भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 101, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 101

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:

( ८६ ) पञ्चतन्त्रम् । नदी और नारियोंका समान प्रभाव होताहै, उनके दोनो किनारे और कन्याके मातृ पितृ कुल समान हैं, नदी जलसे और नारी दोषसे अपने कुलको नष्ट करती हैं ॥ २२३ ॥ तथाच- और देखो- जननीमनो हरति जातवती परिवर्द्धते सह शुचा सुहृदाम् । परसात्कृतापि कुरुते मलिनं दुरातिक्रमा दुहितरो विपदः ॥” कन्या उत्पन्न होतेही माताका मन हरती है, सुहृज्जनोंके शोचके सहित बढ़ती है, पराये आधीन करनेपर भी मलीन करती है, कन्यारूपी विपत् तरी नहीं जाती ॥ २२४ ॥” एवं बहुविधं विचिन्त्य देवीं रहःस्थां प्रोवाच-“देवि ! ज्ञायतां किमेते कञ्चुकिनो वदन्ति । तस्य कृतान्तः कुपितो येन एतदेवं क्रियते” । देवी अपि तदाकर्ण्य व्याकुलीभूता सत्वरं कन्यान्तःपुरे गत्वा तां खण्डिताधरां नखविलिखितशरीरा- वयवां दुहितरमपश्यत् । आह च-“आः पापे ! कुलकलङ्का- रिणि ! किमेवं शीलखण्डनं कृतम् । कोऽयं कृतान्तावलो- कितः त्वत्सकाशमभ्येति । तत्कथ्यतां ममाग्रे सत्यम्” इति कोपाटोपविशङ्कटं वदन्त्यां मातरि राजपुत्री भयलज्जानताननं प्रोवाच-“अम्ब ! साक्षान्नारायणः प्रत्यहं गरुडारूढो निशि समायाति । चेदसत्यं मम वाक्यम् । तत् स्वचक्षुषा विलो- कयतु निगूढतरा निशीथे भगवन्तं रमाकान्तम्” । तत् श्रुत्वा सा अपि प्रहसितवदना पुलकाङ्कितसर्वाङ्गी सत्वरं गत्वा राजा- नमूचे-“देव ! दिष्ट्या वर्द्धसे । नित्यमेव निशीथे भगवान् नारायणः कन्यकापार्श्वेऽभ्येति तेन गान्धर्वविवाहेन सा वि- वाहिता । तदद्य त्वया मया च रात्रौ वातायनगताभ्यां निशीथे द्रष्टव्यो, यतो न स मानुषैः सह आलापं करोति” । तच्छ्रुत्वा हर्षितस्य राज्ञस्तद्दिनं वर्षशतप्रायमिव कथञ्चिद् जगाम । ततस्तु रात्रौ निभृतो भूत्वा राज्ञीसहितो राजा