न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 82, कुल 608 में से
संदर्भ में पढ़ें४८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां प्रकाशः। स्यात्। यद्वा, सकलकालावृत्तिरयं घटो यदि निरपेक्षः स्यात् किञ्चित्कालावृत्तित्वे सति किञ्चित्का- लवृत्तिर्न स्यात् । तेन पक्षविशेषणमहिम्नाऽलीकत्वं सिद्ध्यति । यद्वा, एतावतकालपूर्वापरकाला- वृत्तिर्घटो यद्येतावत्कालपूर्वकालवृत्तित्वे सति एतत्कालाव्यवहितपूर्वकालवृत्तिपदार्थाधिकरणक्षणोत्तर- प्रकाशिका। त्वेनाप्युपपत्तेरन्यथा व्याख्या । तथाहि सर्वत्रोत्पत्तिपदं सत्तामात्रपरं नञ्व्यत्यास आपादके तेन पूर्वापरकालसत्तारहितोऽयं यद्येतदव्यवहितपूर्वकालोत्पत्तिसापेक्षसत्ताको न स्यादेतावत्कालसत्ताको न स्यात् पूर्वापरोत्पन्नपदाकाशादिवद्वेति दिक् । सकलकालेति । इदं च पक्षविशेषणं नित्यत्वेन इष्टाप- त्तिवारणाय, अतएवोक्तं पक्षविशेषणमहिम्नेति । अलीकत्वेन तद्वारणायमिति । प्रामाणिक इत्यर्थः किञ्चित्कालेति । किञ्चित्कालावृत्तित्वसमानाधिकरणकिञ्चित्कालवृत्तित्वस्याभाव आपाद्यः, अत्र विशेष्य- मात्रे अभावप्रतियोगिनि सति परमाण्वादौ व्यभिचार इति विशेषणमुक्तं प्रतियोगिनि, तस्य च प्राक्का- लावृत्तित्वेसतीत्यर्थोऽतो न प्रागभावे व्यभिचारः, विशेषणमात्रभावे आपाद्ये यद्यपि न व्यभिचारः, तथाप्यखण्डाभावतया न व्यर्थता । केचित्तु आकाशस्यावृत्तिकतया विशेषणाभावमात्रोपादाने तत्रैव व्यभिचार इति विशेष्यपदमित्याहुः । तन्न । वृत्तिपदमात्रोपादानेनैव तन्निरासे किञ्चित्कालपदवैय- र्थ्यात्, किञ्चित्पदद्वयञ्च विरोधभञ्जनाय । तेनेति । विशिष्टाभावः प्रकृते सकलकालवृत्तितया कालावृत्ति- तया च, तत्राद्यस्य पक्षविशेषणमहिम्ना बाधात् द्वितीयमादाय पर्यवसानं तच्चानिष्टमिति सापेक्ष- त्वसिद्धिरिति भावः । एतावदिति पूर्वापरकालवृत्तिपदार्थांशे इष्टापत्तिवारणाय पक्षविशेषणबलेना- लीकत्वासिद्ध्ये च पक्षविशेषणं, अलीकत्वेनेष्टापत्तिवारणाय घट इति विशेषणं प्रामाणिक इत्यर्थः । एतावत्कालवृत्तौ पूर्वोत्पन्ने व्यभिचार इति सत्यन्तम् । तत्रापि एतावदिति कालविशेषणमप्रसिद्धि- वारणाय, सत्यन्तमात्रं च घटसमानकालोत्पन्नपदार्थे व्यभिचारीति एतत्कालेत्यादि, तत्राप्येतत्पदं प्रतियोग्युपस्थापकतया पूर्वत्वनिरूपकपरमित्यप्रसिद्धिवारणाय । अव्यवहितपदं च दृष्टान्तलाभाय तदनुपादाने नित्य आपाद्याभावात् पूर्वकालोत्पन्ने च सत्यन्ताभावान्नूत्तरकालोत्पन्ने च पूर्वकालीन- दिगादिजन्यत्वात्तदलाभः । तदुपादाने च व्यवहितपूर्वकालतया दिगादेरुत्तरकालोत्पन्न एव दृष्टान्तः । न च दिगादेरव्यवहितपूर्वकालेऽपि सत्त्वादव्यवहितपदोपादानेऽपि तद्दोपतादवस्थ्यमिति वाच्यम् । नञ्व्यत्यासेन व्यवहितकालावृत्तित्वस्य पदार्थविशेषणत्वलाभादिति वदन्ति । तदयुक्तम् । एवमपि मकरन्दः। रकालोत्पत्तिको दृष्टान्तः । सकलेति । एतच्च पक्षविशेषणं नित्यत्वेनेष्टापत्तिवारणाय । अलीक- त्वेन तद्वारणायमिति । प्रामाणिक इत्यर्थः । किञ्चित्कालवृत्तिर्न स्यादित्येव कृते व्योमादौ व्यभिचार इत्यत आह । किञ्चिदिति । प्राक्का- लावृत्तित्वे सतीत्यर्थः । तेन न प्रागभावे व्यभिचारः । यद्यपि सत्यन्तमेव समर्थमिति व्यर्थविशे- ष्यत्वं, तथाऽप्यखण्डाभाव आपाद्य इति ध्येयम् । तेनेति । विशिष्टाभाव उभयथा सकलकाल- वृत्तितया सकलकालावृत्तितया च । तच्चाद्यस्य पक्षविशेषणमहिम्नाऽभावे द्वितीयस्य पर्यवसानम् । तच्चानिष्टमिति सापेक्षत्वसिद्धिरिति भावः । एतावदिति । पूर्वापरकालमात्रवृत्तिघटांशे सिद्धसाधनवारणाय पक्षविशेषणम् । एतावतका- लवृत्तौ पूर्वकालोत्पन्ने व्यभिचारादाह, सत्यन्तम् । एतावत्पदं कालविशेषणमात्रासिद्धिबारकम् । एतत्कालीनोत्पन्ने घटादौ सत्यन्तमात्रं व्यभिचारीत्यत आह । एतत्कालाव्यवहितेत्यादि । ननूत्तरकालोत्पत्तिक एव दृष्टान्तः, अन्यत्रापादकवैकल्यात् । तत्र चैतत्पूर्वकालवृत्तिनित्यदिगादिसा- पेक्षत्वादापादकवैकल्यमित्यत आह । अव्यवहितेति । नञ्व्यत्यासेन एतत्कालव्यवहितपूर्वका-