न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 561, कुल 608 में से
संदर्भ में पढ़ेंपंचमस्तबके ] ईश्वरसाधनम् । ५२६ ल्पनायां कल्पनागौरवं स्यात्, अतो विवरणमपि तावन्मात्रपरमिति चेत् । भवे- दप्येवं, यदि पाकेनेति विवृणुयात्, न त्वेतदस्ति । धात्वर्थस्यैव पाकमिति साध्यत्वेन निर्देशात् । ततस्तं प्रत्येव किञ्चिदनुकूलताऽऽपन्नं प्रत्ययेनाभिधानीय- मिति युक्तम् । तथापि तेन प्रयत्ननैव भवितव्यं, न त्वन्येनेति कुत इति चेत् । नियमेन तथा विवरणात् । बाधकं विना तस्यान्यथाकर्तुमशक्यत्वात् । अन्यथाऽतिप्रसङ्गात् ॥८॥ स्यादेतत्, यस्य कस्यचित् फलं प्रत्यनुकूलताऽऽपत्तिमात्रमेव करोत्यर्थः, न तु प्रयत्न एव, सोऽपि ज्ञानेनैवोपाधिना प्रत्ययेन वक्तव्यो, न तु यत्नत्वमात्रेण, प्रयत्नपदेनाविशेषप्रसङ्गात्, तद्वरं तावन्मात्रमेवास्तु लाघवाय, अन्यथा त्वनु- कूलत्वप्रयत्नत्वे द्वावुपाधी कल्पनीयौ, अचेतनेषु सर्वत्र गौणार्थास्तिष्ठोऽसति बाधके कल्पनीया इति चेत् । अत्रोच्यते— प्रकाशः । कत्वात्, कर्तृन्वयानुपपत्तेश्चेति परिहरति भवेदप्येवमिति । एवमप्यनुकूलव्यापारमात्रमाख्या- तार्थोऽस्तु, न त्वनुकूलयत्नः, तथात्वे बाधकं विनैवाख्यातमचेतनेषु गौणं कल्प्यमिति गौरवमित्याह तथापीति । यत्नार्थकरोतिनाऽऽख्यानार्थस्य विवरणात् तस्य चाबाधितत्वात् प्रमाणवतो गौरवस्या- पि न्याय्यत्वादित्याह नियमेनेति ॥ ८ ॥ ननु करोतिर्न यत्नार्थः, किन्त्वनुकूलव्यापारमात्रार्थः, यत्नोऽप्यनुकूलत्वेनैवाख्यातार्थः । अन्यथा आख्यातार्थस्य यत्नपदपर्यायतापत्तेः । अत एव—यत्न एवाख्यातार्थः, आनुकूल्यन्त्वन्व- यलभ्यम्-इत्यपास्तम् । एवञ्च धात्वर्थस्य पाकादेः साध्यताऽप्युपपद्यते। न च धातुर्नैव स्वार्थः साध्य- त्वेनोच्यते इति वाच्यम् । पाक इत्यत्रापि तत्प्रतीत्यापत्तेः । यत्नस्य वाच्यत्वेन गौरवापत्तेः । मुख्ये बाधकं विनैव रथो गच्छतीत्यादावाख्यातस्य गौणत्वापाताच्चेत्याह—यस्य कस्यचिदिति । क्रियाजन्यत्वाविशेषेऽपि यत्नजन्यत्वाजन्यत्वप्रतिसन्धानेन घटाङ्कुरयोः कृताकृतव्यवहारात् तृजन्त- कृधातुव्युत्पन्नकर्तृपदस्य कृत्याश्रयवाचकत्वाच्च कृञो यत्नार्थत्वम् । क्रियामात्रार्थत्वे तु क्रियाऽऽश्रयः कर्तृपदार्थः स्यादिति कारकेमात्रेऽतिप्रसङ्गः । एवञ्च कृञो यत्नार्थत्वात् तेन चाख्यातविवरणात्तस्यापि प्रकाशिका । कर्तृन्वयानुपपत्तेश्चेति । चैत्र ओदनं पचतीत्यत्रेति शेषः ॥ ८ ॥ परिमलस्तु तथापि पाकसिद्धता प्रतीयेत, न तु साध्यतेति सिद्धताज्ञापकप्रयोगोपलक्षणपरं पाकेनेत्युक्तमिति । अत एवेति । यत्नपदपर्यायतापत्तेरेवेत्यर्थः । नन्वेत्रेष्टापत्तिरित्यत आह गौरवापत्तेरिति । यत्नत्वापेक्षया व्यापारत्वस्य सामान्यत्वादिति भावः । मकरन्दः । विवरणं न स्यादित्यत्रैव तात्पर्यम् । यद्वा एतदस्वरसादेव स्वयं हेत्वन्तरमाह कर्तृन्वयानुपपत्ते- श्चेति, चैत्र ओदनं पचतीति शेषः । परिमलस्तु एवं पाकस्य साध्यता न प्रतीयेत, किन्तु सिद्धता, ततः पाकसिद्धताज्ञापकप्रयोगोपलक्षणपरं पाकेनेत्युक्तमिति ॥ ८ ॥ अत एवेति । यत्नपदपर्यायतापत्तेरित्यर्थः । नन्वेष्टापत्तावपि न क्षतिरित्याशङ्कयाह गौरवापत्तेरिति । व्यापारस्य सामान्यतया लघुत्व- मित्यभिमानेनेदम् । ६७ न्या० कु०