न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 375, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४३ चेन्न । यावदाशङ्कं तर्कप्रवृत्तेः । तेन हि वर्त्तमानेनोपाधिकोटौ तदायत्तव्यभिचार- कोटौ वाऽनिष्टमुपनयतेच्छा विच्छिद्यते । विच्छिन्नविपक्षेच्छश्च प्रमाता भूयोदर्श- नोपलब्धसाहचर्यं लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच्च करणात् क्रियापरिनिष्प- त्तिरिति किमनुपपन्नम् ॥ बोधनी तत्रोभयत्रापि तर्कप्रवृत्तेः शङ्कानिवृत्तिरिति । कथं तर्हि ततस्तन्निवृत्तिरित्यत्राह तेन हि-इति । यद्यत्रोपाधिः स्यात् तदायत्तो वा हेतोर्व्यभिचारस्तत एव स्यादिति । प्रामाणिकत्यागाप्रामाणिकस्वीका- रात्मकानिष्टमुपनयता तर्केण पक्ष एव जाता विपक्षजिज्ञासात्मिकेच्छा विच्छिद्यते, तद्विच्छेदे चानुमाता निरन्तरायेण भूयोदर्शनेनावधारितव्यभिचारं लिङ्गं निःशङ्क एवानुमितिज्ञानोत्पादे विनियुङ्क्ते विनियुक्ताच्च करणालिङ्गादनुमितिक्रियानिष्पत्तिरिति न संकटं किञ्चिदिति ॥ प्रकाशः । सा च प्रत्यासत्तिरनुमानप्रामाण्यवादिनोऽपि स्वीकार्या । अन्यथा, यस्य व्याप्तिग्रहः स न पक्षधर्मः, तादृशश्च न व्याप्तिग्रहगोचर इत्यनुमानविलयापत्तिः । मैवम् । इदमसाधकमनुपलभ्यमानव्यभिचारशङ्का- ग्रस्तत्वादित्यनुमानमपि शङ्काऽऽस्कन्दतीति जात्युत्तरत्वात् । व्याप्तिग्रहाभावव्यभिचारशङ्कयोस्त्वयापि व्याप्तिस्वीकारात् । व्यभिचारशङ्कायामव्यभिचारकोटेरावश्यकत्वाच्च । अपि चानुमानाप्रामाण्यं नानु- मानगम्यम् । तदनङ्गीकारात् । नापि प्रत्यक्षगम्यम् । तथाऽनुव्यवसायाभावात् । एतेनोत्कटकोटिक संशयरूपाऽनुमितिरस्तत्करणमनुमानमित्यपास्तम् । धूमादग्निं निश्चिनोमीत्यनुव्यवसायेन तन्निश्चयत्वस्यै प्रत्यक्षत्वात् । अन्यथा, प्रत्यक्षस्यापि निश्चयत्वे कः समाश्वासः ? । यावदाशङ्कमिति ॥ तर्कसहकृतभूयोदर्शनजसंस्कारसचिवप्रमाणेन व्याप्तिर्गृह्यत इत्यर्थः तर्कव्यापारमाह ॥ तेन हीति ॥ इच्छा विच्छिद्यते इति ॥ संशयजनितसाध्याभाववति जिज्ञासा निवर्त्त्यते इत्यर्थः । तज्जनकसंशयसहितेति शेषः । अन्यथा, जिज्ञासाविच्छेदेऽपि प्रकाशिका । ननु सामान्यलक्षणा वा स्वीक्रियतामनुमानं वेत्यत्र किं विनिगमकमत आह । सा चेति । ननु सम्भावनैवानुमानप्रयोजनं प्रकृतेऽपि स्यादित्यरुचेराह । व्याप्तिग्रहेति । ननु भूयःसहचारमात्रमेव तत्रापि स्वीकरणीयमत आह । व्यभिचारशङ्कायामिति । तथाऽनुव्यवसायाभावादिति । इदमुपलक्षणम् । प्रत्यक्षस्य तत्रासामर्थ्यादित्यपि द्रष्टव्यम् । निश्चिनोमीति निश्चयत्वं जातिरिति मतेनेदम्, वस्तुतः संशयान्यत्वमपि ज्ञाननिष्ठं योग्यमेवेति भावः । तर्कसहकृतेति । तर्कस्य च शङ्कानिवर्त्तनद्वारा प्रयोजकत्वमित्यवधेयम् । आशुविनाशिनां क्रमिकाणां मेलकानुपपत्तेराह संस्कारे- तेति । संशयजनितेति । यद्यपि जिज्ञासा ज्ञानेच्छा सा च ज्ञानेष्टसाधनताज्ञानादिति न संशयाद्भवितु- मर्हति, न चातन्निवर्त्तनमनिष्टप्रसञ्जनरूपात् तर्कात्, "इच्छानिवर्त्तकमनिष्टसाधनताज्ञान"मित्यत्रानिष्टं दुःखरूपं प्रकृते च प्रमाणबाधितत्वरूपमनिष्टं प्रसञ्जनीयं यतः, तथापि संशये सति संशयजन्यदुःखा- भावरूपेष्टसाधनताज्ञानादेव ज्ञानेच्छा सत्प्रतिपक्षस्थलेऽज्ञानजन्यदुःखाभावरूपेष्टसाधनताज्ञानादिवत् त- दुच्छेदेऽपि तत्प्रयोजकीभूतसंशयजनकीभूतविरोधिप्रमाणशङ्कोच्छेदद्वारैवेति मिश्राः । केचित्तु अन्वयव्यतिरेकाभ्यां संशयस्य प्रतिपक्षोपस्थितेश्च स्वातन्त्र्येणैव जनकत्वं तर्कस्य च जिज्ञासानिवर्त्तक- मकरन्दः । ननु व्याप्तिस्वीकारेऽपि नानुमानप्रामाण्यस्वीकारस्तयोर्भेदादित्यत आह । अपि चेति । धूमादिति । निश्चयत्वं जातिरिति मतेनेदम् । उपनीतभानाभिप्रायेण वा । अन्यथा अनुव्यवसाय- विषयत्वानुपपत्तेरित्याहुः । आशुविनाशिनां क्रमिकाणां मेलकानुपपत्तेराह । संस्कारेति । अन्यथेति । प्रतिबन्धकतावच्छेदके ज्ञानत्वस्यैव न प्रवेशो गौरवात्, कुतो निश्चयत्वस्येति