न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 514, कुल 608 में से
संदर्भ में पढ़ें४८२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां प्रकाशः। जन्यत्वे चादृष्टत्वापत्तिः । द्व्यणुकासमवायिकारणसमानकालीनकृतिजन्यमिति वा साध्य- -मित्यपास्तम् । आद्ये, ज्ञानादिसिद्धावपि द्व्यणुकाजनकत्वादुदासीनसिद्धावप्रयोजकत्वात् । अन्त्ये, गौरवाद् द्व्यणुकासमानकालीनकृतित्वेनाजनकत्वात् । अपि च सामान्यज्ञानादिप्रत्यासत्तिजन्योपादान- ज्ञानादिमत्तार्थान्तरम् । न चानागतगोचर-प्रत्यक्षजनकप्रत्यासत्त्यजन्यं ज्ञानविशेषणम् । तादृशप्रत्या- सत्तेस्तज्जन्यत्वस्य च परं प्रत्यसिद्धेः ॥ अत्रोच्यते—अदृष्टाद्वारकोपादानगोचरजन्यकृत्यजन्यं समवेतं जन्यम्, अदृष्टप्रागभावव्याप्य- प्रागभावाप्रतियोग्युपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यम् समवेतत्वे सति प्रागभावप्रति- योगित्वात्, यदेवं तदेवं, यथा घटः, तथा चैतत्, तस्मात्तथा । एवञ्च शब्दफूत्कारादीनां पक्षत्वान्न प्रकाशिका । प्रागभावादिघटिता सामग्री नान्यत्र जनिकेति भावः । अदृष्टसामग्र्यार्थान्तरवारणाय प्रकारान्तरेण साध्यमाह द्व्यणुकेति । स्वासमवायिकारणसमानकालीनकृतिजन्यत्वं साध्यम्, अतो नोक्तार्था- न्तरतादवस्थ्यम् । तज्जन्यत्वस्येति । तथा च तदजन्यत्वस्याप्यप्रसिद्धिरिति भावः । पक्ष- समेऽपि सन्दिग्धानैकान्तिकमिति सम्प्रदायमतानुसारेण अनुगतं पक्षतावच्छेदकमाह अदृष्टाद्वार- केति । मृदङ्गादिगोचरकृतिजन्यशब्दादिसंग्रहायोपादानपदम्, तच्च स्वोपादानपरम्, अन्यथा तद- संग्रहात् । स्वोपादानगोचरजन्यकृतिजन्यान्यत्वं पक्षतावच्छेदकमतो न क्षित्याद्युपादानगोचरजन्य- कृत्यप्रसिद्ध्या तदप्रसिद्धिः । ऐहिकशरीरपुष्टिकामनया तीर्थस्नानाव्यभिचारेण पुष्टशरीरं जायते तन्नास्मदादिकर्त्तृकं शरीरान्तरवत् । तथा च प्रयागस्नानानुकूलशरीरावयवगोचरकृत्यादृष्टद्वारा जनिते पुष्टशरीरेऽव्याप्तिवारणायादृष्टाद्वारकेति । साध्ये चोपादानगोचरत्वे न जनकताविवक्षितेति न मृदङ्गगोचरकृत्यादिजन्यत्वमादाय शब्दांशतः सिद्धसाधनम् । स्वविषयसमवेतकार्यं प्रत्येव तथा जनकत्वात्, निरुक्ते पुष्टशरीरेऽशतःसिद्धसाधनवारणायादृष्टप्रागभावेत्यादिविशेषणमित्यन्यत्र मकरन्दः । सम्प्रदायमते उक्तसन्दिग्धानैकान्तिकभियाऽनुगतं पक्षतावच्छेदकमाह अदृष्टाद्वारकेति । तत्रोपादानपदं स्वोपादानपरम् । तथा च स्वोपादानगोचरजन्यकृतिजन्या घटादयः प्रसिद्धाः, तदन्यत्वं पक्षतावच्छेदकम् । एतेन उपादानपदं यदि यत्किञ्चिदुपादानपरं तदा अदृष्टद्वारकरूपा- द्युपादानमृदङ्गादिगोचरास्मदादिकृतिजन्यानां शब्दादीनां पक्षता न स्यात्, क्षित्याद्युपादानपरत्वेऽ- प्रसिद्धिरित्यपास्तम् । नन्वेवमदृष्टाद्वारकेति व्यर्थं अदृष्टद्वारककृतिमादाय प्रकृते दोषास्पर्शनादिति चेत् । अत्राहुः । कालीशरीरे यद् गौरं रूपमुत्पन्नं, तत् कालीशरीरगोचरतपश्चरणादिकृत्या जन्यते सा च कृतिरहष्टद्वारिका तद्रूपोपादानकालीशरीरगोचरा चेति तद्रूपेऽव्याप्तिवारणाय तद्विशेषणमिति । केचित्तु ऐहिकपुष्टशरीरकामनया कामनार्तीर्थस्नानानन्तरं चिराद् यदिहैव पुष्टं शरीरमुत्पद्यते, तन्न शरीरान्तरवदस्मदादिकर्तृकम् । तथा च प्रयागस्नानानुकूल-शरीरावयवगोचरकृत्याऽदृष्ट- द्वारा जनिते पुष्टशरीरेऽव्याप्तिवारणाय तदित्याहुः । साध्येऽप्युपादानगोचरत्वेन जनकता विवक्षिता, तेन मृदङ्गगोचरकृतिजन्यत्वमादायं न शब्दांशे सिद्धसाधनम् । एवञ्च कालीरूपाद्यंशे सिद्धसाधन- वारणाय तत्रादृष्टेत्यादिविशेषणमित्यवधेयम् । शेषं प्रपञ्चितमनुमानप्रकाशेऽनुसन्धेयम् । टिप्पणी । द्वारककृतिजन्यत्वं विवक्षणीयमिति भावः । प्रतियोग्युपादानगोचरेति । वीणादिगोचरकृति- -जन्ये-शब्दे त्वंशतः सिद्धसाधनवारणायोपादानेति । उपादानगोचरत्वेन जनकता विवक्षिता सा च स्वविषयसमवेतप्रत्येवेति शब्दे न तज्जन्यत्वप्रसङ्गः । पुष्टशरीरेऽशतः सिद्धसाधनवारणाया-