न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 417, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके] उपमानस्य प्रमाणान्तरत्वखण्डनम् । ३८५ तस्य च निमित्तविशेषस्य साक्षादुपदर्शयितुमशक्यत्वात् पृष्टस्तदुपलक्षणं किञ्चिदाचष्टे, तच्चोपमानसामग्रीसमुत्थापनमेव । तस्य च प्रमाणस्य सतस्तर्कः सहायतामापद्यते, सादृश्यस्यैव निमित्ततायां कल्पनागौरवम्, निमित्तान्तरकल्पने च क्लृप्तकल्प्यविरोध इति तदेव निमित्तमवगच्छतीति ॥ बोधनी। कृतसादृश्यप्रत्यभिज्ञानरूपमुत्था प्यतीति किमेतावता गवयत्वमेव प्रवृत्तिनिमित्तमिति सिध्यतीत्याह- तस्य च इति । तर्कस्वरूपमाह - सादृश्यस्य इति । प्रकाशः । गवयत्वप्रवृत्तिनिमित्तकं गवयपदमिति मानान्तरमन्तरेणाप्रतीतेः, अनुमितेर्व्यापकतावच्छेदकप्र- कारकत्वात् ॥ ननु यथेच्छायां सामान्यतोदृष्टेन विशेषबाधकसहकृतेनाष्टद्रव्यानाश्रयत्वं ज्ञायते, अन्यथा विशेषबाधकानां पृथिव्याद्येकैकमात्रव्यतिरेकविषयत्वेनाष्टद्रव्यानाश्रयत्वं केन ग्राह्यम् , तथात्रापि गौरवाऽऽढ्यतर्कसहकृतसामान्यतोदृष्टादितराप्रवृत्तिनिमित्तकत्वे निश्चिते पश्चाद्व्यतिरेकि स्यात् , कल्प्यमानान्तरसहकारित्वापेक्षया क्लृप्तप्रमाणसहकारित्वस्य युक्तत्वात् ॥ मैवम् । इच्छायामेकैकबाधसहकृतापरापरबाधकैरेव तावद्विशिष्टवैशिष्ट्यरूपमष्टद्रव्यानाश्रयत्वप- रिच्छेदात् , न तु सामान्यतोदृष्टेन, विशेषणद्वयोपस्थित्यैव विशिष्टवैशिष्ट्यज्ञाननिर्वाहात् , तर्का- नवतारदशायां तस्य तदपरिच्छेदकत्वाच्चेति सङ्क्षेपः ॥ प्रकाशिका। उपस्थितं गोसादृश्यादित्यर्थः । मानान्तरमन्तरेणेति । सामान्यत इतराप्रवृत्तिनिमित्तकत्वज्ञा- नाभावेन व्यतिरेकिणोऽप्रवृत्तेरिति भावः । ननु सामान्यतोदृष्टादेवेतराप्रवृत्तिनिमित्तकत्वसिद्धि- रित्यदूषितमेवेत्यत आह अनुमितेरिति । तथात्रापीति । उक्तान्यथानुपपत्त्याऽनुमितेर्व्यापक- तावच्छेदकमात्रप्रकारकत्वमसिद्धमेवेत्याशयः । व्यतिरेकीति । पूर्वोक्तव्यतिरेकीत्यर्थः । अनु- मितेर्व्यापकतावच्छेदकप्रकारकत्वनियमभङ्गो यत्रानुपपत्त्या स्वीकरणीयः, तमेव खण्डयति इच्छा- यामिति । इदमुपलक्षणम् पृथिव्यनाश्रितत्वादिकं प्रत्येकमेव हेतुविशेषणमिति द्रष्टव्यम् । तर्काऽनवतारेति । सामान्यतोदृष्टस्येतराप्रवृत्तिनिमित्तकत्वापरिच्छेदकत्वादित्यर्थः । तथा च मकरन्दः। त्यप्युक्तमिति । तथाऽत्रापीति । अनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमोऽसिद्ध एवेत्याशयः। व्यतिरेकीति । पूर्वोक्तव्यतिरेकीत्यर्थः । तस्य सामान्यतोदृष्टस्य । तदपरिच्छेदकत्वात् इतरा- प्रवृत्तिनिमित्तकत्वापरिच्छेदकत्वात्, तर्कसहकारेणैव तस्य तथात्वाभ्युपगमादिति भावः । यद्यपि तद्दशायां नोपमानस्याप्यवतारः, तथापि तर्कावतारे सामान्यतोदृष्टस्य किञ्चित्प्रवृत्तिनिमित्तकत्व- मात्रमनुमाय पर्यवसितत्वादग्रे पुनस्तर्कावतारे उपमानप्रवृत्तिरप्रत्यूहैवेति भावः । अत्रेदमलोच- नीयम्—क्लृप्तप्रमाणभावस्य सामान्यतोदृष्टस्य पुनरनुसन्धानमात्रं कल्पयितुमर्हं लाघवात् , न तु मानान्तरं, गौरवात् । न च पुनरनुसन्धीयमानादपि तर्कसहकृतादपि तस्मादितराप्रवृत्तिनिमित्तकत्व- परिच्छेदोऽनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमादिति वाच्यम् । लाघवगौरवसहकारेण व्यापक- तानवच्छेदकस्यापि भानाभ्युपगमात् , अत एवेश्वरानुमाने क्षित्यादिकमेकमात्रकर्तृकत्वानुमितिः, अस्तु वा तथा, तथापि इतरद् न प्रवृत्तिनिमित्तं गुरुत्वादिति मानान्तरादितराप्रवृत्तिनिमित्तकत्वनिश्चये उक्तव्यतिरेकिणा गवयत्वप्रवृत्तिनिमित्तकत्वसिद्धिरविकलैव । न च साध्याप्रसिद्धेनं तत्सिद्धिरिति वाच्यम् । तथा सत्युपमानादपि तद्विशिष्टबुद्ध्यनुदयापत्तेः, विशेषणज्ञानं विना तदभावात् । टिप्पणी । तर्काऽनवतारदशायां तस्य तदपरिच्छेदकत्वाच्चेति । तदानीम्पर्यवसितस्य तस्य प्रत्य- ४६ न्या० कु०