पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 135, कुल 536 में से
संदर्भ में पढ़ें( १२० ) पञ्चतन्त्रम् । होजाय-परन्तु कर्कटमीनके दांतसे ग्रहण करनेसे तथा नीलवर्णके संगमें मुक्ति कठिन है) ॥ २८३ ॥ अथ तं हरगलगलतमालसमप्रभमपूर्व्वं सत्त्वमवलोक्य- सर्व्वे सिंहव्याघ्रद्वीपिवृकप्रभृतयोऽरण्यनिवासिनो भयव्याकु- लितचित्ताः समन्तात् पलायनक्रियां कुर्व्वन्ति, कथयन्ति च “न ज्ञायतेऽस्य-कीदृग्विचेष्टितं पौरुषञ्च । तद्दूरतरं गच्छामः उक्तञ्च- तब उसको शिवजीके गलेकी विषकी समान कान्तिमान् अपूर्व्व जीव देखकर सब सिंह व्याघ्र गैंडे वनवासी भयसे व्याकुल हो सब ओरसे पलायन करने लगे और कहने लगे,-“नहीं जानते इसकी कैसी चेष्टा और पराक्रम है सो दूरचलें । कहाहै- न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् । न तस्य विश्वसेत्प्राज्ञो यदीच्छेच्छ्रियमात्मनः ॥ २८४ ॥ जिसके चेष्टा कुल पराक्रमको न जाने यदि अपना मंगल चाहे तो बुद्धिमान् उसका विश्वास न करे ॥ २८४॥ चण्डरवोऽपि तान् भयव्याकुलितान् विज्ञाय इदमाह- “भोः भोः श्वापदाः ! किं यूयं मां दृष्ट्वैव सन्त्रस्ता व्रजथ ? तन्न भेतव्यम्, अहं ब्रह्मणा अद्य स्वयमेव सृष्ट्वाभिहितः-“यत् श्वाप- दानां मध्ये कश्चिद्राजा नास्ति, तत्त्वं मया अद्य सर्व्वश्वापद- प्रभुत्वेऽभिषिक्तः ककुद्द्रुमाभिधस्ततो गत्वा क्षितितले तान् सर्व्वान् परिपालय” इति-ततोऽहमत्रागतः । तन्मम छत्रच्छायायां सर्व्वैरेव श्वापदैर्व्वर्त्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः” । तच्छ्रुत्वा सिंहव्या- घ्रपुरःसराः श्वापदाः-“स्वामिन् ! प्रभो ! समादिश” इति वदन्तस्तं परिवव्रुः । अथ तेन सिंहस्य अमात्यपदवी प्रदत्ता, व्याघ्रस्य शय्यापालत्वं, द्वीपिनः ताम्बूलाधिकारो, वृकस्य द्वारपालकत्वम्, ये च आत्मीयाः शृगालाः तैः सह आलापमात्रमपि न करोति । शृगालाः सर्व्वेऽपि अर्द्धचन्द्रं