भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 522, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 522

न स्यात् । न हि विशेषोऽस्तीति सामान्यमप्रयोजकम् । तथा सति सौरभकटुत्व- नीलिमाऽदिविशेषे सति न धूमसामान्यमग्निङ्गमयेत् । किं नाम साधकसामान्ये साध्यसामान्यमाश्रित्य प्रवर्त्तमाने तद्विशेषः साध्यविशेषव्याप्तिमाश्रयेद् , न तु विशेषे सति सामान्यमकिञ्चित्करम् । तस्यापि विशेषान्तरापेक्षयाऽकिञ्चित्करत्व- प्रसङ्गात् । सौरभादिविशेषं विहायाऽपि धूमे वह्निर्द्दष्टो, न तु विशेषं विहाय कार्ये कर्त्तेति चेत् । न । कार्यविशेषः कारणविशेषे व्यवतिष्ठते, न तु कार्यकारणसामा- न्ययोः प्रतिबन्धमन्यथाकुर्यादिति । किं न दृष्टं कार्यं कारणमात्रे अङ्कुरो बीजे

प्रकाशः ।

त्वव्याप्यमित्यर्थः । तत्सामान्याऽनङ्गीकारेऽपि घटत्वादिकमेव कर्तृजन्यत्वे प्रयोजकम् , अग्नि- जन्यतायां धूमत्वादेरिवाननुगतस्यापि जन्यतावच्छेदकत्वादिति भावः । तथापि कार्यत्वसामान्यस्य कर्तृसामान्येन व्याप्तौ विशेषो नोपाधिः, न हि विशेषोऽस्तीति सामान्यमप्रयोजकम् , तथात्वे वाऽ- म्निजन्यत्वे धूमविशेषस्य प्रयोजकत्वान्न धूमसामान्यमग्निं गमयेत् , तस्माद् यद्विशेषयोः कार्यकारण- भावः, तत्सामान्ययोरपि बाधकं विना तथात्वनियम इत्याह न हीति ॥ नन्वग्निधूमसामान्ययो- र्व्याप्तौ धूमविशेषो नोपाधिः, प्रत्येकं साध्याव्याप्तेः । कर्तृकार्यसामान्ययोर्व्याप्तौ शरीरप्रयोज्यजा- तिर्न साध्याव्यापिकेत्याशयमविद्वान् शङ्कते सौरभादीति ॥ सा जातिर्न कर्तृमात्रप्रयोज्यतया कल्पिता, किन्तु शरीरप्रयोज्यतयेति तदभावाच्छरीरमेव कारणं निवर्त्तते, न कर्तृसामान्यम्, तस्यैव कार्यकारणभावप्रवृत्तौ कर्तृमात्रनिवृत्तावप्रयोजकत्वादिति परिहरति कार्यविशेष इति॥ शरीरकर्तृत्वानुमानञ्च घटत्वादिभिरेवोपपन्नमिति तज्जातौ मानाभावः । तेषाञ्च नोपाधित्वं, प्रत्येकं साध्याव्यापकत्वादिति भावः। नन्वत्र बाधकाभावादस्तु तथा, प्रकृते तु ज्ञानमनित्यमेवेत्यादिप्राथमिक-

प्रकाशिका ।

वच्छेदकैकजातिसिद्धिरित्यत आह तत्सामान्येति । तथा सति कर्तृजन्यत्वावच्छेदकमपि- तदेवेति कर्तृजन्यत्वमप्रयोजकमित्यर्थः । केचित्तु अस्तु तथा, तथापि तदेव शरीरजन्य- तावच्छेदकत्वेनानुगतीकृतं कर्तृजन्यत्वं उपाधिरित्यर्थः । कर्तृजन्यत्वे शरीरिकर्तृजन्यत्वे इति व्याचक्षते । आशयमविद्वानिति शङ्कत इति योजना । अप्रयोजकत्वादित्यनन्तर- माशयेनेति शेषः । तेषाञ्चेति । शरीरजन्यतावच्छेदकरूपवत्त्वञ्च नोपाधिः, शरीरविशे- षणान्तर्भावेण व्यर्थतया व्यापकत्वाग्रहात् लाघवेन जन्यत्वस्योभयसिद्धस्य कर्तृजन्यतावच्छेदक-

मकरन्द ।

तत्सामान्यानङ्गीकारे इति । न च घटत्वादीनां प्रत्येकं साध्यव्यापकत्वं, शरीरजन्यतावच्छेदक- रूपवस्त्वस्य विवक्षितत्वात् । तावदन्यतमत्त्वं तथेत्यप्याहुः। केचित्तु तदनङ्गीकारातस्तस्यानुपाधित्वेऽपि घटत्वादिकमेव कर्तृजन्यतावच्छेदकमस्तु न तु जन्यत्वमित्यप्रयोजकमेवास्त्विति तात्पर्यमित्याहुः । इत्याशयमविद्वानिति इति शङ्कते इत्यन्वयः । तेषाञ्चेति । घटत्वादीनामित्यर्थः । यद्यपि विवक्षितोपाधौ नाऽयं दोषः, तथापि यथाश्रुताभि-

टिप्पणी ।

कार्यस्य कर्तृजन्यतायामवच्छेदकं साध्यव्यापकत्वे सति साधनव्यापकत्वं च, तथा च शरीरजन्यता- वच्छेदककार्यनिष्ठधर्मविशेष एव कर्तृजन्यत्वव्याप्यो न कार्यमिति भावः ॥ तत्सामान्यानङ्गीका- रेऽपीति । क्लृप्तस्यावच्छेदकत्वसम्भव उफलाघवं कल्प्यविषयमकिञ्चित्करमित्याशयेनाह तदिति । तथा हि क्षित्यादिनिष्ठस्यैकस्य कार्यत्वाभावात् क्षितित्वस्य कर्तृजन्यतावच्छेदकत्वे ग्राहकाभावात् क्षितित्वावच्छिन्नकार्यत्वस्यापि कर्तृजन्यताव्याप्यत्वासम्भव इति भावः ॥ चक्षुर्व्यतिरिक्तप्रत्यक्ष-