न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 96, कुल 608 में से
संदर्भ में पढ़ें६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [६ कारिकावतरणिकाव्याख्यायां भयावधित्वमस्ति । तद्भावेष्वप्यनुपलभ्यमानैकैककोटिषु स्यात् । न स्यात् । अनादित्वात् । बोधनी । ज्ञात् । पूर्वस्य प्रागभावस्योत्तर एवोवधिर्न पूर्वः, पूर्ववत्प्रसङ्गात्। मध्यमस्य प्राक्प्रध्वंसाभाव- योर्मध्यमध्यासीनस्य कार्यस्योभयमवधिरस्तुदर्शनवलात् । त्वया सिद्धान्तिनाप्येतत्त्रयं व्यवस्थितम- भ्युपगन्तव्यम् । ततः किमित्यत आह-तद्भाव-इति । तथाचानुपलभ्यमानप्राक्कोटेः कारणस्याना- दित्वसम्भवात् तदनपेक्षामलभमानानां कार्याणामपि सदातनत्वप्रसङ्ग इत्युभयत्रापि समानो वाक्य- शेषः । यद्वा, अयमत्र भावः, यस्य कार्यस्य योऽवधिर्दृश्यते पूर्व उत्तर उभयं वा तत्तदवधिक- मेवास्तु, दुर्लङ्घ्यत्वाद्-दर्शनस्य । न चान्यतरावधेरितरावधिव्याप्तिः, अभावेन व्यभिचारात् । तत्र विधात्रयेऽपि कार्यस्यावधिमत्त्वेनैव कादाचित्कत्वं सिध्यति, सदातनत्वप्रतिपक्षमात्ररूपत्वात् तस्य । तथाचानुपलभ्यमानपूर्वावधेः कार्यस्योत्तरावधिमात्रेणैव कादाचित्कत्वे सिद्धे न तेन कार- णपरम्परानुमानमित्यन्यथासिद्धिः । सर्वस्यापि कार्यस्य पक्षीकरणाद् भागे बाधितविषयत्वं चेति । हेतुमवतारयति—न स्यादनादित्वात् इति । प्रकाशः । तरावधिकल्पनप्रसङ्ग इति भावः । तद्भावेति । तथाचावधिसिद्धावपि न तत्प्राच्यत्वनियमसिद्धि प्रकाशिका । क्तत्वं स्वीकरणीयं तथा च साधारणमित्याक्षेपार्थः । यद्वा अपदं व्यवच्छिद्य योजनीयम् । तेना- व्यावृत्तत्वेन साधारणमित्यर्थः । अत एव परिमले साधारणमेवोक्तम् । वस्तुतोऽसाधारणमगमकं सा- पेक्षत्वनिरपेक्षत्वयोरसम्भवित्वेनेत्यर्थः । मिश्रास्तु सामग्रीधारायां कस्याश्चिन्निरपेक्षत्वस्वीकारे तत्रैव मकरन्दः । अत एव परिमले तदेवोक्तमिति चेत् । मैवम् । अनवस्थाभिया सामग्री निरपेक्षा आकाशादिवन्न कादाचित्की । तथाच निरपेक्षसामग्रीरूपविपक्षाद्व्यावृत्तिरुक्ता । आकाशादिविपक्षव्यावृत्तेश्च स्फुट- त्वादप्रदर्शनम् । निरपेक्षसामग्रीसापेक्षं कार्यमप्यकादाचित्कमिति सपक्षाद्व्यावृत्तं कादाचित्कत्वम- साधारणं स्यात् । तथाच तद्द्वयेन निरपेक्षस्यापि कादाचित्कत्वस्वीकारेण साधारणैकान्तिकतया नायं हेतुः सापेक्षत्वसाधक इत्याशयवानाहेत्यत्र तात्पर्यात् । न च प्रागभावरूपविपक्षव्यावृत्त- त्वाभावान्नासाधारण्यं स्यादिति वाच्यम् । प्रागसत्त्वादिघटितकादाचित्कत्वस्य प्रागेव निरुक्तेः । तद्विपक्षत्वानिश्चयदशायां वा तथात्वात् । यद्यप्येवं पक्षवृत्त्यपि न कादाचित्कत्वमित्यप्रसिद्धं, न त्वसाधारणं तथापि विशेषादर्शनदशायां तदित्येके । अगमकत्वमेव तेनोपलक्षितमित्यन्ये । के- चित्तु असाधारणमित्यत्र अ-पदं निषेधवाचकं विविच्य व्यावृत्तपदेन योजनीयम् , तथाच सपक्ष- विपक्षाभ्यामव्यावृत्तेः साधारणमित्यर्थः । अत एव साधारण्यमेवाग्रे व्युत्पादितम् । तथाच परिम- लसंवादोऽपीति वदन्ति । सामग्र्याः सापेक्षत्वेऽनवस्था, निरपेक्षत्वे व्यभिचारादसाधारणं न पक्ष- दृष्टान्तसाधारणव्याप्यमितियावदित्यर्थ इत्याहुः । टिप्पणी । न च प्रागभावेन सह दृष्टान्तासम्भवः तस्य प्रागसत्त्वाभावादिति वाच्यम् । यथा निरपेक्ष एव प्रा- गभावः कदाचित् प्रतिपाद्यस्तथा सामग्र्यादिरपीति कादाचित्कत्वान्तेन प्रतिपादनात् तत्सम्भव इदा- नीं निरपेक्षाया अपि सामग्र्या नेत्रे निमील्यैव प्रागसत्त्वं स्वीकरणीयमेव अन्यथानवस्थामात्रपरिहा- रकत्वे सदातनत्वापत्तिसन्दर्भे तत इत्यादेर्विरोधः स्यादिति विभाव्यमिति प्राहुः ॥०॥ तद्भादती- ति । तथा च नावधिसिद्धावपीति तद्वदित्यादिमूले भावः सामग्रीरूप एव द्रष्टव्यस्तेन मूलस्थाशयस्थ