न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 379, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४७ घातादयो दोषा नावतरन्तीति लोकमर्यादा । न हि हेतुफलभावो न भविष्यती- ति शङ्कितुमपि शक्यते । तथा सति शङ्कैव न स्यात्, सर्वं मिथ्या भविष्यतीत्या- दिवत् । बोधनी । तत्रैव शङ्का न सर्वत्रेति । कुत इत्यत आह न हि-इति । न हि कार्यकारणभावोऽपि न स्यादिति शङ्कायाः संभवस्तस्या अपि कस्यचित्कार्यत्वादिति न केवलं शङ्खानुदयः सर्वमपि कार्यजातं मिथ्या कार्यकारणभङ्गादित्यादि च बाधकमूहनीयमित्याह सर्वम्-इति । यद्वा, सर्वं व्यभिचरिष्यतीतिव- त्सर्वं मिथ्या भविष्यतीत्यपि शङ्काया अनुत्थानं तस्या अपि सर्वान्तर्भावेन मिथ्यात्वेन व्याघाता- दिति प्रसङ्गादुच्यते-इति । नन्वसार्वत्रिकत्वेऽपि यत्र कुत्रचिदपि संभवन्तीत्याशङ्कोपाधि- प्रकाशः । स्यात् । न । तयोः स्वरूपसतोरेव व्याप्तिग्राहकत्वात् । सत्तर्काद् व्याप्तिप्रमा, तदाभासात्तदप्रमा, विशे- षदर्शनसत्यत्वाप्रयत्वाभ्यां तादृशपुरुषज्ञानवत् । इयञ्च प्रत्यक्षेण व्याप्तिग्रहे सामग्री । तदभावेऽपि शब्दानुमानाभ्यां व्याप्तिग्रहादिति । शङ्काऽपि हेतुमती, न वा ? । आद्ये हेतुं विना न स्यादेव । द्वितीये देशादिनियमहेतोरभावात् सर्वोत्पत्त्यलप्रसङ्ग इत्याह । तथा सतीति ॥ नन्वतीन्द्रियोपाध्यभावनिर्णयोऽशक्यः । योग्योपा- प्रकाशिका । पूर्वोक्तोपलादवस्थ्यम् । तथापि सहचारज्ञानस्यात्राधिकत्वं तर्कसादित्यञ्चेति विनिगमकं तुल्यत्वे तु सन्देह एवेति अहेतुकैवाशङ्कोत्पत्तिरित्यपगमे हेतुफलभावेऽपि शङ्का स्यादिति विकल्प्य व्याचष्टे । शङ्कापि हेतुमतीति । देशादेति । अत्रैव शङ्का नान्यत्रेति नियामकाभावेन शङ्का- यामपि शङ्का स्यात्, एवं सर्वं मिथ्येत्यपि शङ्का स्यादिति सर्वोत्सत्यत्वप्रसङ्ग इत्यर्थः । मकरन्दः । अहेतुकैवोत्तिरित्युपगमे हेतुफलभावाभावेऽपि शङ्का स्यादेवेत्यतो व्याचष्टे शङ्काऽपीति । देशादेरिति । अत्रैव शङ्का नान्यत्रेति नियमहेतोरभावात् शङ्कायामपि शङ्का, एवं सर्वं मिथ्या भवि- टिप्पणी । शिनां यद्यपि सम्भवति, तथापि ज्ञानाभावज्ञानं दुर्घटम्, विशेषदर्शिनां व्यभिचारिणि व्यभिचारज्ञानस्य शक्यपरिच्छेदत्वात्, विशेषदर्शनुरोधेनैव वस्तुन्यवस्थापनोचितेत्येवं मन्वानस्य सिद्धान्त्याभासस्य निराकरणम्, यथा ज्ञानकारणविरहाद् व्यभिचारज्ञानं व्यभिचारिसाधारणम्, विशेषदर्शिनां तथा व्य- भिचारज्ञानासत्त्वे तदभावस्य प्रमेयत्वे विशेषदर्शिनामपि ज्ञानं व्यभिचारिण्यपि न दुर्लभम्, व्यभि- चारज्ञानकारणनियमस्येव तज्ज्ञानज्ञानकारणनियमस्याप्यभावेन कारणाभावादेव प्रतिबन्धकस्य ज्ञान- ज्ञानस्य विशेषदर्शिनां सर्वदा सत्वासम्भवेनात्रापि व्यभिचारिसाधारणमिति न व्यभिचारादर्शनञ्चापि- तज्ज्ञानस्य ग्राहकैमिति व्याप्तिग्राहकाभाव प्रसङ्ग इति। स्वरूपसतोरेव व्याप्तिग्राहकत्वादिति । ग्राहकत्वञ्च साक्षात्परम्परासाधारणं तेन तर्कस्याहेतुतायाः पूर्वमुक्तत्वेऽपि न क्षतिः। सत्तर्काद्व्याप्ति- प्रमेति व्याप्तिमद्धर्मेन्द्रियादिसन्निकर्षोद्वित्यर्थः। तेनासत्तर्कादपि व्याप्तिसत्त्वे प्रमोत्पादेऽपि न क्षतिः। ग्राहक सत्त्वे व्यभिचारिण्यपि व्याप्तिग्रहः स्वीकृत एव न च व्याप्तिसत्त्वप्रसङ्गः। व्यभि- चारिणि हेतुमति योग्यस्य साध्याभावावगिषये दोषाभावनिर्णये व्यभिचारज्ञानस्य प्रमात्व- निश्चयात् सद्धेतौ तादृशनिश्चयाभावात् सम्भावना तु तर्कनिरस्तेत्याशयः। आद्ये हेतुं विना न स्यादेवेति । उभयथापि शङ्कव न स्यात् । शङ्का हेतुमतीत्यभ्युपगतश्वेद्धेतुफलाभावस्या- सत्तया शङ्कोत इति हेतोरभावात् स्यात्, , शङ्का हेतुमती नेत्यभ्युपगतश्चेन्नियामकाभावाद्धेतुफल- भावयोरिव सम्भावितसत्त्वं शङ्कायामपि स्यादिति न स्यात् । सा यथैन्द्रजालिकपदार्थोत्सत्वेन