न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 477, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४४५ चन्दनमित्यादयो व्याख्याताः । तथाचाभावविप्रषेऽपोन्द्रियसामर्थ्यस्य दुरपह्नवत्वा- दलमसद्ग्रहहेतेरिति ॥ २१ ॥ स्यादेतत्, नागृहीते विशेषणे विशिष्टबुद्धिरुदेति, तत्कार्यत्वात् । न च विशिष्टसामर्थ्ये केवलविशेषणेऽपि सामर्थ्यं, केवलसौरभेऽपि चक्षुषो वृत्तिप्रस- ङ्गात् । अतोऽभावविशेषणग्रहणाय मानान्तरसम्भवः । अपि च कथमनालोचितोऽर्थ इन्द्रियेण विकल्प्येत ? । न च मानान्तरस्या- प्येषा रीतिः । अनुमानादिभिरनालोचितस्याप्यर्थस्य विकल्पनात् । अप्राप्तेश्च । न ह्यभावेनेन्द्रियस्य संयोगादिः सम्भवति । न च विशेषणत्वं, सम्बन्धन्तरपूर्वक- बोधिनी । दनेन तेऽपि प्रत्यया गन्धज्ञानसहकृतया त्वचा वा चक्षुषा वा जायन्ते न त्विन्द्रियसमाहारेणेति व्याख्यात इति । एवमुक्तप्रकारेण विशिष्टज्ञान इवेन्द्रियस्याभावेऽपि सामर्थ्यमवर्जनीयमित्युपसंहरति तथा च इति ॥ २१ ॥ अथानुपपत्तितुष्टयेनाभावप्रत्यक्षत्वं पूर्वपक्षी प्रतिक्षिपति स्यादेतत् इति । अघटं भूतलमिवि विशिष्टबुद्धेः पूर्वमेव विशेषणस्याभावस्य ग्रहणं वक्तव्यं विशेषणग्रहणकार्यत्वात् विशिष्टबुद्धेर्न च विशिष्टे सामर्थ्यमस्तीति विशेषणेऽपीन्द्रियस्य सामर्थ्यमतिप्रसङ्गात् , तस्मादभावात्मनो विशेषणस्य ग्रहणाय षष्ठं प्रमाणमास्थेयम् । यदि वा भाव ऐन्द्रियकः सविकल्पको ग्राह्यः, ततो निर्विकल्पकेनासौ पूर्वं ग्रहीतव्यः निर्विकल्पपूर्वकत्वात् विकल्पस्य । न चाभावे निर्विकल्पकसंभवः प्रतियोग्यवच्छेदेनैव तस्य स्फुरणात् । न च षष्ठप्रमाणवादिनोऽप्ययं प्रसङ्गः ऐन्द्रियकविकल्पस्यैव तत्पूर्वकत्वनियमात् । न चाभावस्येन्द्रियेण प्राप्तिः संभवति संयोगादीनां भावधर्मत्वात् , विशेषणविशेष्यभावलक्षणस्य च संबन्धस्य संयोगसमवायादिसम्बन्धान्तरपूर्वकत्वेनैव दण्डिनीलोत्पलादिषु दृष्टत्वात् । किंच अभावप्रत्यक्षत्ववादिनापि प्रतियोगिनोऽनुपलब्धिरवश्यमिन्द्रियसहकारित्वेनाप्यङ्गीकर्त्तव्या, तथा चोभयसिद्धा सैवाभावज्ञानहेतुरस्त्विति । प्रकाशः । चन्दनविशेष्यकं जन्यते, चन्दनसौरभमिति ज्ञानं चक्षुरुपनीतचन्दनविशेषणकं सौरभविशेष्यकं घ्राणेन जन्यते, यदिन्द्रियजन्यं यज्ज्ञानं तत्तदिन्द्रिययोग्यविशेष्यकमिति व्याप्तेरित्यर्थः ॥ २१ ॥ ननु घटाभाववद्भूतलमित्यपि धीरनुपलब्ध्युपनीताभावविशिष्टबुद्धिरिन्द्रियेण जन्यते, तथाच विशिष्टज्ञानस्यैन्द्रियकत्वेऽपि विशेषणज्ञानायानुपलब्धिर्मानान्तरं सौरभज्ञानाय घ्राणमिवेत्याह- नागृहीतेति । प्रत्यक्षविशिष्टज्ञानस्य निर्विकल्पकजन्यत्वेन व्याप्तेर्नाभावे सविकल्पकैकवेद्ये तदस्तीति नाभावज्ञानं प्रत्यक्षमित्याह अपि चेति । अनुपलब्धिजन्याभावज्ञाने तु न तज्जन्यत्व- मसाक्षात्कारित्वाच्छब्दादाविवैत्याह न चेति । अप्राप्तेश्चेति । इन्द्रियाणां प्राप्यार्थग्राहकत्वाद्वि- त्यर्थः । न च तत एव संयोगादिवाधेनैहैव विशेषणताप्राप्तिः कल्प्येत्याह न चेति । विशेषण- तायाः समवायादिसम्बन्धान्तरव्याप्तत्वात्तद्वाधे विशेषणत्वस्यापि बाधादित्यर्थः । सम्बन्धस्य सम्बन्धिभिन्नत्वनियमेण ग्राह्यस्वरूपस्यासम्बन्धत्वनिश्चयात् समवायानानभ्युपगमेनान्यत्र तदकल्प- नाच्च । न चाभावस्येन्द्रियग्राह्यत्वसिद्धाविहैव तत्कल्पनम् । विशेषणताकल्पने सत्यभावः प्रत्यक्षः, तत्सिद्धौ च तत्कल्पनमित्यन्योन्याश्रयादिति भावः । एवमभावबुद्धौ इन्द्रियाणां करणत्वं निरस्या- प्रकाशिका । तत्रापि प्रमाणसमाहार इति भावः । यदिन्द्रियेति । बहिरिन्द्रियजन्ये चायं नियम इत्यवधेयम् ॥ ननु समवायस्थल एव विशेषणता कॢप्तेत्यत आह समवायेति । समवायस्य तत्तत्प्रत्य-