न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 512, कुल 608 में से
संदर्भ में पढ़ेंप्रकाशः। जन्यकृतिसाक्षादजन्यं जन्यम्, घटादेरपि पक्षतापत्तेः। नापि सकर्तृकत्वविवादविषयः, तत्सन्देह- विषयो वा(१) पक्षः, एकरूपाभावे क्षित्यादिसकलविषयविवादसंशययोरभावात्। किञ्च न वादिनोः संशयः, तयोर्निश्चितत्वात्। वाद्यनुमानयोस्तुल्यत्वेन मध्यस्थसंशय इति चेत्। तर्ह्यनुमानाभ्यां तत्संशयो, मध्यस्थसंशयानन्तरञ्च वाद्यनुमानमित्यन्योन्याश्रयः। न च क्षितिरेव पक्षः, अङ्कुरेण सन्दिग्धानैकान्तिकत्वात्। हेतौ साध्याभाववद्गामित्वसंशयस्य दूषकत्वात्। तस्य च साध्याभाववति हेतुसन्देहादिव हेतुमति साध्याभावसन्देहादपि दूषकत्वात्। पक्षे तत्सद्भावेऽप्यनुमानमात्रोच्छेद- कत्वेन तस्यादूषकत्वात्। न चाङ्कुरेऽपि तत एव साध्याँनुमितिः। तस्यापक्षत्वेन स्थापनानुमाना- विषयत्वात्। अनुमानान्तरस्य च क्षित्या सन्दिग्धानैकान्तिकत्वात्। तथा चाऽन्योन्याश्रया- देकस्याप्यनुमानस्याप्रवृत्तिः। एकैकमात्राभिज्ञसिद्धावपि सकलविषयज्ञानवदसिद्धिश्च ॥ साध्यमपि न कृतिमत्सहभावः, तज्जन्यत्वं वा, अस्मदादिना सिद्धसाधनात्। नाप्युपादान- गोचरापरोक्षज्ञानादिमज्जन्यत्वं, यत्किञ्चिदुपादानविवक्षायां घटोपादानगोचरज्ञानादिमताऽस्मदादिना- ऽर्थान्तरात्। न च ज्ञानादीनामपि जनकत्वं विवक्षितम्। न च घटोपादानगोचरज्ञानादेः क्षित्यादि- जनकत्वसम्भव इति वाच्यम्। तथापि क्षितिजनकादृष्टजनकज्ञानादीनामुपादानविषयत्वनियमेनादृष्ट- द्वारा तैरेव सिद्धसाधनात्। न च साक्षात्तज्जन्यत्वं विवक्षितम्। घटादेर्दृष्टान्तस्य साध्यवैकल्या- पत्तेः। न च शरीरक्रिया दृष्टान्तः। घटे व्यभिचारात्, तत्क्रियात्वस्यैवोपाधित्वाच्च। क्षित्युपादान- विवक्षायामप्रसिद्धिः। न चोपादानशब्दस्य सम्बन्धिशब्दतया तत्तत्समभिव्याहारात्तत्तदुपादान- बोधकत्वम्। शाब्द एव बोधे तथा व्युत्पत्तेः। अनुमितौ च येन रूपेण व्यापकत्वं, तेनैव रूपेण तस्य विषयत्वात्। तच्चोपादानत्वमेवेत्युक्तदोषानुपरोहात्। किञ्च घटे चिकीर्षाद्वारा कृतिसाध्येष्ट- साधनताज्ञानमनुमितिरूपं जनकमिति साध्यविकलो दृष्टान्तः, साध्याप्रसिद्धित्वाँ। प्रत्युत घटेऽनुमिति- प्रकाशिका । सिद्धिः। वाक्यपदं संसर्गविशेषप्रतिपादकशब्दपरम्, तादृशशब्दकारणसंसर्गज्ञानाधिकरणतया पर- मेश्वरसिद्धिः। संख्यापदं उत्तमपुरुषाभिधेयसंख्यापरम् कठकलापादिसंज्ञाविशेषपरं वा, तथा च वेदस्योत्तमपुरुषाभिधेयसंख्याधिकरणत्वेन. समाख्यानिबन्धनतत्सजातीयशरीरावच्छिन्नोच्चारणकर्तृ- त्वाश्रयतया वा परमेश्वरसिद्धिरिति । सन्देहविषयत्वं वा पक्ष इति पाठे पक्षपदं पक्षतावच्छेदकपरम्। अपक्षत्वेनेति प्रतिज्ञाविषय- स्यैव पक्षत्वमित्यभिमानेनेदम्। नन्वङ्कुरे सकर्तृकत्वमनुमाय क्षितौ तदनुमेयमत आह अनुमाना- न्तरस्येति। मकरन्द । सन्देहविषयत्वं वा पक्षः इति पाठे पक्षपदं पक्षतावच्छेदकपरम्। अपक्षत्वेनेति प्रति- ज्ञाविषयस्यैव पक्षत्वमित्यभिमानः। ननु प्रथममङ्कुरे तदनुमाय क्षितौ तदनुमेयमित्यत आह अनुमानान्तरस्येति । टिप्पणी । भिन्नशरीरिणमादायार्थान्तरात् सिद्धसाधनाद्वा पक्षासिद्धेरित्यर्थः। पक्षतागतेरिति । अर्थान्तर- तादवस्थ्यञ्च सन्देहविषयत्वम्। वापक्षः पक्षोध्येयः। पक्षतावच्छेदकमिति। यावत् सिद्धसा- धनादिति। अदृष्टद्वाराऽस्मदादेरपि जनकत्वात् विवक्षायामप्रसिद्धिः दृष्टान्तेऽसत्त्वम् तच्चोपादानत्व- मिति । व्यापकतावच्छेदकचेत्यर्थः। उक्तदोषपरिहारात् सिद्धसाधनम् ॥ साध्यप्रसिद्ध्यनुरोधेनापरोक्ष प्रवेशे त्वाह प्रत्युतेति । (१) सन्देहविषयत्वं वा पक्ष इति प्रकाशिकाममितोऽयं पाठोद्रष्टव्यः ।