भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 530, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 530

कुर्वन्तश्चक्रादिकं नेष्टामहे। हेतुभूता कारकबुद्धिर्निवर्त्तते इति चेन्न। अयतमान- स्यापि दुःखहेतुभूताया अपि तद्धेतुकण्टकस्पर्शबुद्धेरभावात्। चिकीर्षाहेतुभूतोऽ- नुभवो निवर्त्तते इति चेन्न। केनचिन्निमित्तेनाऽकुर्वतोऽपि चिकीर्षातद्धेतुबुद्धिसम्भ- वात्। अनपेक्षकृतिहेतुचिकीर्षाकारणं बुद्धिर्निवर्त्तते इति चेद्, न तर्हि बुद्धिमात्रम्। तथाचानित्यप्रयत्नहेतुकत्वप्रयुक्तं विशिष्टप्रयत्नचिकीर्षाहेतुबुद्धिमत्पूर्वकत्वमिति तन्निवृत्तौ तदेव निवर्त्ततां, न तु बुद्धिमत्पूर्वकत्वमात्रम् , तत्र तस्याप्रयोजकत्वा- दिति बुद्धिमत्पूर्वकत्वसाध्यपक्षे परीहारः। सकर्तृकमिति प्रयत्नप्रधानपक्षे शङ्कव नास्ति, तस्यैव तत्रोपाधित्वात्॥ एतेन शरीरसम्बन्धे बुद्धिगतकार्यत्ववद् बुद्धिसम्बन्धे प्रयत्नगतकार्यत्वमुपा-

प्रकाशः। इत्यर्थः। उदासीनबुद्धेरिति कर्मधारयः। दुःखहेत्विति। दुःखहेतुश्चासौ कण्टकस्पर्शश्चेति विग्रहः। तस्य बुद्धेरित्यर्थः। तत्रेति। बुद्धिमत्पूर्वकत्वे साध्ये । तस्य-अनित्यप्रयत्नस्य । प्रयोजकत्वे चोदासीनबुद्धेर्निवृ- त्तिप्रसङ्ग इति भावः। तदनेन प्रबन्धेन यो बुद्धिमत्पूर्वकमिति साध्यं प्रतिजानीते, तदनुकूलतया परिहृतम्। यदा तु सकर्तृकमिति प्रधानीभूतकृतिविषयाप्रधानीभूतबुद्धिमत्पूर्वकत्वं प्रतिज्ञायते, तदानीमनित्यप्रत्नस्योपाधित्वशङ्काऽपि नास्तीत्याह बुद्धिमदिति। ननु प्रधानीभूतकृतिपूर्वकत्वसाध्यपक्षे बुद्धिरप्रधानीभूता कुतः सिद्ध्येत्? न हि यत्नात्त- त्सिद्धिः, शरीरसम्बन्धे ज्ञानगतकार्यत्ववद् बुद्धिसम्बन्धेऽपि प्रयत्नगतकार्यत्वस्योपाधेः सुवच- त्वात्, तथा च कृतिमात्रशाली कर्त्ता प्राप्त इत्यत आह— एतेनेति। प्रयत्ननित्यत्वस्यानुपाधित्वेनेत्यर्थः। कार्यत्वादेकैकजन्यत्वं सिद्ध्येत् त्रित- येजन्यत्वमपि सिद्ध्यति। आर्थस्तु समाजः। अत एव—ज्ञानादित्रयव्यतिरेकान्न कार्यव्यतिरेकः, किन्त्वेकैकव्यतिरेकादिति व्यर्थविशेषणत्वेन विशिष्टव्यतिरेको न हेतुव्यतिरेकव्याप्य इति न हेतो-

प्रकाशिका। मुक्तमिति तदर्थत्वे प्रयत्नाभावान्नोन स्यादिति प्रयत्नजनकपरेण उदासीनपदेन कर्मधारयसमासात्तदर्थ- लाभः स्यादित्यभिप्रेत्याह कर्मधारय इति। कर्मधारये बुद्धेर्हेतुत्वं पृथगेवोक्तमिति विषयस्य कार- कत्वलाभायाह दुःखहेतुश्चासाविति। तदानीमनित्येति। यद्यपि विशिष्टाविशिष्टभेदाद्युपाध्युपा- धिमद्भावः संभवत्येव, तथापि व्याप्यव्यापककोटौ निवेशयत एव प्रमाणस्य व्याप्तिग्राहकत्वमिति मते विशिष्टस्य व्यापकताग्रहानुपपत्तेरुपाधित्वाभाव इति भावः। वस्तुतो हेतौ विपक्षबाधकादेव नायमुपाधिरिति स्मर्त्तव्यम्। प्रयत्ननित्यत्वस्येति। तथा च प्रयत्नादेव बुद्धिसिद्धिरिति भावः।

मकरन्दः। नन्वूदासीनो निष्प्रयत्न इत्यनर्थान्तरम्, तथा च प्रयत्नाभावेऽपीति व्यर्थमत आह कारणा- नीति। प्रयत्नाभावलाभार्थमाह उदासीनबुद्धेरिति। पूर्वोक्तव्याख्यानेन तदलभेऽपि प्रयत्नाजन- कबुद्धेरिति कर्मधारयात्तदर्थपर्यवसाने तल्लाभ इत्यर्थः। पौनरुक्त्यभ्रमं निवारयति दुःखहेतुश्चेति। एतच्च कारकत्वद्योतनार्थम्। यदा त्विति। यदि कृतिजन्यत्वमेव साध्यमित्यर्थः। एवञ्च बुद्धि- मत्पूर्वकत्वस्याप्राधान्यमनुपादानमेवेति बोध्यम्। यद्यपि विशिष्टाविशिष्टभेदादुपोधित्वं सम्भवति, तथापि व्याप्यं व्यापककोटावनिवेशयत एव व्याप्तिग्राहकत्वमिति मते साध्यव्यापकत्वाग्रहादुपाधित्व- मिति भावः। वस्तुतो हेतौ विपक्षबाधकसंभवादत्र न तदभावान्न तथात्वमिति। प्रयत्ननित्यत्वस्येति। तथा च प्रयत्नादेव बुद्धिसिद्धिरिति भावः। वस्तुतस्तु समूहालम्ब-