न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 559, कुल 608 में से
संदर्भ में पढ़ेंपंचमस्तवके ] ईश्वरसाधनम् । ५२७ स हि न स्पन्द एव, आत्मानमनुपश्येदित्याद्यन्वयातेः । ग्रामं गच्छतीत्याद्याव- तिव्याप्तेश्च । नाऽपि तत्कारणं प्रयत्नः । तस्य सर्वाख्यातसाधारणत्वात् । ननु न सर्वत्र प्रयत्न एव प्रत्ययार्थः । करोतीत्यादौ प्रकृत्यर्थातिरेकिणस्त- स्याभावात् । संख्यामात्राभिधानेन प्रत्ययस्य चरितार्थत्वात् । ततो लिङादि- वाच्य एव प्रयत्न इति । न, कुर्यादित्यत्रापि तुल्यत्वात् । प्रयत्नमात्रस्य प्रकृत्यर्थ- त्वेऽपि तस्य पराङ्गताऽऽपन्नस्य प्रत्ययार्थत्वान्न तुल्यत्वमिति चेत् । न, तथापि तुल्यत्वात् । न चैकस्य तद्वाचकत्वेऽन्यस्य तद्विपर्यय आपद्येत । एको द्वौ बहव एषिपतीत्यादौ व्यभिचारात् । तत्र द्वितीयसंख्येच्छादिकल्पने करोति प्रयतते
प्रकाशः । विनाऽपीच्छोत्पत्तेश्चेत्याह प्रत्ययेति । उपायगोचरप्रवृत्ताविष्टसाधनत्वज्ञानस्य हेतुत्वनिश्चयात् तत्स- ङ्कीर्णेच्छायाः प्रवर्त्तकत्वे लाघवादिष्टसाधनतैव विधिरित्याह सङ्करादिति । करोतीत्यत्र यत्नस्य कृधातुनैवोक्तत्वादाख्यातमात्रस्य यत्नार्थत्वे पौनरुक्त्यं स्यादिति नाख्या- तमात्रं यत्नमभिधत्ते, किन्तु लिङेवेत्याह नन्विति । ननु यदि प्रकृत्यर्थातिरिक्तो नाख्यातार्थः, तदा तत्प्रयोगो व्यर्थ इत्यत आह संख्येति । एकत्वादिसंख्यामात्रमाख्यातार्थः, तत्प्रत्यायनार्थमेव तत्प्रयोग इत्यर्थः । तर्हि लिङपि न यत्नार्थः, कुर्यादित्यत्र पौनरुक्त्यापत्तेः । अथाख्यातात् कृतेरुप- स्थितावपि तात्पर्याभावात् सा नान्वीयते, किन्तु संख्यामात्रम्, तर्हि करोतीत्यादावपि तुल्यमित्याह कुर्यादित्यत्रेति । यदि कुर्यादित्यत्र यत्नमात्रं कृधात्वर्थः, तस्य च चैत्रादिसमन्वितत्वमनुकूलत्वं वा प्रत्ययार्थ इति विशेषः, तदा करोतीत्यादावपि तुल्यमिति शब्दोत्तराभ्यामाह प्रयत्नमात्रस्येति । अपि च कृतेर्धात्वर्थत्वेऽपि प्रत्ययस्य तदर्थत्वं न दोषाय, प्रकृतिप्रत्यययोरन्यत्र समानार्थ- त्वदर्शनादित्याह न चेति । एकस्य प्रकृतिरूपस्य, अन्यस्य प्रत्ययरूपस्य, तद्विपर्ययस्तद्वाचक- त्वमित्यर्थः । अर्थैक इत्यादौ प्रकृत्यर्थातिरिक्तं द्वितीयमेकत्वादिकम् , एषिषतीत्यत्रापरेच्छा प्रत्य- यार्थः, तदा करोतीत्यत्र यत्नान्तरमेवाख्यातार्थ इत्यस्त्वित्याह तत्रेति । ननु द्वितीयसंख्येच्छा य-
प्रकाशिका । धर्म्मो वेति मूलम् । वक्तुरभिप्राय इत्यर्थः । तत्र न प्रथम इति मूलं कर्त्तृधर्म्मो वेत्यनेनैव कारिकाभागेन यद्यपि गतार्थं तथाप्यस्य प्रतिज्ञात्वं कारिकाभागस्य चोपसंहारत्वमिति मन्तव्यम् । यद्वा स्पन्दादौ कर्त्तृधर्म्मो न प्रथम इत्येवंपरत्वेन कारिकोत्तरं योजनीयम् । इष्टहानेरित्यादिमूलम् । स्पन्दस्य विधित्वेऽव्याप्तिरात्मानं पश्येदित्यत्रातिव्याप्तिश्च, ग्रामंगच्छतीत्यत्र यत्नस्य विधित्वे ग्रामं गच्छेदित्यत्र यत्नप्रतीत्यावश्यप्रवृत्तिः, इच्छाया विधित्वे इच्छाया इवेच्छाजनकत्वे विरोधो, लिङश्रुतिक्राले तस्या असत्त्वन्न लिङ्वेच्छाजनने प्रत्ययत्यागोऽन्यत्र प्रतीतकारणत्यागः, इच्छादिज्ञानस्य चेच्छादिजनकत्वे यागचिकीर्षावानित्पतोऽपि प्रवृत्त्यापत्तिरित्यप्रवृत्तिरेव दूषणम् । इष्टसाधनतासहितेच्छाया विधित्वे
मकरन्दः । तत्र न प्रथम इति मूलं कर्त्तृधर्म्मो नेति कारिकया गतार्थमिति यद्यपि, तथापि स्पन्दादित्रिके प्रथमः स्पन्दो नेत्यर्थः । उपसंहारश्च कर्त्तृधर्म्मो नेत्येके ।
टिप्पणी मन्येत तदा तद्व्यतिरेकेऽपि लिङादिरिच्छां जनयेदतो व्यतिरेकव्यभिचारः स्यात्, ततश्च प्रत्ययस्य इष्टसाधनताज्ञानस्य कारणत्वं परित्यज्येतातो नेच्छापि विध्यर्थः किंतु संकरात् दृष्टसाधनाज्ञान- संकीर्णेच्छाया उपायगोचरप्रवृत्तौ कारणत्वात् इष्टसाधनतैव विध्यर्थ इत्यर्थः ॥