न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 494, कुल 608 में से
संदर्भ में पढ़ें४६२ व्याख्यायात्रोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां तथा, क्रिययैव विशेषो हि व्यवहारेषु कर्मणाम् ॥ ४ ॥ किं न पश्यसि, घटक्रिया पटक्रियेतिवत् कृतो घटः करिष्यते घट इत्यादि, तथैव गृहाण, घटज्ञानं पटज्ञानमितिवज्ज्ञातो घटो ज्ञायते इति । कथमसंबद्धयोर्ध- र्मधर्मिभाव इति चेद्, ध्वस्तो घट इति यथा । एतदपि कथमिति चेद् , नूनं ध्वंसेनापि घटे किञ्चित् क्रियते इति वक्तुमध्यवसितोऽसि । तन्निरूपणाधीन- निरूपणो ध्वंसः स्वभावादेव तदीय इति किमत्र संबन्धान्तरेणेति चेत् । प्रकृतेऽ- प्येवमेव । एतेन फलानाधारत्वादर्थः कथं कर्मेति निरस्तम् । विनाशयद्यत् करणव्यापार- प्रकाशः । बुद्धित्वमुपाधिः । घटसंयोगादिजनकाऽवयवसंयोगादौ साध्याव्यापकत्वात् । मैवम् । अप्रयोज- कत्वात् । अन्यथेच्छा स्वविषयनिष्ठकिञ्चिद्धर्मजनिका सविषयकत्वात् बुद्धिवदित्यादेरापत्तेः । तथापि ज्ञातो घट इति ज्ञानं विशेषणविशेष्ययोः सम्बन्धविषयकं विशिष्टज्ञानत्वात्, गौरिति ज्ञानवत् । वर्त्तमानेऽर्थे बाधकाभावात् । अन्यथा समवायोऽपि न सिद्ध्येदिति चेन्न । अतीतानागतयोर्ज्ञातताया अभावेन ज्ञातव्यवहाराभावापत्तेः । तस्य ज्ञाततासाध्यत्वात् । तत्र ज्ञानविषयावेव तद्विषयाविति चेन्न । वर्त्तमानेऽपि तयोरेव तद्विषयत्वापत्तेः । अतीतादिवर्त्तमानतप्रतीत्योर्वैलक्षण्याऽननुभवात् । अथ घट- पटयोरेकज्ञानविषयत्वेऽपि घटत्वेन घटो ज्ञातः, पटत्वेन पटो ज्ञात इति ज्ञातताभेदभानाज्ज्ञानभिन्ना ज्ञाततेति चेन्न । तस्यैव ज्ञानस्य सम्बन्धस्तत्र तत्र तेन तेन धर्मेण निरूप्यते इति ज्ञानस्वभावादेव नियमादिति भावः । प्रतिबन्धिमुक्त्वा मूलयुक्तिमाह तन्निरूपणेति । ननु ज्ञानजन्यफलानाश्नयत्वादर्थः कर्म न स्यादित्यत आह- एतेनेति । परसमवेतक्रियाफलशालित्वं न कर्मत्वम् । आत्मानं जानातीत्यत्राव्याप्तेः, किन्तु करणव्यापारविषयत्वम्, तच्चात्राऽस्त्येवेत्याह विनाशयद्यदिति । अर्थो ज्ञानस्य कर्मैव न भवति, प्रकाशिका । शित्वं क्षणिकत्वरूपमसिद्धमित्यत आह क्षणचतुष्टयेति ।' अप्रयोजकत्वादित्युपलक्षणम्, पक्षधर्मावच्छिन्नसाध्यव्यापकस्यापेक्षाबुद्धित्वस्योपाधित्वाच्चेत्यपि द्रष्टव्यम् । सम्बन्धत्वेन ज्ञातता- सिद्धिमाशङ्कते तथापीति । अन्यथेति । सम्बन्धं विनापि विशिष्टधीस्वीकार इत्यर्थः । प्रति- बन्दीमुक्त्वा मूलयुक्तिमाह अर्थ इत्यादि। ऐन्द्रियकोपलम्भाभावमिति मूलं अतीन्द्रियत्वं ज्ञानस्य तद्विषयकसाक्षात्काराभावः । स च जानातीन्द्रियतया न स्वरूपसदनुपलब्धिग्राह्य इत्यर्थः । मम इन्द्रियग्राह्यत्वेनाभिमतो य उपलम्भाभाव इति योजना । अनुपलब्धेस्तत्रैव त्वन्मते सामर्थ्या- दिति भावः । अस्तु वा स्मरणम् तथापि तदनुपपत्त्या नानुभवसिद्धिः, तत्कारणेवान्यथासिद्धिरित्यत मकरन्दः । अप्रयोजकत्वादित्युपलक्षणम्-पक्षधर्मावच्छिन्नसाध्यव्यापकमपेक्षाबुद्धित्वमुपाधिरित्यपि द्रष्टव्यम्। अन्यथेति । यदि सम्बन्धं विना विशिष्टधीः, तदेत्यर्थः ।