न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 61, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] न्यायाङ्गसंशयबीजविप्रतिपत्तिप्रदर्शनम् । २६ तदिह सङ्क्षेपतः पञ्चतयी विप्रतिपत्तिः । अलौकिकस्य परलोकसाधनस्या- बोधनी । ननु प्रमाणायत्तं मननं, प्रमाणं त्वीश्वरविषयं तत्तदादिविप्रतिपत्तिदूषितं कथं मननसाधनमि- त्याशङ्कां निरसितुं परिच्छेदपञ्चकनिराकरणीया विप्रतिपत्तीस्तावद्दर्शयति-तदिहेति । तदिति वाक्योपक्रमे, प्रकरणाद्यारभ्यत्वादिति हेतौ वा । इह-प्रकरणे, जगत्कर्त्तरि, तद्विषये प्रमाणयुगले वा । निरस्यत इति शेषः । तत्र परमनास्तिकचार्वाकविप्रतिपत्तिं प्रथममाह-अलौकिकस्येति । अयमाशयः-अलौकिकहेतुसिद्धौ तस्य साधनानुमानायत्तसिद्धित्वात् , तदनुमानस्य च ज्ञानमन्तरे- णानुपपत्तेस्तस्य चास्मदादीनामसम्भवादुपदेशमूलेन भवितव्यम् ; उपदेशश्च न विशिष्टमुपदेष्टारं विनेति लोकोत्तरः कल्प्येतापि न त्वेवं सम्भवति, अलौकिकस्य परलोकसाधनस्यैवाभावात् तद्- प्रकाशः । यक्न्यायप्रवृत्तिहेतुरित्यास्थेयमिति विभावयंस्तत्कारणं विशेषविप्रतिपत्तिमादर्शयति— तदिहेति । तदिति वाक्योपक्रमे । संक्षेपोऽवान्तरविप्रतिपत्त्यविवक्षा । विरुद्धा प्रतिपत्ति- र्ज्ञानमभिलापो वा विप्रतिपत्तिः । विप्रतिपत्तौ विषयिण्यां विषयस्य प्रयोजकत्वं विवक्षित्वा पञ्चमी- निर्देशः । तत्राऽलौकिके तावत् , साक्षात्कारकारणेन्द्रियसन्निकर्षाश्रयत्वं प्रमेयत्वव्यापकं न वा ? इन्द्रियस्य तु न सन्निकर्षाश्रयत्वं, किन्तु प्रतियोगित्वमिति न विप्रतिपत्तिः । य एव चक्षुषा रूप- प्रकाशिका । संशय इति विरोधादिति । धिंघञ्चित्वेति । शब्दात्मकविप्रतिपत्तौ विषयस्याहेतुत्वादिति भावः । वस्तुतो ल्यब्लोपे पञ्चमी अभावं प्राप्य ज्ञात्वा विप्रतिपत्तिरिति मूलव्याख्या । यदपेक्षया संक्षेपस्त- माह साक्षादिति । इन्द्रियसन्निकर्षाश्रयत्वमलौकिकेऽपीति साक्षात्कारकारणत्वं विशेषणम् , शरी- रप्राणसंयोगस्य साक्षात्कारकारणतया प्राणेऽतिप्रसङ्ग इति तद्वारणायेन्द्रियपदम् , न च गर्भोत्पन्नविनष्टे व्यभिचारः, तन्मते प्रमाणान्तराभावेन सति प्रमेयत्वे साक्षात्कारविषयत्वात् । सन्निकर्षे च लौकिकत्वं विशेषणं तच्च संयोगाद्यन्यतमत्वाश्रयत्वम् । न च व्यावत्र्त्याप्रसिद्धिः पक्षे उपरजकस्यापि स्वीकारात् । अभिधेयत्वघटत्वयोश्च विधिनिषेधप्रसिद्धिः । ननु चक्षुर्घटसंयोगमादाय घट इव तादृशसंयोगाश्रयत्वं चक्षुषोऽपीत्यत आह इन्द्रियस्येति । इन्द्रियविशिष्टसंयोगाश्रयत्वं नेन्द्रिये अंशत आत्माश्रयात् , तच्चात्र विवक्षितमिति भावः । य एवेति । यथाश्रुते दूषणमिदम् । यदा तु स्वसाक्षात्कारकारणेति मकरन्दः । न तु तद्विना मननासम्भव एवेति तात्पर्यम् । प्रयोजकत्वमिति । शब्दात्मकविप्रतिपत्तौ विषयस्य हेतुत्वाभावादिति भावः । यस्या अविवक्षा तामवान्तरविप्रतिपत्तिमाह । साक्षादिति । अलौकिकपरमाण्वादावतिप्रसक्तिर्व्यतिरेके च बाध इत्यत उक्तं साक्षात्कारकारणेति । संयो- गाद्यन्यतमप्रत्यासत्तिजन्यसाक्षात्कारकारणेत्यर्थः । न च तन्मते व्यावत्र्त्याप्रसिद्धिः । पक्षे उपरज- कस्यापि दानात् । अत एव साक्षात्कारत्वपर्य्यन्तमपि तज्जातित्वे वैयर्थ्यमपि नेति ध्येयम् । न च गर्भर्वार्तनष्टे व्यभिचारादिदमुक्तमिति वाच्यम् । तन्मते प्रमाविषयत्वस्याप्यभावात् । भावे वाऽवश्यमिन्द्रियसन्निकृष्टत्वम् । प्रमाणान्तरात्तदसम्भवात् । योग्यतापरत्वे वा सन्निकर्षत्वे- ऽपि तथेति भावः । विधिनिषेधकोटिप्रसिद्धिः, अभिधेयत्वघटत्वयोः सुलभेति । ननु घटसाक्षा- त्कारकारणघटचक्षुःसंयोगरूपसन्निकर्षाश्रयपं चक्षुष्यपि, न च तल्लौकिकमित्यत आह । इन्द्रि- यस्येति । यद्यपि संयोगस्य द्विष्ठत्वादिदमुक्तं, तथापि नेन्द्रियविशिष्टसन्निकर्षाश्रयत्वमिन्द्रियस्य अंशत आत्माश्रयात् , किन्तु तदुपलक्षितसन्निकर्षाश्रयत्वम् । तदिदमुक्तं, किन्तु प्रतियोगि- त्वमिति । तत्र तत्प्रतियोगिकसन्निकर्षाश्रयत्वेऽपि तस्योपलक्षणत्वमित्यर्थः । य एवेति । एतच्च