न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 64, कुल 608 में से
संदर्भ में पढ़ें३२ व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कायत्तरणिकाव्याख्यायां प्रकाशिका। तस्य च संसारिण इत्यर्थो व्याख्यात एव । अस्मदादिज्ञानमादाय पुनस्तदेव सिद्धसा- धनमतः प्रयत्नकारणेति । तस्य च साक्षात्प्रयत्नकारणेत्यर्थः । तेन ज्ञानस्यापि प्रयत्नका- रणतया न पूर्वोक्तसिद्धसाधनप्रसङ्गः । न च साक्षात् कारणत्वं यदि व्यक्तेस्तदा फलेच्छा- द्वेषयोरपि उपायेच्छाद्वेषद्वारा जनकत्वमिति विवक्षितार्थलाभः, तज्जातीयस्य यदि तदा पूर्वोक्त सिद्धसाधनमेव उपादानप्रत्यक्षस्य साक्षाज्जनकत्वात्तज्जातीयत्वाज् ज्ञानस्येति वाच्यम् । फलेच्छायाः स्वरूपसत्त्या एव साक्षात् प्रयत्नहेतुत्वेन व्यक्तिपक्षस्यैवादुष्टत्वात् । न च फलेच्छायाः प्रयत्नकारणत्व- मेव न, कारणत्वेऽपि न साक्षाज्जनकत्वं मानाभावादिति वाच्यम् । फलेच्छोत्कट्येन प्रयत्नौत्कट्यात्तस्याः कारणत्वे चिकीर्षां प्रति च फलचिकीर्षायामेव व्यभिचारेणाकारणत्वेऽर्थतः साक्षात्कारणत्वात् । न च फलेच्छोपायेच्छोपादानप्रत्यक्षाणां युगपदसम्भवान्नेदं युक्तमिति वाच्यम् । प्रथमेच्छाया नाशेऽपि चिकीर्षाया एव समूहालम्बनात्मिकायाः फलेच्छात्वात् । न च यद्विषयकत्वेन प्रयत्नकारणत्वं स एव प्रकृते विषयपदार्थः, अन्यथा उपादानप्रत्यक्षस्यापि दैवादुपनीतप्रत्यक्षज्ञानविषयत्वात् तज्जनक- निर्विकल्पकज्ञानमादाय सिद्धसाधनात् , न च समूहालम्बनेच्छायाः फलविषयकत्वेन जनकत्वमिति वाच्यम् । प्रयत्नौत्कट्यानुरोधेन तद्विषयकत्वेनापि जनकत्वात् । यद्वा विजातीयव्यापारजनकजातीय- भिन्नत्वमेव वा साक्षाज्जनकत्वं ज्ञानन्तु विजातीयेच्छारूपव्यापारजनकजातीयमेव, न चेच्छाया अप्य- दृष्टद्वारा कार्यमात्रजनकतया विजातीयव्यापारजनकत्वमेवेति वाच्यम् । स्वविजातीयप्रत्यक्षसमा- नाधिकरणव्यापारजनकजातीयभिन्नत्वस्य विवक्षितत्वात् । निरुपधिपदन्तु इच्छासोपाधिविषय- कामिनीविशिष्टज्ञानजनननिर्विकल्पकमादाय सिद्धसाधनवारणाय । ननु तथापि निदिध्यासनजन्य- भावनामादाय सिद्धसाधनं तस्यास्तत्त्वसाक्षात्कारद्वारा इच्छानिरुपधिविषयदुःखाभावरूपमोक्षहेतु- त्वात् । न च निदिध्यासनस्यादृष्टमेव व्यापार इति वाच्यम् । दृष्टेनैवोपपत्तेः । न च तत्त्वसाक्षात्का- रस्य भावनाजन्यत्वे स्मृतित्वापत्तिरिति वाच्यम् । समानविषयकसंस्कारत्वेन जनकत्वे तथाभावात् अत्र चात्मविषयकभावनात्वेन हेतुत्वादिति चेत् । न । तत्त्वसाक्षात्कारस्यैव न मोक्षहेतुत्वम्, तत्त्व- ज्ञानादिति सूत्रे पञ्चम्याः प्रयोजकत्वपरतया टीकाकृता व्याख्यानात् । तज्जनकभावनायास्तु मोक्ष- हेतुत्वं दूरनिरस्तमेव । न च देवताप्रतिमादिदर्शनसामान्यस्यैव स्वर्गहेतुत्वश्रुतेस्तन्निर्विकल्पकमा- दाय सिद्धसाधनमिति वाच्यम् । प्रमेयत्वप्रकारकदर्शनमादायातिप्रसक्त्या विशेषप्रकारकत्वस्य वा- च्यत्वेन निर्विकल्पकस्य स्वर्गहेतुत्वात् । न चेश्वरज्ञानस्य सुखदुःखकारणतया तदादाय सिद्धसा- धनमिति वाच्यम् । द्वितीयात्मविशेषगुणपदस्यात्मविशेषस्य संसारिणो यो विशेषगुण इत्यर्थकत्वात् मध्यपदलोपिसमासात् । न च जीवनयोनियतमादाय सिद्धसाधनम् । तस्य जीवनमात्रहेतुत्वेन मकरन्दः । क्तवात्तस्य व्यर्थत्वाभावादखण्डाभावे वा न वैय्यर्थम् । लौकिकपदञ्चाप्रसिद्धिवारणार्थम् । अत्र प्रयत्नकारणं गुण ईश्वरज्ञानादिस्तन्निरुपधिविषयो विशिष्टप्रत्यक्षं तत्कारणमात्मविशेषगुणत्वं तादृश- निर्विकल्पके वर्त्तत एवेति सिद्धसाधनमत आह,.प्रथमात्मविशेषपदम् , आत्मविशेषस्य संसारा॑- त्मनो गुण इत्यर्थः । ज्ञानमादाय पूर्वोक्तसिद्धसाधनतादवस्थ्यादाह । प्रयत्नकारणेति । प्रयत्न- साक्षात्कारणेत्यर्थः । तेन न दोषतादवस्थ्यम् । · टिप्पणी । शिष्टज्ञानजनकनिर्विकल्पकत्वस्य लौकिकमानसप्रत्यक्षाविषयवृत्तित्वस्य सिद्धत्वात् सिद्धसाधनवारणाय संसारिगुणत्वमुक्तम् । संसारिगुणानुव्यवसायविषयविशिष्टज्ञानकारणनिर्विकल्पकत्वमादायसिद्धसाधन- वारणाय प्रयत्नकारणेति । फलेच्छोत्कट्येन प्रयत्नौत्कट्यानुभवात् फलेच्छायाः स्वातन्त्र्येणापि कार-