभाव इत्यर्थः । ननु ज्ञापकस्याननुगमो न दोषः, एकस्याप्यनेकज्ञाप्यत्वादित्यत आह । कुतश्चेति ॥ विपक्षबाधकतर्कस्यापि व्याप्त्यपेक्षया तत्रापि तर्कान्तरानुसरणेऽनवस्था तर्कं विनाऽपि व्याप्तिग्रहे व्यभिचारात् तर्कोऽपि न तद्धेतुः स्यादित्यर्थः ॥ शङ्का चेदिति ॥ कालान्तरदेशान्तरयोर्व्यभिचारोपाध्यन्यतराशङ्का यदि, तदाऽनुमानमस्त्येव । तां विना तयोरप्रतीतेः। यदि च तयोरप्रतीतौ न शङ्का, सुतरामनुमानम् । शङ्कानिरासकस्याप्यनपेक्ष- प्रकाशिका । नादिनियतस्येत्यर्थः । अनेकज्ञाप्यत्वादिति । कार्ये च ज्ञानरूपे विषय एव विशेष इति न परस्पर-