न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 530, कुल 608 में से
संदर्भ में पढ़ेंकुर्वन्तश्चक्रादिकं नेष्टामहे। हेतुभूता कारकबुद्धिर्निवर्त्तते इति चेन्न। अयतमान- स्यापि दुःखहेतुभूताया अपि तद्धेतुकण्टकस्पर्शबुद्धेरभावात्। चिकीर्षाहेतुभूतोऽ- नुभवो निवर्त्तते इति चेन्न। केनचिन्निमित्तेनाऽकुर्वतोऽपि चिकीर्षातद्धेतुबुद्धिसम्भ- वात्। अनपेक्षकृतिहेतुचिकीर्षाकारणं बुद्धिर्निवर्त्तते इति चेद्, न तर्हि बुद्धिमात्रम्। तथाचानित्यप्रयत्नहेतुकत्वप्रयुक्तं विशिष्टप्रयत्नचिकीर्षाहेतुबुद्धिमत्पूर्वकत्वमिति तन्निवृत्तौ तदेव निवर्त्ततां, न तु बुद्धिमत्पूर्वकत्वमात्रम् , तत्र तस्याप्रयोजकत्वा- दिति बुद्धिमत्पूर्वकत्वसाध्यपक्षे परीहारः। सकर्तृकमिति प्रयत्नप्रधानपक्षे शङ्कव नास्ति, तस्यैव तत्रोपाधित्वात्॥ एतेन शरीरसम्बन्धे बुद्धिगतकार्यत्ववद् बुद्धिसम्बन्धे प्रयत्नगतकार्यत्वमुपा-
प्रकाशः। इत्यर्थः। उदासीनबुद्धेरिति कर्मधारयः। दुःखहेत्विति। दुःखहेतुश्चासौ कण्टकस्पर्शश्चेति विग्रहः। तस्य बुद्धेरित्यर्थः। तत्रेति। बुद्धिमत्पूर्वकत्वे साध्ये । तस्य-अनित्यप्रयत्नस्य । प्रयोजकत्वे चोदासीनबुद्धेर्निवृ- त्तिप्रसङ्ग इति भावः। तदनेन प्रबन्धेन यो बुद्धिमत्पूर्वकमिति साध्यं प्रतिजानीते, तदनुकूलतया परिहृतम्। यदा तु सकर्तृकमिति प्रधानीभूतकृतिविषयाप्रधानीभूतबुद्धिमत्पूर्वकत्वं प्रतिज्ञायते, तदानीमनित्यप्रत्नस्योपाधित्वशङ्काऽपि नास्तीत्याह बुद्धिमदिति। ननु प्रधानीभूतकृतिपूर्वकत्वसाध्यपक्षे बुद्धिरप्रधानीभूता कुतः सिद्ध्येत्? न हि यत्नात्त- त्सिद्धिः, शरीरसम्बन्धे ज्ञानगतकार्यत्ववद् बुद्धिसम्बन्धेऽपि प्रयत्नगतकार्यत्वस्योपाधेः सुवच- त्वात्, तथा च कृतिमात्रशाली कर्त्ता प्राप्त इत्यत आह— एतेनेति। प्रयत्ननित्यत्वस्यानुपाधित्वेनेत्यर्थः। कार्यत्वादेकैकजन्यत्वं सिद्ध्येत् त्रित- येजन्यत्वमपि सिद्ध्यति। आर्थस्तु समाजः। अत एव—ज्ञानादित्रयव्यतिरेकान्न कार्यव्यतिरेकः, किन्त्वेकैकव्यतिरेकादिति व्यर्थविशेषणत्वेन विशिष्टव्यतिरेको न हेतुव्यतिरेकव्याप्य इति न हेतो-
प्रकाशिका। मुक्तमिति तदर्थत्वे प्रयत्नाभावान्नोन स्यादिति प्रयत्नजनकपरेण उदासीनपदेन कर्मधारयसमासात्तदर्थ- लाभः स्यादित्यभिप्रेत्याह कर्मधारय इति। कर्मधारये बुद्धेर्हेतुत्वं पृथगेवोक्तमिति विषयस्य कार- कत्वलाभायाह दुःखहेतुश्चासाविति। तदानीमनित्येति। यद्यपि विशिष्टाविशिष्टभेदाद्युपाध्युपा- धिमद्भावः संभवत्येव, तथापि व्याप्यव्यापककोटौ निवेशयत एव प्रमाणस्य व्याप्तिग्राहकत्वमिति मते विशिष्टस्य व्यापकताग्रहानुपपत्तेरुपाधित्वाभाव इति भावः। वस्तुतो हेतौ विपक्षबाधकादेव नायमुपाधिरिति स्मर्त्तव्यम्। प्रयत्ननित्यत्वस्येति। तथा च प्रयत्नादेव बुद्धिसिद्धिरिति भावः।
मकरन्दः। नन्वूदासीनो निष्प्रयत्न इत्यनर्थान्तरम्, तथा च प्रयत्नाभावेऽपीति व्यर्थमत आह कारणा- नीति। प्रयत्नाभावलाभार्थमाह उदासीनबुद्धेरिति। पूर्वोक्तव्याख्यानेन तदलभेऽपि प्रयत्नाजन- कबुद्धेरिति कर्मधारयात्तदर्थपर्यवसाने तल्लाभ इत्यर्थः। पौनरुक्त्यभ्रमं निवारयति दुःखहेतुश्चेति। एतच्च कारकत्वद्योतनार्थम्। यदा त्विति। यदि कृतिजन्यत्वमेव साध्यमित्यर्थः। एवञ्च बुद्धि- मत्पूर्वकत्वस्याप्राधान्यमनुपादानमेवेति बोध्यम्। यद्यपि विशिष्टाविशिष्टभेदादुपोधित्वं सम्भवति, तथापि व्याप्यं व्यापककोटावनिवेशयत एव व्याप्तिग्राहकत्वमिति मते साध्यव्यापकत्वाग्रहादुपाधित्व- मिति भावः। वस्तुतो हेतौ विपक्षबाधकसंभवादत्र न तदभावान्न तथात्वमिति। प्रयत्ननित्यत्वस्येति। तथा च प्रयत्नादेव बुद्धिसिद्धिरिति भावः। वस्तुतस्तु समूहालम्ब-