न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 382, कुल 608 में से
संदर्भ में पढ़ें२४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यानं प्रकाशः। व्यापके प्रमेयत्वादौ साधनान्यापकत्वं, यावत्साधनाव्यापके घटत्वादौ साध्यव्यापकत्वं निषिध्यते इति चेत् । न । व्यधिकरणत्वात् । यावत्साध्यव्यापकव्याप्यत्वमनौपाधिकत्वमिति चेत् । न । आत्माश्र- यात् । एतेन, यावत्साधनाव्यापकमव्यापकं यस्य, यावत्साध्यव्यापकं व्यापकं वा यस्य, तत्त्वमनौ- पाधिकत्वमित्यपास्तम् ॥ अथ यावत्साधनसमानाधिकरणात्यन्ताभावप्रतियोगिधर्मप्रतियोगिकात्यन्ताभावसमानाधिकरण- साध्यसामानाधिकरण्यमनौपाधिकत्वम् । न ह्येवं सोपाधिः, साधनसमानाधिकरणात्यन्ताभावप्रति- योगिन उपाधेरार्द्रेन्धनवत्त्वादेर्योऽत्यन्ताभावस्तेन समं साध्यस्य धूमादेः सामानाधिकरण्याभावात् । आर्द्वेन्धनविरहिणि धूमस्यावृत्तेरिति चेत् । न । सोपाधौ गतत्वात् । तथाहि । वह्निः साधनं, तत्स- मानाधिकरणो योऽत्यन्ताभावस्तप्तप्रायःपिण्डे तत्प्रतियोगि, चत्वरवत्त्यार्द्वेन्धनं, तत्प्रतियोगिको यो- ऽत्यन्ताभावो महानसे, तत्समानाधिकरणं साध्यो धूमस्तेन सामानाधिकरण्यं वहेः साधनस्य । तथा प्यार्द्वेन्धनसामान्याभाववति धूमो न वर्त्तते इति चेत् । न । सामान्यावच्छिन्नाभावस्यामानकत्वात् । नापि यावत्साधनव्यभिचारितव्यभिचारि यत् साध्यं तेन सामानाधिकरण्यं व्याप्तिः । अनेक- व्यक्तिकोपाधिमति प्रसङ्गतादवस्थ्यात् । अथ केवलान्वयिनि केवलान्वयिसाध्यसामानाधिकरण्यं व्याप्तिः, साध्यवदन्यावृत्तित्वं व्यतिरे- किणि । एतयोरनुमितिविशेषे प्रयोजकत्वम् । अनुमितिमात्रे पक्षधर्मतैव प्रयोजिका । न च तन्मा- त्रादनुमित्यापत्तिः । विशेषसामग्रीसहिताया एव सामान्यसामग्र्या जनकत्वनियमादिति चेत् । न । धूमे साध्यवदन्यावृत्तित्वस्याभावात् । वह्निमत्पर्वतादन्यत्र महानसे धूमस्य वृत्तेः । सकलसाध्य- वदन्यवृत्तित्वं न धूमे इति चेत् । न वह्निमतां प्रत्येकं सकलसाध्यवदन्यत्वात् ॥ अथ सम्बन्धमात्रं व्याप्तिः । व्यभिचारिणोऽपि सम्बन्धस्य केनचित् सह व्याप्तित्वात् वह्नि- धूमादिन्यासिस्तु विशिष्ट्यैव वक्तव्येति चेत् । न । अनुमितिकारणलिङ्गपरामर्शविषयव्याप्तिस्वरूपनिरु- पणप्रस्तावे सम्बन्धमात्राभिधानस्यार्थान्तरत्वात् । तज्ज्ञानादनुमित्यनुत्पत्तेः । नापि व्याप्तिपदप्रवृत्ति- निमित्तमिदं, सम्बन्धज्ञानेऽपि व्याप्तिपदाप्रयोगात् ॥ अत्रोच्यते । यत्सम्बन्धितावच्छेदकावच्छिन्नत्वं यस्य, तस्य सा व्याप्तिः । तथाहि ! धूमस्य वह्निसम्बन्धित्वे धूमत्वमवच्छेदकं, धूममात्रस्य वह्निसम्बन्धित्वात् । वह्नेस्तु धूमसम्बन्धित्वे न वह्नित्वमवच्छेदकं, धूमासम्बन्धिनि गतत्वात् । न ह्यतिप्रसक्तमवच्छेदकम् । संयोगादौ तथात्वादर्श- नात् । किन्तु वहावार्द्रेन्धनप्रभववह्नित्वं धूमसम्बन्धितावच्छेदकं, तादृशञ्च व्याप्यमेव । यद्वा, यत्सामानाधिकरण्यावच्छेदकावच्छिन्नं यद्यस्य रूपं, तदेव तस्य व्याप्यत्वम् । वह्निसमानाधिकरण्ये च धूमे धूमत्वेनावच्छिद्यते, सोपाधौ तूपाधिना । यद्वा प्रतियोगिवैयधिकरण्यावच्छिन्नस्वसमाना- धिकरणत्यन्ताभावप्रतियोगितानवच्छेदकावच्छिन्नेन सामानाधिकरण्यं व्याप्तिः । न च धूमवन्निष्ठा- त्यन्ताभावप्रतियोगिता वह्नित्वेनावच्छिद्यते, धूमवति वह्निर्नास्तीत्यप्रतीतेः । रासभत्वन्तु तथा, धूमवति रासभो नास्तीति प्रतीतेः सामान्यावच्छिन्नप्रतियोगिकाभावधान्यः, विशेषाभावप्रमायामपि सामान्ये संशयात् । न चैवं संयोगित्वव्याप्यत्वं सत्त्वस्य स्यात्, कर्मणि संयोगात्यन्ताभावस्य प्रति- योगिवैयधिकरण्यात् एतदेवानौपाधिकत्वमित्युच्यते इति संक्षेपः । प्रकाशिका । सम्बन्धज्ञानेऽपीति । इदमुपलक्षणम् । एवम् अर्थान्तरमित्यपि द्रष्टव्यम् । इतरदन्यत्र व्याख्यातम्। मकरन्दः । सम्बन्धज्ञानेऽपीत्युपलक्षणम् । एवमप्यर्थान्तरतादवस्थ्यादित्यपि द्रष्टव्यम् । व्याप्तिलक्षणान्यनु- मानप्रकाशे द्रष्टव्यानि ।