भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 401, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 401

तृतीयस्तवके ] अनुमानप्रामाण्योपपादनम् । ३६६ प्रकाशः । ननु साध्याभाववति पक्षत्वाभिमेते हेतोः सत्त्वाज्ञानादसिद्धिः । तज्ज्ञाने च व्यभिचारः । साध्या- भावप्रमितौ सन्देहाभावेन पक्षत्वाभावादाश्रयासिद्धिश्च । व्यभिचारे पक्षभिन्नत्वस्य व्यर्थत्वेनातन्त्रत्वा- त् । सर्वोपसंहारप्रवृत्त्याप्तेः साध्याभाववति साधनमिति ज्ञानादेव भङ्गात् । न चोपजीव्यत्वाद् बाधः पृथक् । तद्धि न तमवगम्यैवावगमः । एकत्र हेतुसाध्याभावावित्येकवित्तिवेद्यतया व्यभिचारज्ञानस्य तदनुपजीवरूपत्वात् । नाप्युद्भावितव्यभिचारनिर्वाहार्थं तदुद्भावनम् । इदं व्यभिचारीत्युक्ते कथमिति परानुयोगस्यानवश्यकत्वात् । तथात्वेऽपि निर्वाहायमेव दूषणमस्तु बलवत्त्वात् । अथ अर्थान्तरोपनायकस्मृत्यादिसहकारिता सामान्यत एव प्रमाणस्य क्लृप्ता प्रत्यभिज्ञानादौ, तदिह समीचीनव्याप्तिपक्षधर्मताकलिङ्गपरामर्शस्यासदर्थकाञ्जनमयत्वादिस्मृत्यादिसहकारिवशाद् यत्र आभासधीकारणत्वं तत्र बाधः पृथक्, न व्याप्तिपक्षधर्मतोपनीतादन्यस्यानुमितौ भाने मानाभावात् । प्रत्यभिज्ञानादौ प्रतीतिबलेन तत्कल्पनात् । अन्यथा पूर्वानुभूतसकलार्थभानेऽनुमितेर्याथार्थ्योच्छे- दापत्तेः । भानेऽपि तस्य विप्रतिपत्त्यविषयतया तेन हेत्वाभासत्वानिरूपणात् । अन्यथाऽतिप्रसङ्गात् । अथ प्रत्यक्षादौ प्रमामात्रं प्रति स्वातन्त्र्येण बाधस्य दोषत्वेन क्लृप्तत्वादमुमितावपि स एव दोष इति चेत् । न तर्हि हेत्वाभासः । अनुमित्यसाधारणदोषस्यैव तत्त्वात् । अथ पक्षाभिमेते साध्याभावग्रहवत् साध्याभावव्याप्यग्रहोऽपि दूषकः, विरोधित्वाविशेषात् । एवञ्च, साध्याभावसामानाधिकरण्यमनैकान्तिकत्वं, साध्याभावव्याप्यसामानाधिकरण्यं च बाधः । तादृशं चाग्नित्वाद्येवेति । मैवम् । पक्षाभिमेते साध्याभावग्रहस्य दूषकत्वासिद्धौ दृष्टान्तत्वानुपपत्तेः, सिद्धौ वा तस्योक्तरूपवाधानन्तर्भावे षष्ठहेत्वाभासत्वापत्तेः । उक्तरूपश्च बाधः पक्षाभिमतविषयसाध्याभावबुद्धौ सत्यामसत्यां वा ? । आद्येऽनैकान्तिकत्वमेव, साध्याभावसामानाधिकरण्यग्रहात् । अन्त्ये लिङ्गतया- भिमतसाध्याभावव्याप्ययोरगृह्यमाणविशेषतया सत्प्रतिपक्ष एव दोषो न बाधः । तत्र तुल्यबलत्वं प्रयोजकं, बाधे त्वधिकबलत्वमिति चेन्न । गमकताप्रयोजकरूपसम्पत्तेरेव बलत्वेन तस्य द्वयोरपि ज्ञातत्वात् । टिप्पणी । प्रकृतसाध्यविशेषितसाध्यान्तरानुमितीत्यर्थ इति साध्यवत्पक्षविधेयकानुमितीत्यर्थ इति यावत् । तत्रा- पिप्राचां साध्यव्यवहारादिति कश्चित् । वस्तुतः साध्यज्ञानं न पक्षे साध्यनिश्चयः, किन्तु साध्यज्ञानमात्रम् तस्यापि व्यतिरेकिमात्रानुमितिविरोधित्वमस्त्येवेति तदपि संग्राह्यम्, तथाच तद्विशेषितेत्यस्याव्यवहितो- त्तरत्वसम्बन्धेन साध्यज्ञानविशिष्टेत्यर्थः, अन्वयव्याप्तिज्ञानजन्येति तदर्थः । एतेन सिषाधयिषाकालीन- त्वस्याप्रकृततया तत्पदेन तद्ग्रहणस्याशक्यत्वेऽपि न क्षतिः, साध्यविशेषितसाध्यानुमितेरप्रतिबन्धकत्व- कथनस्याप्रसक्तत्वेऽपि न क्षतिः। साध्यमात्रानुमितीति। सिषाधयिषाकालीनत्वविशेषितानुमितीत्यर्थः। साध्यमात्रविषयकानुमितीत्यर्थ इति कश्चित् । वस्तुतो व्यतिरेकव्याप्तिज्ञानजन्यानुमितिरेव साध्यमात्रानु- मितिः। साध्यस्य ज्ञानत्वेन तन्मात्रस्यैव तत्रानुमितिनिरूपितविलक्षणविषयत्वादान्वयव्याप्तिस्थले साध्यस्य ज्ञातत्वेन तन्मात्रस्यातथात्वात् पक्षसाध्यसम्बन्धस्यैव तथात्वादिति भावः । तादृशञ्चानित्वाद्येवेति अयोगोलके धूमसाधने तत्र धूमाभावनिश्चये वह्निः साध्याभावसमानाधिकरणो व्यभिचारी धूमव्यापकत्वेन गृहीताद्रेन्धनसम्बन्धाभावस्य धूमाभावव्याप्यस्य पक्षे निश्चितस्य वह्नावपि निश्चितत्वेन तत्समा- नाधिकरणवह्नित्वं हेतुकृतं बाधितं तादृशं साध्याभावव्याप्यसमानाधिकरणत्वेन बाधितमित्यर्थः । तत्र तुल्यबलत्वप्रयोजकमिति । अगृह्यमाणविशेषत्वमात्रञ्च सत्प्रतिपक्षत्वप्रयोजकमपि तु तुल्य बलत्वं गृह्यमाणमूलञ्च प्रामाण्यग्रहन्तच्चोभयत्र न समानम् यत्रैकत्र दोषादपरत्र सत्त्या प्रमामरूपाद् गृह्यते तत्र सत्प्रतिपक्षो यत्र साध्याभावव्याप्यग्रह एव तद्ग्रहणन्तत्र बाधः यत्र साध्यव्याप्ये ग्रहणं यत्र न किमपीत्याशङ्कयते अग्रेति । सत्प्रतिपक्ष इत्यर्थः । इति चेन्न गमकत्वप्रयोजकरूपसम्पत्तेरिति । ४७ न्या० कु०

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक) · पृष्ठ 401, कुल 608 में से · BharatKosha