न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 453, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] अर्थापत्तेर्बाधकत्वखण्डनम् । ४२१ कथन्ता ? । सर्वदेशाप्रत्यक्षत्वे तत्राभावो दुरवधारण इत्यपि नास्ति । तेषामेव संसर्गस्यात्मनि प्रतिषेधात् । अयोग्यानां प्रतिषेधे का वार्तेति चेत् । तदवयवानां तत्संसर्गप्रतिषेधादेवानुमानाद् अन्येषां न काचित् , न ह्यकारणीभूतेन परमाणुना नेदं संसृष्टमिति निश्चेतुं शक्यमिति । न चाऽविनाभावनिश्चयेनापि गमयन्नपद्येत- बोधनी । त्यक्षत्वेन योग्यानुपलम्भाभावादित्याशङ्क्याह सर्वदेश इति । न हि तेषु स्वात्मनो निषेधः किन्तु स्वात्मनि तेषां संसर्गस्य निषेधः । स्वात्मा च प्रत्यक्ष एव, प्रतियोगिनश्च ते स्मरणमात्रेणोपयु- ज्यन्ते न प्रत्यक्षत्वेनेति । स्वात्मनि वा कथमयोग्यानां प्रतिषेध इत्याह अयोग्यानाम् इति । तत्रा- योग्याः परमाण्वादयो द्विविधाः आरब्धस्थूलकार्यावयवभूताः केवलाश्च । तत्र पूर्वेषां स्वात्मनि निषेधः तदारब्धस्थूलावयविसंसर्गनिषेधादनुमानत एव सुकरस्तदंसंसर्गस्य तदवयवासंसर्गेण व्याप्तेः, उत्तरेषां तु संसर्गनिषेधे न काचिद्वार्त्ता प्रमाणाभावेनाशक्यत्वादित्याह तदवयवानाम् इति । अस्त्येवाविनाभावनिश्चयोऽप्ययमर्थापत्तेः, तथापि नानुमानत्वं पक्षधर्मत्वाभावादित्यत्राह नचावि- नाभावेति । एवं ह्यनुमानेऽपि पक्षधर्मत्वं निमित्तं न स्यात् व्यधिकरणेनापि साधनेन साध्य- सिद्धयुपपत्तेरिति । न च व्यधिकरणेन साध्येनाविनाभावः शक्यनिश्चयः, यत्साधनं यत्र देशे यदा यस्मिन् कालेऽस्ति तत्र तदा वा तत्साध्यमिति देशतः कालतो वा सामानाधिकरण्येनेवाविना- प्रकाशः । व्यापकमिति यथोगप्राथ्याभ्यां यदा नान्यत्र तदाऽहमिह, यदा नेह तदाऽन्यत्रेति वक्तुमर्हति । तथापि यत्तदोर्नियमित्त्यैव सम्बन्धः कार्यः, तेन यदा जीवतो गृहासत्त्वं तदा बहिःसत्त्वमित्यन्वय- व्याप्तिः, यदा तु बहिरसत्त्वं तदा जीवतो गृहसत्त्वमिति व्यतिरेकव्याप्तिरुक्ता । सर्वत्र बहिरभाव एव प्रत्येतुमशक्योऽधिकरणानामयोग्यत्वादित्याह सर्वदेशेति । न तेषु तेषु देशेष्वभाव निश्चयः, किन्त्विन्द्रियग्रहणयोग्यानां तावदात्मनि संसर्गाभावो योग्यानुपलब्ध्या निश्चीयते इत्याह—तेषामे- वेति । सर्वदेशानामित्यर्थः । अयोग्यानामिति । तत्र योग्यानुपलब्धेरसामर्थ्यादित्यर्थः । तद- वयवानामिति । योग्यानामयोग्या येऽवयवाः, तेषामवयविसंसर्गनिषेधादेव संसर्गनिषेधो निश्चयः । न हि यद् येनावयविना न संसृष्टं तत् तदवयवसंसृष्टम् । अवयवावयविविधुरातीन्द्रियद्रव्यसंसर्गस्य च न विधिनिषेधवार्त्ता, उभयत्र मानाभावादित्यर्थः । ननु जीविगृहभाववहिःसत्त्वयोर्व्याप्तावपि जीविदेवदत्ताभावो गृहे वर्त्तमानो न बहिःसत्त्वे लिङ्गं, देवदत्तवृत्तित्वा नित्यनुमानाद्भेदोऽर्थापत्तेः स्यादित्यत आह—न चेति । गृहनिष्ठाभावप्रतियोगित्वस्य लिङ्गत्वातस्य च देवदत्तवृत्तितया पक्ष- धर्मत्वादित्यर्थः । अन्यथा बहिःसत्त्वगृहनिष्ठाभावयोर्व्यधिकरणत्वेन नियतसामानाधिकरण्यरूपा व्याप्तिरपि न स्यात् । उपरि सविता भूमेरालोकवत्त्वादित्यत्रापि भूमेरुपरि सन्निहितसवितृकंत्वेनारनु- प्रकाशिका । वाक्यशेषः, वैपरीत्येऽपि व्याप्यव्यापकभावसम्भवादिति ध्येयम्, यदा नेति व्याप्य एव नञर्थस्य प्रवेशादिति भावः । उभयत्रेति । यद्यप्येवमपि व्याप्तिनिश्चयोऽशक्य एव तथापि प्रत्यक्षाभावेप्यनु- मानादिना तन्निश्चयसम्भव इति भावः । व्याप्तावपीत्युपलक्षणम् । तन्निश्चयेपीत्यपि द्रष्टव्यम् । उपरीति । तथा च तत्रापि सामानाधिकरण्यमस्त्येवेति भावः । ननु स्थूलमिदमेकमेव ज्ञानमिति द्विती- मकरन्दः । यदा नेति । व्याप्य एव नञर्थप्रवेशादिति भावः । उभयत्रेति । यद्यप्येवं संशय इति न व्याप्ति- निश्चयः स्यात् , तथापि प्रत्यक्षाभावेऽप्यनुमानादपि तत्सम्भव इति भावः । व्याप्तावपीत्युपलक्षणं, तन्निश्चयेऽपीत्यपि बोध्यम् । उपरीति । तथा च तत्रापि सामानाधिकरण्यमेव व्याप्तिरित्यर्थः । ननु स्थूलमिदमेकमित्येकत्वज्ञानमिति द्वितीयंस्य प्रतियोगिनोऽभावदिच न विरोध इत्यंशाहङ्ख्याह