न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 463, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] अनुपलब्धेर्मानन्तरत्वखण्डनम् । ४३१ नीते रूपाभावप्रतीत्यनुदयप्रसङ्गात् । तथापि तत्तत्र सन्निकृष्टमिति चेत् । हन्तैवंम- नन्यत्र चरितार्थमिन्द्रियमवश्यमपेक्षणीयं रूपाभावानुभवेन ॥ स्यादेतत् , तथापि वस्त्वन्तरग्रह एव तस्योपयोग इति चेन्न । तस्य तं प्रत्य- बोधिनी । इति । प्रतियोगिग्राहकेण चक्षुषा वायोरग्रहणात्तत्र रूपाभावप्रतीतिः कदाचिदपि न स्यादिति । नन्वगृह्णदपि चक्षुर्वायौ यावत्सन्निकृष्टं तावता रूपविशेषस्यानुपलब्धिरभावं गमयतीत्याह तथापि इति । हन्तैवम् इति । वायोरग्रहणाभावादनन्यत्र चरितार्थता त्वन्धस्य च रूपाभावप्रतीत्यभावा- दवश्यमपेक्षणीयत्वं चक्षुष इति । ननु मा भूदधिकरणग्रहणोपक्षयस्तथापि तत्र संनिहितस्य यस्य कस्यचिद्वस्तुनो ग्रहण एवोप- क्षीयत इत्याह स्यादेतत् इति । न इति । अत्र ह्यन्वयव्यतिरेकानुविधाने सत्येवाभावबुद्धेरनिन्द्रि- प्रकाशः । रित्वेनेन्द्रियजन्यत्वं, स्मृतिवत्तस्य परोक्षत्वात् । मैवम् । घटाभावबुद्धेरपि साक्षात्कारित्वेनाभिम- ताया योग्यानुपलब्धिलिङ्गजन्मत्वापत्तेः । यदि च लिङ्गज्ञानेऽपि तदनुभवादज्ञातकरणिका सा, तदा वायौ रूपाभाव इति धीरपि तथा । किञ्च वस्तुतो घटवत्युपलब्धिप्राक्कालेऽनुपलब्ध्या घटस्मृति- मतः कुतो नाभावधीः ? घटाभावाभावादिति चेत् । हन्तैवमभावबुद्धेरर्थजन्यत्वात् प्रत्यक्षत्वसिद्धावि- न्द्रियजत्वमेव । अपि च प्रतियोगिसत्त्वविरोधिनी याऽनुपलब्धिः, सैव योग्यानुपलब्धिः, अतो जलपरमाणौ गन्धाभावो न प्रत्यक्षः, प्रत्यक्षश्च वायौ रूपाभावः, रूपानुपलब्धिज्ञापकस्याभावात् । तल्लिङ्गत्वमभावं च स्वयमेवाचार्यो वक्ष्यति । तथापीति । चक्षुषा वायोरग्रहेऽपि चक्षुर्वायुसन्निकृष्ट- मेवेति नाश्रयग्रहे तदुपक्षीणमित्यर्थः । नन्वाश्रयेत्यन्यमात्रोपलक्षणम्, अस्ति च वायुसन्निकृष्टस्येन्द्रियस्य तद्देशवृक्षादिप्रकाशकत्वमि- त्यन्यथासिद्धिरिवेत्याह— स्यादेतदिति । अन्धस्यापि रूपाभावप्रतीत्यापत्त्या न तावदिन्द्रियमभावज्ञाने अकारणमेव, किन्तु कारणव्यापकत्वेन परम्पराकारणं मन्तव्यम् । तथा सत्याह तस्येति । तस्य वस्त्वन्तर- मकरन्दः । ज्ञातानुपलब्धिजन्यत्वेनोभयसिद्धेत्यर्थ इति वयम् । अन्यथा तु चिन्त्यम् । साक्षात्कारित्वेनेति स्वमते । यदि चेति । तथा च तत्र त्वदुक्तानुपलब्धिवैकल्यादनन्यगत्या इन्द्रियग्राह्य एवाभाव इति भावः । युक्त्यन्तरमाह किञ्चेति । प्रत्यक्षश्चेति । यद्यप्येवं स्वरूपसदनुपलब्धिग्राह्यत्वमात्रं सिद्ध्यति, तथापि पूर्वोक्तयुक्त्यवष्टम्भेन प्रत्यक्षत्वमुक्तमिति ध्येयम् । चक्षुषेति । तथा च प्रतियोगिग्राहकेन्द्रियेणा- टिप्पणी । धीः साक्षात्कारित्वेन नैयायिकाभिमतैव तत्र च न प्रतियोगिग्राहकेत्याद्यनुपलब्धिकरणज्ञानसामग्री, तथापि साक्षात्कारित्वेन त्वदभिमतेत्यस्याज्ञातानुपलब्धिजन्यत्वेनोभयसिद्धेत्यर्थ इति । अन्यथा तु चिन्त्यम् । स्मृतिवत्तस्य परोक्षत्वादिति । अज्ञातकारणजत्वेऽप्यपरोक्षत्वाभावात् । साक्षा- त्कारित्वेनाभिमंताया इति । अनुपलब्धिकरणकत्वेन । योग्यानुपलब्धिलिङ्गजत्वापत्ते- रिति । अनुपलब्धिज्ञानं कल्पयित्वा लिङ्गजन्मत्वेनानुमितित्वस्य वक्तुं शक्यतयाऽनुपलब्धेः कारण- त्वभङ्गापत्तेः । यदि च लिङ्गज्ञानेपीति । सर्वत्र ज्ञानकल्पने मानाभावात् । तदा वायौ रूपाभाव इति धीरपीति । तत्रापि सर्वत्रानुपलब्धिज्ञानकल्पने मानाभावात् । इति धीरपि तथेति । अनुमितिरेवेत्यर्थः ॥ २०-२१-२२-२३ ॥ इति श्रीमद्धर्मदत्तोपाध्याय ( प्रसिद्ध-बच्चाझा ) कृत।कुसुमाञ्जलितृतीयस्तवकटीप्पणी समाप्ता ।