न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 599, कुल 608 में से
संदर्भ में पढ़ेंपञ्चमस्तबके ] ईश्वरसाधनम् । ५६७ भावतदुद्देशप्रवृत्त्योरभावात् । नाप्यसुरामित्रादिवदस्य नञो विरोधिवचनत्वम्, क्रियासङ्गतत्वात् । असमस्तत्वाच्च ॥ १४ ॥ तस्माद्— विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः । अभिधेयोऽनुमेया तु कर्तुरिष्टाभ्युपायता ॥ १५ ॥ तत्र स्वयङ्कर्तृकक्रियेच्छाऽभिधानं कुर्यामिति । सम्बोध्यकर्तृकक्रियेच्छाऽ- भिधानं कुर्या इति । शेषकर्तृकक्रियेच्छाऽभिधानं कुर्वीतेति । तथाचाग्निकामो दारुणी मथ्नीयादित्यस्य लौकिकवाक्यस्यायमर्थः सम्पद्यते अग्निकामस्य दारु- मथने प्रवृत्तिर्ममेष्टेति । ततः श्रोताऽनुमिनोति–नूनं दारुमथनयत्नोऽग्नेरुपाय इति । यद्विषयो हि प्रयत्नो यस्यानेनेष्यते, स तस्यापेक्षितहेतुः । तथा तेनावगतश्च, यथा ममैव पुत्रादेर्भोजनविषय इति व्याप्तेः । विषं न भक्षयेदित्यस्य तु विषभक्षणगोचरा प्रवृत्तिर्मम नेष्टा इत्यर्थः । ततोऽपि श्रोताऽनुमिनोति-नूनं विषभक्षणभावना अनिष्टसाधनम् । यद्विषयो हि प्रयत्नः कर्तुरभिमतसाधकोऽप्याप्तेन नेष्यते, स ततोऽधिकतरानर्थहेतुः, तथा तेनावगतश्च, यथा ममैव पुत्रादेः क्रीडाकर्द्दमविषभक्षणादिविषय इति व्याप्तेः । प्रकाशः । तथाऽनेष्टसाधनविरोध्यनिष्टसाधनमर्थः स्यादित्यत आह नापीति । क्रियासङ्गतस्य नञः प्रसज्यप्र- तिषेधवाचकत्वात् समास एव तस्य पर्युदासवृत्त्या तदितरविरोधिपरत्वादित्यर्थः । नियोक्तृधर्मो वेत्यभिमतं पक्षमुपसंहरति— विधिरिति । प्रवृत्त्यादावित्यादिपदान्निवृत्तिः । विषयसप्तमीयम् । तेन प्रवृत्तिनिवृत्तिविषय आप्ताभिप्रायो लिङर्थ इत्यर्थः । प्रवर्त्तकमिष्टसाधनताज्ञानमेव लिङर्थस्तवाप्ताभिप्रायो लाघवादिति भावः । वक्तुरभिप्रायस्य विधित्वे कुर्यामित्यादावर्थभेदमानुभविकमुपपादयति तत्रेति । स्वर्गकामो यजेतेत्यस्य स्वर्गकामकृतिसाध्यतया यागो यागयत्नो वा आप्तेष्ट इत्यर्थः । ततो यो व्यापारो यस्य कृतिसाध्यतया यद्व्यापारविषयः प्रयत्नो वा यस्यानेनेष्यते, स तस्य बलवद- निष्टाननुबन्धीष्टसाधनमिति व्याप्तिग्रहाद् यागस्येष्टसाधनत्वमनुमिनोति । तथाहि–यागो मदिष्टसाधनं मत्प्रयत्नविषयतया मदाप्तेष्यमाणत्वात्, यथा मत्पित्रा मत्प्रयत्नविषयतया इष्यमाणं भोजनं मदिष्ट- प्रकाशिका । इष्टसाधनत्वस्य वाऽभावः प्रतिपादयितुं शक्यत इत्यादिकमित्यर्थः। समास एवेति। यद्यपि न घटः पट इत्यादौ व्यासेऽपि पर्युदासवृत्त्या प्रयोगो दृष्टः, तथापि विरोधिवाचकत्वं समास एव, अत एवोक्तं- तदितरविरोधिपरत्वादिति । विधिर्वक्तुरित्यादिकारिकायां वक्तुरभिप्रायो विधिरभिधेय इति योजना । लाघवादिति । न चाप्तस्य विशेषणीभूतस्य शक्यत्वे विपरीतं गौरवमिति वाच्यम् । वस्तुत आप्तस्य योऽभिप्रायस्तस्याभिधेयत्वेन शक्यत्वमित्याशयात् । स्वर्गकामकृतिसाध्य- तयेति । आख्यातार्थकृतावेव लिङर्थान्वयो धात्वर्थे वेति मतभेदेन विकल्पः । इष्टसाधनत्वविधिपक्षेतोऽ मकरन्दः । समास एवेति । यद्यपि न घटः पट इत्यादौ व्यासेऽपि पर्युदासवृत्त्या तदितरपरत्वमस्त्येव, तथापि शब्दप्रकाशोक्तमनुसन्धेयम् । यागो मदिष्टसाधनमित्यनुमानं शब्दप्रकाशे विवक्षितमनुसन्धेयम्। टिप्पणी । विधिरित्यादि । नन्वेवमिष्टसाधनताज्ञानात् यागादौ कथं प्रवृत्तिरत आह अनुमेयेति । इष्टेति । द्विष्टसाधनत्वमप्येतदुपलक्षयति न कलञ्जं भक्षयेदित्यादिनिषेधवाक्यात् कलञ्जभक्षणे आप्ताभिप्रायविषयत्वाभावावगमे द्विष्टसाधनत्वस्यानुमानात् ।