न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 527, कुल 608 में से
संदर्भ में पढ़ेंपञ्चमस्तवके ] ईश्वरबाधकखण्डनम् । ४६५ याश्रयत्वम् ? । तन्न । तदवच्छिन्नप्रयत्नोत्पत्तौ तदवच्छिन्नज्ञानजननद्वारेणेन्द्रिया- णामुपयोगात् । अनवच्छिन्ने प्रयत्ने नायं विधिः । नित्यत्वात् । अत एव नाऽर्थाश्र- यत्वम् । न हि नित्यज्ञानं भोगरूपमभोगरूपं वा यत्नमपेक्षते तस्य कारणविशेष- त्वात् । न च नित्यसर्वज्ञस्य भोगसम्भावनाऽपि । विशेषादर्शनाभावे मिथ्याज्ञाना- नवकाशे दोषानुत्पत्तौ धर्माधर्मयोरसत्त्वात् ॥ तस्मात् साक्षात्प्रयत्नानधिष्ठेयत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति द्वयं साध्या- विशिष्टम् । अनिन्द्रियाश्रयत्वादभोगायतनत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति त्रय- मप्यन्यथासिद्धम् । अभोगायतनत्वादनिन्द्रियाश्रयोऽपि, भोक्तृकर्मानुपग्रहादभोगा- यतनमपि, स्पर्शवद्वेगवद्द्रव्यानुद्यत्वात्तदनपेक्षमपि स्यात् । अचेतनत्वाच्चेतनाधि- ष्ठितमपि स्यादिति को विरोधः ॥ प्रकाशः। अथेति । तथा च आपाद्यापादकयोर्भेद इत्यर्थः । तत्राप्रयोजकत्वमाह तदवच्छिन्नेति । साक्षात्प्र- यत्नाधिष्ठितत्वेऽपि तस्यैवेन्द्रियाश्रयत्वम् । यदवच्छिन्न आत्मनि प्रयत्नस्तदवच्छिन्नात्मनिष्ठज्ञाने- नेन्द्रियकार्येण भोगो जनयितव्यः । अकार्यो तु ज्ञानप्रयत्नाविनिन्द्रियाश्रयत्वं विनाऽपि स्यातामिति न विरोध इति मूलशैथिल्यमित्यर्थः । प्रयत्नोत्पत्ताविति, निमित्तसप्तमी । अत एवेति । सोपाधित्त्वेन मूलशैथिल्यादेवेत्यर्थः । उपाधिमाह न हीति । ज्ञानानित्यत्वमुपाधि- रित्यर्थः । न च नित्येति । यदवच्छिन्नात्मन्यर्था भोगं जनयन्ति तस्यार्थाश्रयत्वम् , नित्यज्ञा- नाश parse: नाशparse: नाशparse: नाश्रियस्य त्वीश्वरस्य भोगाभावान्न तदर्थं तदपेक्षेत्यर्थः । प्रसङ्गदूषणेनैव तदनुग्राह्यो हेतुरपि दूषित इत्याह तस्मादिति । शरीरत्वं यदि साक्षात्प्र- यत्नाधिष्ठेयत्वं, तदा शरीरेतरत्वं साक्षात्प्रयत्नानधिष्ठितत्वम् । तथा स्वव्यापारे शरीरानपेक्षत्वं साक्षात्प्रयत्नाऽधिष्ठेयानपेक्षत्वमेव, तथाच साध्याविशेष इत्यर्थः । यदि चेन्द्रियाऽऽश्रयत्वं भोगाश्रयत्वं वा शरीरत्वं, तदा शरीरेतरत्वादित्यस्यानिरिन्द्रियाश्रयत्वादभोगायतनत्वादित्यर्थः । स्वव्यापारे इन्द्रियाश्रयानपेक्षत्वाद्रोगायतानापेक्षत्वादिति वा द्वितीयहेत्वर्थः । तदेतत् सर्वमन्यथासिद्धमित्याह अनिन्द्रियाश्रयत्वादिति । अन्यथासिद्धिमेवाह अभोगायतनत्वादिति । ईश्वरे ह्यदृष्टा- भावेन भोगाभावात् परमाण्वादिर्भोगानवच्छेदकत्वेनानिन्द्रियाश्रयोऽपि स्यात्, स्पर्शवद्वेगवद्द्रव्या- प्रकाशिका । ज्ञानानित्यत्वमिति । अनित्यज्ञानवत्त्वमित्यर्थः । अर्थाश्रयत्वमर्थप्रयोज्यभोगाश्रयत्वमित्यर्थः। तथेति । स्वव्यापारे साक्षात्प्रयत्नाधिष्ठेयानपेक्षत्वमेव परम्परानधिष्ठेयत्वमिति साध्याविशेष इत्यर्थः। तदनपेक्षत्वादित्यत्र तच्छब्देनोभयपरामर्शाद्धेतुद्वयलाभ इत्याह स्वव्यापार इति । एवं च त्रयमिति मूलमग्रिमसाध्यहेत्वोस्तत्साध्यकत्वेनैकत्वं विवक्षित्वा समाधेयम् । वस्तुतस्तुष्टयमिति बोध्यम् । मकरन्दः । ज्ञानानित्यत्वमिति । अनित्यज्ञानवत्त्वमित्यर्थः । अर्थाश्रयत्वं = अर्थप्रयोज्यभोगाश्रयत्वमि- त्यर्थः । तथेति । स्वव्यापारे साक्षात्प्रयत्नाधिष्ठेयापेक्षत्वमेव परम्पराधिष्ठेयत्वमिति साध्याविशेष इत्यर्थः । यदवच्छिन्ने आत्मनि ऐन्द्रियकार्यज्ञानेन प्रयत्नो भोगश्च जनयितव्यस्तस्यैवेन्द्रियाश्रयत्व- मित्यर्थः । यद्यपि भोगान्तर्भावेन न मूलार्थस्तथापि तात्पर्यार्थोऽयमिति भावः । टिप्पणी । तज्ज्ञानमुपेयेत उभयथापि नित्यत्वान्न प्रयत्नमपेक्षते इत्यर्थः । कारणविशेष(रूप)त्वात्-तथा च तत्तत्कार्यनिरूपितमेव कारणं यत्नः स्यादित्यर्थः । अनुद्यत्वात्-प्रदर्शितद्रव्येण नोदनाख्यसंयोगाभा-