न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 437, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] शब्दस्य वार्थिकत्वखण्डनम् । ४०५ किं चेदमन्विताभिधानं नाम ? । न तावदन्वितप्रतिपादनमात्रम् । अविवादात् । नापि स्वार्थाभिधायास्तत्र तात्पर्यम् । अविवादादेव । नापि सङ्गतिबलेन तत्प्रति- प्रकाशः। स्वात् । तात्पर्यग्राहकता त्वनुगतानामपि व्याप्यत्वात् , धूमादीनामिव । तच्च तात्पर्यं वेदे न्याय- गम्यं, लोके च न्यायाविषयेऽपि पुंसां तात्पर्यान्न तन्न्यायगम्यम् , अपि तु प्रथममाप्तवाक्याद्- क्तृज्ञानानुमानपूर्वकंमर्थतथात्वमवधार्य तन्निश्चयः । अनुमानं च—इदं वाक्यं भ्रमादिविशिष्टज्ञानान्य- तरज्ञानजन्यं, वाक्यत्वात् । ततो भ्रमादिनिरासे सति परिशेषाद्वाक्यार्थानुमानम्—अयं वक्ता स्वप्रयुक्तवाक्यार्थयथार्थज्ञानवान् भ्रमाद्यजन्यवाक्यप्रयोक्तृत्वात् , अहम्प्रिव । तत एते पदार्था यथो- चिततत्संसर्गवन्तः यथार्थज्ञानविषयत्वात् , मद्रुक्तपदार्थवत् । एवं वक्तुर्वाक्यार्थज्ञानेऽनुमिते प्रकर- णादिना वक्तुरभिप्रेतयथार्थज्ञानपरत्वज्ञानम् , ततो वेदतुल्यतया शब्दादर्थज्ञानमित्यनुवादकः शब्दो वक्तृज्ञानावच्छेदकतया वाक्यार्थस्य प्रागेव सिद्धेरित्याहुः ॥ मैवम् । यथार्थप्रतीतिपरत्वस्य ज्ञातस्य प्रमाऽनुत्पादकत्वात् । अपूर्ववाक्यार्थनिरूप्यतया तस्य पूर्वं ज्ञातुमशक्यत्वात् , गौरवाच्च । न वा भ्रमजन्यत्वग्रहः, वाक्यार्थमज्ञात्वाऽयमभ्रान्त इति निश्चे- तुमशक्यत्वात् , पुंसो भ्रमादिसम्भवात् । न च संवादात् तद्ग्रहः, तस्य ज्ञानोत्तरकालीनत्वात् । न च भ्रमादिजन्यवैलक्षण्येन शब्दज्ञानमस्ति ज्ञाने वा यादृशो लिङ्गत्वं तादृशः प्रत्यायकत्वमेवास्तु । किञ्च पुंवाक्यस्य भ्रमादिविशिष्टज्ञानान्यतरजन्यत्वेऽनुमिते परिशेषादभ्रमाद्यजन्यत्वनिश्चयदशायां वेदतुल्या सामग्री लौकिकवाक्येऽपि वृत्तेति तत एवार्थस्य निश्चयाद्वेदवत् तस्यापि प्रामाण्यम् । अनुमितावनुमानस्य व्याप्तिस्मृत्यादिविलम्बितत्वात् । यदि च यथार्थतात्पर्यकत्वज्ञानं प्रमोत्पादकं, तदा लोकवेदयोस्तादृशपदस्मारितत्वेन पदार्थसंसर्गानुमितिसम्भवान्न शब्दः प्रमाणं स्यात् । अने- कार्थेऽड श्लिष्टे चानेकोपस्थितावपि प्रकरणादेकमादायान्वयबोधः । लक्षणाऽपि न तात्पर्यानुपपत्त्या, किन्त्वन्वयानुपपत्त्येत्युक्तम् । यद्वा नानार्थे लक्षणायाञ्च नियतपदार्थोपस्थित्यर्थे पदार्थे तात्पर्यग्रहा- पेक्षा, तेन विना तदभावात् , न वाक्यार्थे । अन्यत्रान्वयप्रतियोग्युपस्थितिस्तात्पर्यग्रहं विनैयेति न तदपेक्षेत्यस्मत्पितृचरणाः ॥ इदानीं प्रसङ्गात् पदानाम् अन्विताभिधानं विकल्प्य सिद्धसाधनादिना निराकरोति— किं चेति । अविवादादिति । पदानां साक्षाद्वाक्यार्थानभिधायकत्वेऽप्यन्वितस्वार्थाभिधान- द्वारा अन्वितज्ञानोत्पादकत्वाङ्गीकारादित्यर्थः। नापीति। स्वार्थे पदानां शक्तिस्तस्या इतरान्वितस्वार्थ- प्रकाशिका । प्रकरणादीनामननुगमेन न हेतुत्वमित्यरुचेराह यद्वेति । मकरन्दः । ननु प्रकरणादीनामननुगमेनाहेतुत्वादित्युक्तमित्यरुचेराह यद्वेति । टिप्पणी । व्यवहितोत्तरत्वस्य कार्य्यतावच्छेदके निवेशेनैव वारणं व्यभिचारस्य कार्य्यन्तथा च शाब्दम्प्रत्ये- वास्तु तथेति वाच्यम् । शाब्दं प्रति कारणत्वेऽपि तात्पर्य्यग्रहं प्रति कारणत्वस्यान्यन्वयव्यतिरेकसिद्धस्य दुर्वारतयोभयथा कारणानन्त्यात् मम तु शाब्दं प्रति तात्पर्य्यग्रहस्य हेतुत्वे तथात्वविरहादिति भावः । न तदपेक्षेत्यस्मत्पितृचरणा इति । तत्तदर्थशाब्दबोधस्य कारणं या नियतपदार्थो- पस्थितीस्तन्मात्रविषयिण्युपस्थितिस्तदर्थमित्यर्थः । इयञ्चोपस्थितिर्द्वितीया उपस्थितायं एव तात्प- र्य्यत्थ गृहीतुं शक्यत्वात् प्राथमिकी चोपस्थितिरनेकार्थविषयैव भवति । इदन्तु चिन्तनीयम्-तात्- पर्य्यग्रहस्येतरार्थोपस्थितिप्रतिबन्धकतयैवेदं निर्वाद्यं न च तत्सम्भवति, उद्बुद्धे च संस्कारे स्मृति- प्रतिबन्धस्य क्वाप्यदर्शनात् , प्रकरणस्यैव वा तथात्वे निर्वाहासम्भवात् तात्पर्य्यग्रहस्य किमर्थङ्कल्प- नम् शाब्दबोधे चानुगतैवोपस्थितिर्हेतुरित्यनुगमोऽपि न प्रकरणापेक्षायामिति । अन्वित स्वार्थाभि-