न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 481, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम्। ४४६ प्रत्यक्षादिभिरेभिरेवमधरो दूरे विरोधोदयः प्रायो यन्मुखवीक्षणैकविधुरैरात्मापि नासाद्यते ॥ तं सर्वानुविधेयमेकमसमस्वच्छन्दलीलोत्सवं देवानामपि देवमुद्भवदतिश्रद्धाः प्रपद्यामहे ॥ २३ ॥ इति तृतीयः स्तवकः ॥ ३ ॥ बोधनी । अथ परमेश्वरप्रतिपत्तिव्याजेन परिच्छेदार्थमुपसंहरति प्रत्यक्षेति । बाधकत्वेन शङ्किता- नामपि सर्वेषां प्रमाणानां कार्यत्वेनेश्वरायत्तात्मलाभत्वादद्यनुमानस्याश्रयासिद्धेरपि तदधीनत्वादागमस्य च प्रामाण्येऽपि तत्परतन्त्रत्वादुक्तं यन्मुखवीक्षणेति । प्रत्यक्षस्योत्पत्तौ तदपेक्षायामपि प्रामाण्ये तदनपेक्षत्वादुक्तं प्राय इति । तदयमर्थः-एवमीश्वरस्याधरैरर्वाक्प्रवर्त्तमानैस्तमपि विषयीकर्त्तुम- शक्नुवद्भिरिति यावत् । यन्मुखवीक्षणैकविधुरैरात्मापि नासाद्यते तैः प्रत्यक्षादिभिस्तस्य विरोधो बाधश्च दूरे, तमेवंभूतं सर्वेषां परमपुरुषार्थप्राप्तिहेतुत्वादनुविधेयमेकं समेनाधिकेन वा द्वितीयेन रहितं असमायां स्वच्छन्दतः प्रवणलक्षणायां लीलायामवद्धरतिं परमेश्वरमुद्भवदतिश्रद्धावन्तो वयं प्रपद्यामह इति ॥ २३ ॥ इति श्रीमद्रामदेवमिश्रसूनोर्वरदराजस्य कृतौ कुसुमाञ्जलीटीकायां तृतीयः परिच्छेदः ॥ प्रकाशः। भावोपलम्भः प्रतिबन्धकः स्यादित्यर्थः । एतच्च भावोपलब्धावभावानुपलब्धिः पृष्ठलग्नेवेति व्याच- क्षाणैरस्माभिः परिशिष्टप्रकाशे विप्रञ्चितमिति तत्रैवानुसन्धेयम् ॥ २२ ॥ स्तवकार्थमुपसंहरन्नेवेश्वरन्नतिं निवध्नाति प्रत्यक्षादिभिरिति । यस्येश्वरस्य मुखवीक्षणैक- विधुरैरैभिर्ग्राह्यकमानवाधितैः प्रत्यक्षादिभिर्विरोधोदयोऽधरः । अत एव, दूरे । सर्वमनुविधेयं वश्यं यस्य । असमा चासौ स्वच्छन्दा चेतनान्तराप्रयोज्या या लीला, सैवोत्सवो यस्य, स तथा । दुःखा- भावैकनिदानत्वात् । अत एवोद्भवदतिश्रद्धा वयं, तं देवानामपि देवं स्तुत्यं प्रपद्यामहे इत्यर्थः ॥२३॥ इति श्रीमन्महामहोपाध्यायश्रीवर्धमानविरचिते न्यायकुसुमाञ्जलिप्रकाशे तृतीयः स्तवकः ॥३॥ प्रकाशिका । चीनेत्यत्र प्रतिपादितं मयेत्याह एतच्चेति । तदधिकरणीयाभावोपलम्भाभावस्य तदधिकरणीय- भावग्राहकत्वं वाच्यमन्यथातिप्रसङ्गात् एवं तत्सम्बन्धावच्छिन्नत्वाभावोपलम्भाभावस्य तत्सम्बन्धा- वच्छिन्नभावग्राहकत्वमन्यथातिप्रसङ्गादेव । तथा च निरधिकरणाभावग्रहे निर्विकल्परूपभावग्रहेऽचेन्द्रि- मेव करणं वाच्यमित्यावश्यकत्वादन्यत्रापि तथा, अभावधीस्तु निरधिकरणा निर्विकल्पकरूपा च न सम्भवतीति वैषम्यमिति तस्य तात्पर्यम् ॥ २२-२३ ॥ इति महामहोपाध्याय परनामकमैघ ठक्कुरश्रीभगीरथविरचितायां कुसुमांजलिप्रकाशिकायां तृतीयस्तवकः ॥ मकरन्द । तथा च भावज्ञानेऽप्यभावानुपलब्धिरेव प्रमाणं स्यादिति भावः ॥ २२-२३ ॥ इति महामहोपाध्यायश्रीरुचिदत्तविरचिते कुसुमाञ्जलिमकरन्दे तृतीयः स्तवकः ॥ ५७ न्या० कु०