न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 524, कुल 608 में से
संदर्भ में पढ़ें४६२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां धात् सिद्ध्यत्येव । अवश्यञ्चैतदेवमङ्गीकर्त्तव्यम् । अन्यथा कार्यत्वस्याकस्मिकत्व- प्रसङ्गात् ॥ स्यादेतत् । अन्वयव्यतिरेकि तावदिदं कार्यत्वमिति परमार्थः । तत्राकाशादे- र्विपक्षात् किं कर्तृव्यावृत्तेः कार्यत्वव्यावृत्तिराहोस्वित् कारणमात्रव्यावृत्तेरिति सन्दिह्यते । तदसत् । कर्तुरपि कारणत्वात् । कारणेषु चान्यतमव्यतिरेकस्यापि कार्यानुत्पत्तिं प्रति प्रयोजकत्वादन्यथा कारणत्वव्याघातात् । करणादिविशेष- प्रकाशः। अपि च शरीरजन्यत्वं हस्तादिजन्ये साध्याव्यापकम् । न च साक्षात्प्रयत्नाधिष्ठेयजन्यत्वं तदर्थः, साधनव्यापकत्वात्, परमाण्वादेस्तत्साक्षात्प्रयत्नाधिष्ठेयत्वात् । शरीरिकर्तृत्वमपि नोपाधिः । कार्यमात्रे कर्तुः शरीरसहकारित्वाभावात्, तस्य साध्यव्यापकत्वाऽनिश्चयात् ॥ ननु घटादौ कृतिसाध्यता शरीरव्यापारद्वारैव, न साक्षात् । न चाऽशरीरस्य तत्सम्भव इति तद्बाधात् कर्तुरपि बाध एव । शरीरव्यापारजन्यत्वं वोपाधिः । मैवम् । कार्यमात्रे हि तथा न कृति- साध्यता, क्षित्यादौ व्यभिचारात् । घटादौ च तथात्वेऽपि कार्यमात्रे कृतिमात्रस्य जनकत्वाविरोधात् । विशेषयोर्हेतुहेतुमद्भावे बाधकं विना सामान्ययोरपि तथात्वात् । न च चेष्टेतरकार्ये शरीरव्यापार- द्वारैव कृतेर्जनकत्वम्, क्षित्यादौ व्यभिचारात् किन्तु घटादावित्युकम् ॥ अत एव सहभावनिरूपकत्वे सति नियतपूर्ववर्त्तित्वं कारणत्वम् । न च कृतेः कार्यसहभावनि- रूपकत्वं, स्वतः कार्यकाले तदभावात्, तथा च तत्परिचायितव्यापारद्वारा तस्याः सहभावनिरूप- कत्वम् । अतः शरीरव्यापारद्वारैव कृतेर्जनकत्वं न तु केवलाया इत्यऽपास्तम् । कार्यमात्रे तथा- त्वाभावात् ॥ कार्यत्वसकर्तृकत्वव्याप्तौ विपक्षबाधकमाह अन्यथेति ॥ कारणान्तरस्येव कर्तुरप्यभावेन कार्याभावात् कर्त्रभावे कारणान्तरस्याऽप्यनुत्पादकत्वे कार्यमाकस्मिकं स्यादित्यर्थः । यदि व्यतिरेकसन्देहात् प्रकृते नानुमानं, तदा तादृशव्यतिरेकसन्देहश्च कार्यात् कारणविशे- षानुमानेष्वपि कर्तुं शक्यते इति तेषामप्यनुमानाभासत्वं स्यादिति शङ्कोत्तराभ्यामाह-स्यादेतदिति॥ प्रकाशिका। साधनव्यापकत्वादिति । नचादृष्टाद्वारकचेष्टाश्रयजन्यत्वमुपाधिश्चेष्टात्वञ्च जातिरिति वाच्यम् । विपक्षबाधकेनेत्यादिसमाधेरनुपदमेवोक्तत्वादिति भावः । ननु कारणान्तरसत्त्वे कथमाकस्मिकत्व- मित्यत आह कारणान्तरस्येति । कारणविशेषेति । उपादानाद्यनुमानेष्वपीत्यर्थः । संयोग- मकरन्दः। मनतिप्रयोजकं बोध्यम् । साधनव्यापकत्वादिति । ननु चेष्टाश्रयजन्यत्वमुपाधिरस्तु, तथा च नोक्तदोषः । न चादृष्टद्वारा क्षित्यादौ शरीरजन्यत्वादिदमपि साधनव्यापकमेवेति वाच्यम् । अदृष्टाद्वारकत्वस्यापि तद्विशेषणत्वादिति चेत् । न, विपक्षबाधकेन हेतोः साध्यव्याप्यतया तदव्याप- कत्वेनानुपाधित्वात् । ननु कारणान्तरसत्त्वे कथमाकस्मिकत्वमित्यत आह कारणान्तरस्येति । कारणविशेष उपादानादिः । शरीरव्यापारे शरीरानपेक्षत्वमसम्भवीत्यत आह स्वक्रियायामिति । टिप्पणी र्णायकतर्करहितत्वं साधन इव तदुभयवति न साध्यव्यापकतानिश्चयसम्भव इति भावः ॥ कारणा- न्तरस्यैवेति । यथा हि कारणान्तराभावात् कार्याभावो घटादिस्थले दृष्टः, तथा कर्त्रभावोऽपि स इति तुल्यत्वेऽपि क्षित्यादिस्थले तदुत्पत्तौय ?...॥ कार्यहेतौ संदिग्धव्यतिरेकत्वात्संदिग्वानैकान्तिकत्वमाशंकते स्यादेतदिति । संदिह्यत इति ।