न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 94, कुल 608 में से
संदर्भ में पढ़ें६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायौ तुल्यः परिहारः ? न तुल्यः, निरवधित्वेऽनियतावधित्वे वा कादाचित्कत्वव्या- घातात् । नियतावधित्वे हेतुवादाभ्युपगमात् ॥ ५ ॥ स्यादेतत् । उत्तरस्य पूर्वः पूर्वस्योत्तरों मध्यमस्योभयमवधिरस्तु, दर्श- बोधनी । सिद्धान्ती पूर्वोक्तमेव परिहारं स्मारयति — न तुल्य इति । कादाचित्कत्वसिद्धौ हि तद्विपरीत कल्पनायां व्याघातः । तत्सिद्धिश्च निरवधित्वे तावन्न सम्भवति, कादाचित्कत्वनिर्वचनव्याघात- स्योक्तत्वात् । अत एव नानियतावधित्वेऽपि कादाचित्कत्वसिद्धिः । यस्य कस्यचित् सर्वदा सम्भ- वान्नियतावधित्वेन कादाचित्कत्वाभ्युपगमे तु सम्प्रतिपत्तिरुत्तरम् । एवं च नानुमानस्य बाधविरोधादयो दोषा इति । एवं तावत् सापेक्षत्वादिति हेतुर्विवृतः ॥ ५ ॥ अथानादित्वादिति हेतुमवतारयितुं निराकरणीयामाशङ्कामाह—स्यादेतत्—इति । प्रकाशः । भावविरहादूनिरवधिस्वभावस्य अनियतावधिस्वभावस्य वा कादाचित्कत्वस्वभावविरोधः। न हि विरु- द्धयोरुण्शीतयोरेकस्वभावत्वम् । तथा च कादाचित्कत्वव्याघातः=तत्स्वभावत्वव्याघात इत्यर्थः। तृतीयमाशङ्क्य सम्प्रतिपत्तिरुत्तरमाह । नियतावधित्व इति । वस्तुतोऽस्मिन् सतीदं भवति, असति न भवतीति प्रत्यक्षेण नियतपूर्वभावस्य ग्रहात् प्रत्यक्ष- मेव कारणत्वे मानम्, तस्य चानन्यथासिद्धत्वग्राहकतर्कः स्यादेवेत्यादिना दर्शित इति रहस्यम्॥५॥ ननु कादाचित्कत्वं सापेखनिरपेक्षभ्यां व्यावृत्तत्वेनासाधारणम् । तथा हि न सामग्रीनिर- प्रकाशिका । न्या इत्यर्थः । अन्यथाऽप्रसिद्धेः । केवलविशिष्टप्रतियोगितया चं भेदः । न हि विरुद्धयोरिति । सावधिनिरवध्योरेकं कादाचित्कत्वं स्वभावो न भवतीत्यर्थः । यद्यपि विरुद्धयोरुष्णशीतयोः प्रमेयं- त्वमेकं स्वभावो यथा, तथा सावधिनिरवध्योरपि कादाचित्कत्वमेकं स्वभावो भवत्येव । तथापि तत्तत्कार्यार्थं तत्तत्कारणोपादानानुपपत्त्यैव सावधित्वसिद्धिरिति भावः । ननु कादाचित्कत्वेन संहे- तुकत्वानुमानं तवाप्यप्रसिद्धं साध्याप्रसिद्धेरतः पूर्वोक्तमेव स्मारयति । वस्तुत इति ॥ ५ ॥ अनादित्वपरिहारस्यासङ्गतित्वं मन्वानस्तत्परिहारौपथिकं पूर्वपक्षं पूरयति । ननु कादाचि- मकरन्दः । शृङ्गादयस्तन्मतेनोक्ता इत्यन्ये । न हीति । यद्यपि यथा विरुद्धयोरपि प्रमेयैकस्वभावत्वं, तथा कादाचित्काकादाचित्कयोरपि निरवधिस्वभावत्वमविरुद्धं, तथापि तत्तत्कार्यार्थं तत्तत्कारणोपादानानु- पपत्त्या सावधित्वसिद्धिरिति भावः ॥ ५ ॥ अनादित्वादित्यस्य परिहारस्यासङ्गतत्वनिरासार्थमाशयं पूरयति । नन्विति । तथाचाश- टिप्पणी । वास्य प्रसिद्धिः, वस्तुतस्तथाविधपदार्थासत्त्वात् । अथवा नियतावधिशून्यत्वमेव तत्त्वं त- च्चाकाशादावेव प्रसिद्धं, परेणावधेर्जन्यत्वनैत्यत्वस्वीकारादवध्यतिरिक्ते तत्रैव प्रसिद्धिसम्भवेन निरवधेर्भेदोऽपीति चिन्त्यम् ॥ ५ ॥ ननु उत्तरस्येत्यादिग्रन्थस्य यथाश्रुतस्य प्रागभावानुभयावधिकल्पतया अदर्शनमात्रनि- ष्ठत्वखण्डने दृष्टान्तवैकल्यतयैवोद्धार सम्भवादनादित्वेन परीहारस्यासङ्गतत्वं स्यादिति मन्वानः तत्परिहारौपयिकम्पूूर्वपक्षं तद्ग्रन्थाशयरूपमाह । नन्वित्यादिना । तथाहि दर्शनाद्धि- नापि कार्याणां सदातनत्वादिदोषभयेन पूर्वावधिकल्पनेऽप्यनवस्था स्यादित्येव नन्वित्यादेरपि निगर्भः । सापेक्षनिरपेक्षाभ्यामिति । अत्र कादाचित्कत्वं मूलनिरुक्तम् । तथाहि न