न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
DevanagariHindipublished608 पृष्ठ
पृष्ठ 492, कुल 608 में से
संदर्भ में पढ़ेंपृष्ठ 492
४६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२ कारिकाव्याख्यायां
- विशेषाभावात्तत्रैव फलं नान्यत्रेत्यस्यापि नियमस्यानुपपत्तेः । स्वभावनियमेन चोपपत्तौ तथैव विषयव्यवस्थोपपत्तेः । अवश्यञ्चैतदनुमन्तव्यम्, अतीतादिविष- यत्वानुरोधात् । न हि तत्र ज्ञानेन किञ्चित् क्रियते इति शक्यमवगन्तुम् । अस- त्त्वात्। न च तद्धर्मसामान्याधारं किञ्चित् क्रियते इति युक्तम् । तेन तस्यैव विषयत्व- प्राप्तेः । तादात्म्याद्विशेषस्यापि सैव ज्ञाततेति चेत्, तत् किं चक्षुषा घटे ज्ञायमाने रसोऽपि ज्ञायते, तादात्म्यात् । घटाकारेण ज्ञायत एवासौ रस इति चेत् । अथ रसाकारेण किं न ज्ञायते। तेन रूपेण ज्ञाततानाधारत्वादिति चेत्। न तर्हि वर्त्तमान- सामान्यज्ञानेऽप्यतीतानागतादिज्ञानम्, तेनाकारेण प्राकट्यानाधारत्वादिति ॥ २ ॥ ननु क्रियया कर्मणि किञ्चित् कर्त्तव्यमितिव्याप्तेरस्त्वनुमानम् । न । अनैकान्त्यादसिद्धेर्वा न च लिङ्गमिह क्रिया । तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवोऽधिके ॥ ३ ॥ प्रकाशः। अतीतादिघटादौ भासमाने घटत्वादेरपि भासनात्तत्रैव ज्ञाततोत्पत्तिः स्यादित्यपि नास्तीत्याह न चेति । तथा सति ज्ञातताऽनाश्रयत्वाद् घटादिर्विषयो न स्यात्, घटत्वादौ ज्ञातताऽऽधानात्- स्यैव तद्विषयत्वादित्यर्थः । ननु धर्मधर्मिणोस्तादात्म्यात्तद्धर्मज्ञातता तस्यैवेत्याह तादात्म्यादिति । तत्किमिति । ननु धर्मिणो धर्माभेदेऽपि धर्मस्य न धर्म्यभेदः । भेदाभेदाङ्गीकारात् । तथा च धर्मे ज्ञायमाने तद्भिन्नो धर्मी ज्ञायतां, धर्मिणि ज्ञायमाने तद्भिन्नो धर्मः कथं ज्ञायेत । मैवम् । भेदाभे- दस्य विरोधेनासम्भवात् ॥ २ ॥ ननु धात्वर्थावच्छेदकपरसमवेतक्रियाफलशालित्वं कर्मत्वमिति ज्ञानक्रियायाः स्वकर्मनिष्ठफलज- नकत्वाज्ज्ञाततां स्यादित्याह-- नन्विति । क्रिया न धात्वर्थमात्रं, शरसंयोगादिना धात्वर्थेन कर्मणि गगनादौ तदजननादनैका- न्तिकत्वात् । नापि स्पन्दः, ज्ञाने स्पन्दत्वाभावात् । नापि करणव्यापारस्त्वं, शब्दादिव्यापारपदार्थ- स्मृत्यादिभिरनैकान्तिकत्वादित्याह अनैकान्त्यादिति । इह ज्ञाततायाम् । ननु प्रत्यक्षैव ज्ञातता, संयुक्त इतिवज्ज्ञात इत्यनुभवादित्यत आह तद्वैशिष्ट्येति । ज्ञातताऽनुभवो ज्ञानवैशिष्ट्यमात्रविष- यको नातिरिक्तविषयतायां मानमित्यर्थः । प्रकाशिका। दृत्तो गच्छतीत्यत्र गमनक्रियाफलं विभागोऽपीति तदाश्रयपूर्वदेशस्य कर्मत्वापत्तिरित्याशयेनाह धात्वर्थेति । विभागश्च न तथा उत्तरसंयोगावच्छिन्नस्पन्दस्य गमिधात्वर्थत्वादिति भावः । गमन- कर्तर्यपि संयोगाश्रयत्वादतिव्याप्तिरिति परेति । अतिरिक्तेति । ज्ञाततायामित्यर्थः । न चैवं मकरन्दः। ननु चैत्रो गच्छतीत्यत्र परसमवेतगमनक्रियायाः फलमुत्तरदेशसंयोगवत् पूर्वदेशविभागोऽपीति पूर्वदेशेऽतिव्याप्तिरित्यत उक्तं-धात्वर्थतावच्छेदकेति फलविशेषणम् । उत्तरसंयोगावच्छिन्न- स्पन्दस्य धात्वर्थत्वाद्विभागो न तथेत्याहुः । घटं जानाति चैत्र इत्यत्र ज्ञानक्रियाफलमिच्छादि, तच्छालितयाऽऽत्मन्यतिव्याप्तिरित्यत उक्तं परेति । न चाभावो घटमाश्रयते इत्यादावव्याप्तिः, आश्रयणक्रियाया अभावे समवेतत्वाभावादिति वाच्यम् । परसमवेतपदस्य सम्बन्धपरत्वात् । अतिरिक्तेति । ज्ञाततायामित्यर्थः । टिप्पणी। भिमतस्य विषयत्वाभावात् विषयत्वस्य ज्ञातताधीनतया ज्ञाततानुत्पत्तेर्ज्ञानविषयत्वस्यासम्भवादि- त्यर्थः । अतिरिक्तविषयतायामिति । ज्ञाततारूपायामित्यर्थः ।