न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 441, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ], शब्दस्य बाधकत्वखण्डनम् । ४०६ बोधनी। (१) यदा हि इति। अपौरुषेयत्वनिश्चयेन दोषाभावे निश्चितेऽनुमानसामग्री पूर्णेत्यनुमानादेव संसर्गसिद्धेर्वे- दानुवाद एव स्यादिति किमविशेष एव सर्वथा लोकवेदयोरित्यत्राह इयांस्तु इति। वेदे वक्तुरभावात् पदार्थानैव पक्षीकृत्य तत्संसर्गः साध्यः, लोके तु वक्तृज्ञानविशेषणतयेत्येतावान्विशेषः। संसर्गस्यानुमानतः सिद्धिरित्यत्र फले तु न विशेष इति। तथा च इति। वेदेऽपि संसर्गस्यानुमानतः सिद्धिरित्यर्थः। किञ्चैवंमनुमानात्संसर्गसिद्धौ न तत्रान्विताभिधाने शब्दस्य प्रमाणमस्ति तत्प्रमाणस्यानन्वितत्वेन प्रती- तेरन्यथाप्युपपन्नतत्वादित्याह न चैवम् इति। वृथा प्रयासः। अन्विताभिधानकल्पन इति शेषः। तस्माल्लोक एव शब्दस्यानुवादकत्वमिच्छतो वेदस्याप्यनुवादकत्वमनिष्टं प्रसज्यत इति श्लोकार्थमुप- संहरति तस्मात् इति। यद्वा लिङ्गेन निर्णीतेऽर्थे शब्दस्यानुवादकत्वं वदतो विलम्बितप्रवृत्तेर्लि- ङ्गस्यैवानुवादकत्वं न शब्दस्येति निर्णीतशक्तेर्वाक्यादिति, पूर्वश्लोकार्थोपसंहारः इति। एवमन्विताभिधानमङ्गीकृत्य लोकवेदयोस्तुल्यत्वमावेदितम्, इदानीं तदपि निराकुर्वन्नाह किं चेदम् इति। अविवादात् इति। अभिहितान्वयवादिनोऽप्यन्वितप्रतिपादनमात्रं संवदन्ति, तद- भिधान एव ते विवदन्त इति। विवादादेव इति। अन्वितप्रतिपादनोद्देशेन पदार्थानभिदधति। पदानीत्यत्रापि नास्माकं विवाद इति। तयदि व्युत्पत्तिवलेनान्वितप्रतिपादनं तर्हि अनुभूतो वा- क्यार्थो नावगम्येतेत्याह नापि संगति इति। न च पदार्थविषययैव संगतया वाक्यार्थप्रतिपादनं तस्याः पदार्थप्रतीतिमात्रोपक्षीणत्वादित्याह नापि स्वार्थ इति। अर्थसंगतिरेव तत्रानुपक्षीणा वा- क्यार्थेऽप्युपयुज्यत इत्युच्येत तर्हि पदार्थवाक्यार्थप्रतीत्योः पूर्वापरभावो न स्यादित्याह नापि सैव इति। अस्तु तर्हि यौगपद्यमित्यत्राह यौगपद्य इति। अवगतपदार्थो हि तेषां योग्यतादिकं प्रति- संधातुं क्षमत इति। नन्वेकस्या एव संगतेः पदार्थवाक्यार्थप्रतीत्योः क्रमेणैव हेतुत्वं काष्ठस्येव ज्वा- लापाकयोरित्यत्राह नापि सैव इति। करणानामेव ह्यवान्तरव्यापारापेक्षेति भावः। ननु तदनुवाद- कत्वं वदतो विलम्बितप्रवृत्तेर्लिङ्गस्यैवानुवादकत्वं संगतिमन्ति पदानि करणं तथापि वाक्यार्थानुगुणसं- गतिभाञ्जि तानि तथा न तु केवलानि, ततश्च संगतिरपि करणशरीरानुप्रवेशिन्येवेत्याह तथापि इति। न तावत् इति। पदार्थविषयत्वेन संगतेस्त्वद्दृष्ट्या सामान्यमात्रविषयत्वात् अस्मद्दृष्ट्या तद्विशिष्टव्यक्तिमात्रविषयत्वाद्वा न तत्संसर्गात्मकवाक्यार्थप्रतिपादनानुगुणा संभवतीति पदार्थप्रय- त्वेऽपि संगतेर्वाक्यार्थप्रतिपादनानुगुण्यापारवत्त्वेन तदानुगुण्यमस्तीत्यत्राह नापि तदनुगुण इति। उक्तं ह्येतत्संगतेरकरणत्वान्नावान्तरव्यापारयोगित्वमिति। नन्वस्तु पदानामेव करणत्वादवान्तर- व्यापारः, स तु संगत्यधीन इति वाक्यार्थप्रत्ययानुगुणत्वं तस्या इत्यत्राह तदनुगुण इति। कर- णानां पदानां पदार्थप्रतिपादनलक्षणोऽवान्तरव्यापारः संगत्यधीन इत्यत्र नास्माकं विवाद इति। प्रकाशः। इति। अन्यथा मानाभावात् संसर्गज्ञानानुदयान्नवकाव्यरचना न स्यादिति पदार्था एव चिन्तावशो- पस्थिता अन्वयबोधकाः। यत्रापि पदात् पदार्थोपस्थितिस्तत्रापि पदार्था एवान्वयबोधकाः, न तु पदान्यपि, पदार्थस्मृत्यैवान्यथासिद्धत्वात्, कथमन्यथा श्वेतरूपदर्शनाद्धेषाशब्दश्रवणात् खुरविक्षेप- शब्दश्रवणाच्छब्दं विना श्वेतोऽश्वो धावतीति धीः। न चैवं पचतीत्युक्ते प्रत्यक्षोपस्थितकलायेनान्व- प्रकाशिका। पस्थितपदार्थानामपि शाब्दोऽन्वयबोधो भवतीत्येति प्राभाकरोक्तान्वितशक्तिमुक्तावसह्मानो भट्टः मकरन्दः। अन्विताभिधानवादिनमिति प्रभाकरमित्यर्थः। ( १ ) इयं बोधिनी ४०४ पृष्ठं प्रारभ्य ४०८ पृष्ठपर्यन्तमूलव्याख्याऽऽदर्शपुस्तकाशुद्ध्या संपादकप्रमादाच्चात्रागता तत्र पठितव्या । ५२ न्या० कु०