न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 432, कुल 608 में से
संदर्भ में पढ़ें४०० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१२ कारिकाव्याख्यायां
प्रकाशः । त्वमाकाङ्क्षा । घटमानयेतीत्यत्र हि घटमित्युक्ते किमानयति पश्यति वा, आनयेत्युक्ते किं घटम- न्यद्वेति जिज्ञासा भवति गौरश्व इत्यत्र नामेदेनान्वयोऽयोग्यत्वात् । राज्ञ इति पुत्रेण जनितान्वय- बोधत्वान्न पुरुषमाकाङ्क्षति । मैवम् । नामविभक्तिधात्वाख्याताथानां घटकर्मत्वानयनकृतीनां स्वरूपेणोपस्थितिर्नान्वयप्रकारकजिज्ञासानुकूलेति तत्राकाङ्क्षाविरहापत्तेः । घटः कर्मत्वमानयनं कृतिरित्यत्र घटमानयेतीत्यत्रैवान्वयबोधापत्तेश्च । अत्राहूः—अभिधानापर्यवसानमाकाङ्क्षा । येन विना यस्य न स्वाऽर्थान्वयानुभावकत्वं, तस्य तदपर्यवसानम् । नामविभक्तिधात्वाख्यातक्रियाकारकपदानां परस्परं विना न स्वार्थान्वयानुभाव- कत्वम् । घटः कर्मत्वमानयनं कृतिरित्यत्राभेदेन नान्वयज्ञानमयोग्यत्वात् । योग्यता च बाधकमाना- भावः । अन्यत्र यद् बाधकं तदभावस्यायोग्येऽपि सत्त्वात् । प्रकृतसंसर्गे च न तदभावः, सिद्धयसि- द्धिव्याघातात् । न च प्रकृतसंसर्गेऽन्यत्र सिद्धबाधकमानाभावः, प्रकृतसंसर्गस्य प्रागप्रतीतेः । स्वबा- धकप्रमाणविरहस्यायोग्येऽपि सत्त्वात् । सकलतदभावस्य च ज्ञातुमशक्यत्वात् । न च स्वरूपसन्नेवायं हेतुः । योग्यताभ्रमादन्वयबोधानुपपत्तेः । नापि सजातीयेऽन्वयदर्शनं, यथाकथञ्चित् साजात्यस्यान्या- वर्त्तकत्वात् । पदार्थतावच्छेदकरूपेण च तस्य वाक्यार्थात्पूर्व्वतया निरासात् । नापि समभिव्याहृत- पदार्थसंसर्गाभावव्याप्यधर्मशून्यत्वं, प्रमेयमभिधेयमित्यादौ संसर्गाभावाप्रसिद्ध्या तदनिरूपणात् । नापि समभिव्याहृतपदार्थसंसर्गव्याप्यधर्मवत्त्वं, वाक्यार्थस्यानुमेयतापत्तेः । किं त्वितरपदार्थसंसर्गे
टिप्पणी । वाक्यघटके यत्साकाङ्क्षत्वं रक्षणीयं तत्पदार्थान्वययोग्यतत्पदोपस्थाप्यं ज्ञाप्यम्, ज्ञाप्यतदितरयोर- न्वयस्य यः प्रकारो विशेषस्तस्य जिज्ञासैत्यर्थः । राज्ञ इति पुत्रेण जनितेति । अयमेतीत्यादौ राज- पदार्थस्य पुत्रपदार्थेनान्वयबोधे जाते पश्चात् पुरुषपदार्थेनान्वयबोधवारणाय विशेष्यम् स्वरूपेण॥ न्वयप्रकारकेति । परस्परासंस्पृष्टतया च ज्ञानमपूर्ववाक्यार्थस्थलेप्यसम्भवत्किमिति न विवक्षितुं शक्यम् सम्भवन्ती चोपस्थितिर्नानुकूला अनुकूलत्वे च तस्याः स्वीकृते घटः कर्म्मत्वमित्यत्रापि स्यादिति भावः । येन विना यस्य न स्वार्थेति । यत्पदव्यतिरेकप्रयुक्तो यत्पदार्थान्वितस्वार्थानुभावकत्वा- भावो यस्य तस्य स एवतत्पदसाकाङ्क्षत्वम्, अर्थात् तत्तत्प्रकृतिप्रत्ययक्रियाकारकपदानां तत्तदर्थान्व- यबोधानुकूलः समभिव्याहार आकाङ्क्षेति पर्य्यवसितम् । अन्यत्र यद्बाधकमिति । अन्यत्र प्रकृतसंसर्गभिन्ने योग्यस्थलेऽपि प्रकृतसंसर्गान्वयकिञ्चिद्गोचरंवाधकप्रमाविरहोऽस्त्येव क्वचिद्बाधक- प्रमासत्त्वेन योग्यस्थलेऽपि बाधकप्रमासामान्यविरहासम्भवेन तस्य विवक्षितुमशक्यत्वादिति । बाधकमानाभाव इति । विषयत्वसम्बन्धावच्छिन्नप्रतियोगिताकः । बाधप्रमासत्त्वेऽपि काव्यस्थले चमत्काररूपेष्टसाधनत्वग्रहादिच्छया बाधकप्रमाविरहज्ञानमाहार्यमुपजायमानञ्चमत्कारहेतुं शाब्दं जनयति स्वरूपतो बाधकप्रमाविरहस्य हेतुत्वे तन्न स्यात् । नचेच्छया शाब्द एव भवतीति वाच्यम् । परोक्षं हि ज्ञानमनाहार्यमिति प्रवादादिति । योग्यताज्ञानाभावप्रत्यक्षे शाब्दसामग्रीप्रति- बन्धकत्वाकल्पनेन लाघवाच्च तज्ज्ञानस्यैव हेतुत्वं वाच्यमभिप्रेत्याह प्रकृतसंसर्गस्येति । प्रागप्रतीतेरिति । तत्रोक्तयोग्यताया प्रत्येतुमशक्यत्वादिति । स्वबाधकेति । स्वं प्रकृतान्व- यबोधाश्रयः श्रोता । प्रकृतसंसर्गे च न तदभाव इति । प्रकृतपदार्थविशेष्यप्रकृतापरपदार्थ- संसर्गाभावस्य यन्मना प्रमितिरुतदभावेत्यर्थः । योग्यस्थले बाधप्रसिद्धौ न तदभावः तदसिद्धौ अलीकप्रतियोगिकत्वान्नाभाव इत्युभयथा योग्यताव्याघात इत्यर्थः । अयोग्येऽपि सत्त्वादिति । स्वस्य बाधज्ञानाभावकाले तत्र च तज्ज्ञानस्य प्रमात्वात् प्रमाशाब्दबोधापत्तिरिति भावः । सकल- तदभावस्येति । स्वपरनिष्ठतदभावस्येत्यर्थः । ज्ञातुमशक्यत्वादिति । परज्ञानाभावस्य