भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 424, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 424

शेषमप्रतीत्य शक्यम्। बुद्धेरर्थभेदमन्तरेण निरूपयितुमशक्यत्वात्। पदार्थमात्रे चा- भ्रान्तत्वसिद्धौ न किञ्चित्। अनाप्तसाधारण्यात्। एतेषां संसर्गेऽयमभ्रान्त इति शक्यमिति चेन्न। एतेषां संसर्गे इत्यस्या एव बुद्धेरसिद्धेः। अननुभूतचरे स्मरणा- योगात्, तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति॥ नापि द्वितीयः, योग्यतामात्रसिद्धावपि संसर्गाऽनिश्चयात्, वाक्यस्य च तदेक- फलत्वात्, योग्यतामात्रस्य प्रागेव सिद्धेः। अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मा- रितत्वादित्येव हेतुः स्यात्। तथा चाऽग्निना सिञ्चेदित्यादिना स्मारितैरनैकान्तः। तथाविधानां सर्वथा संसर्गायोग्यत्वादिति॥ द्वितीयेऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति। तत्र केयमाकाङ्क्षा नाम? न तावद्विशेषणविशेष्यभावः, तस्य संसर्गस्वभावतया साध्यत्वात्। नाऽपि तद्योग्यता, योग्यतयैव गतार्थत्वात्। नाप्यविनाभावः। नीलं सरोजमित्यादौ तदभावेऽपि वाक्या- र्थप्रत्ययात्। तत्रापि विशेषाङ्कितसामान्ययोरविनाभावोऽस्तीति चेन्न। 'अहो विमलं जलं नद्याः कच्छे महिषश्चरती'त्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात्। नापि प्रतिपत्तु- र्जिज्ञासा। घटो भवतीत्यादौ शुक्लादिजिज्ञासायां, रक्तः घटो भवतीत्यस्यैकदेशवत् सर्वदा वाक्यापर्यवसानप्रसङ्गात्॥ बोधनी। किमित्यत्राह न चैतत् इति। क्वचिदाप्तत्वमवधार्य सर्वत्रायमीदृश इत्यनुमास्यामह इत्यत्राह यत्र क्वचित् इति। वाक्यार्थप्रतीतेः प्रागाप्तत्वासिद्धिसुपसंहरति ततोऽस्मिन् इति। ननु पदार्थास्ता- वत्प्रागेव प्रतीयन्ते तेषां सत्यत्वात्तत्राप्तिरप्यवधार्यत इत्यत्राह पदार्थमात्रे च इति। नन्वनवगतेऽपि वाक्यार्थे पदस्मारितानां पदार्थानां परस्परसंसर्गयोग्यतावगमादेतत् संसर्गेऽयमभ्रान्त इति निश्चेतुं शक्यमित्याह एतेषाम् इति। न इति। नहि तदानीमेषां संसर्ग इत्यनुभवात्मिका बुद्धिः सिध्यति कारणाभावादिति। तत एव न स्मरणात्मिकापीत्याह अननुभूत इति। द्वितीयं पादं व्याचष्टे नापि द्वितीयः इति। न परं साध्यासिद्धिः सिद्धसाधनं चेत्याह योग्य- प्रकाशः। त्वादित्यर्थः॥ प्रागेवेति॥ योग्यतया लिङ्गविशेषणेन सिद्धेरित्यर्थः॥ तस्येति॥ एकत्र पदार्थे पदार्थान्तरवैशिष्ट्यस्यैव संसर्गरूपत्वादित्यर्थः॥ विशेषेति॥ नीलेन गुणसामान्यमाक्षिप्यते, सरो- जेन द्रव्यमात्रं, तयोश्चाविनाभावोऽस्त्येवेत्यर्थः॥ अहो इति॥ जलान्विततया आश्रयीभूतकच्छे साकाङ्क्षतापत्तावेकवाक्यतापातादित्यर्थः॥ रक्त इति॥ यथा रक्तः पटो भवतीत्यत्र रक्तपदार्थान्वयं विना पटो भवतीत्येकदेशो न पर्यवस्यति, तथा रक्तपदं विना यत्र पटो भवतीत्येव वाक्यमुच्चा- रितं, तत्रापि तन्न पर्यवस्येदित्यर्थः। अजिज्ञासोरपि वाक्यार्थज्ञानाच्चेति भावः॥ प्रकाशिका। हितत्वात् परामर्शभ्रमं वारयति। निश्चयकैति। योग्यतयेति। इदञ्च सम्भावितपदस्य योग्यपरत्वे दूषणम्, सन्दिग्धपरत्वे तु संसर्गासिद्धिरेव दोष इति स्मर्त्तव्यम्। राजपदा- मकरन्द तया इति। सम्भावितपदस्य लिङ्गविशेषणयोग्यतापरत्वे दूषणमिदम्। सन्दिग्धपरत्वे संसर्गानिश्च- यादित्येव दूषणं बोध्यम्। टिप्पणी चिन्त्यम्। यथा वाक्यवाचकभावेनाभ्रान्तेनोक्तानां पदानामर्थेन यथा न वाच्यवाचकभावसंसर्गस्तथा योग्यताभ्रान्तेनोक्तपदार्थानां संसर्गः, वाकारः सादृश्य इत्येतु कथञ्चिद् व्याख्येयः॥