पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 184, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम्। ( १६९ )
स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति, स्वामिनः पुनः प्राणयात्रा भवति”। तदाकर्ण्य शंकुकर्णः प्राह,-"भद्र ! यदि एवं तन्मदीयप्रयोजनमेतदुच्यताम् । स्वाम्यर्थः क्रिय- तामिति, परमत्र धर्मः प्रतिभूः”। इति ते विविच्य सर्वे सिंह- सकाशमाजग्मुः । ततः चतुरक आह-"देव ! न किञ्चित् सत्त्वं प्राप्तम् । भगवानादित्योऽपि अस्तङ्गतः । तद्यदि स्वामी द्विगुणं शरीरं प्रयच्छति ततः शंकुकर्णोऽयं द्विगुणवृद्ध्या स्व- शरीरं प्रयच्छति धर्मप्रतिभुवा”। सिंह आह-"भो ! यदि एवं तत् सुन्दरतरम्, व्यवहारस्य अस्य धर्मः प्रतिभूः क्रियता- म्”इति । अथ सिंहवचनानन्तरं वृकश्गालाभ्यां विदारि- तोभयकुक्षिः शंकुकर्णः पञ्चत्वमुपागतः । अथ वज्रदंष्ट्रः चतुरकमाह-"भोः चतुरक ! यावदहं नदीं गत्वा स्नानं देवतार्चनाविधिं कृत्वा आगच्छामि, तावत् त्वया अत्र अप्र- मत्तेन भाव्यम्” इत्युक्त्वा नद्यां गतः । अथ तस्मिन् गते चतु- रकः चिन्तयामास, कथं मम एकाकिनो भोज्योऽयमुष्ट्रो भविष्यतीति विचिन्त्य क्रव्यमुखमाह,-"भोः क्रव्यमुख ! क्षुधालुर्भवान्, तद्यावद्सौ स्वामी न आगच्छति तावत् त्वमस्य उष्ट्रस्य मांसं भक्षय । अहं त्वां स्वामिनो निर्दोषं प्रतिपादयिष्यामि”। सोऽपि तच्छ्रुत्वा यावत् किञ्चिन्मांसं आस्वादयति तावच्चतुरकेणोक्तम्,-"भोः क्रव्यमुख ! समाग- च्छति स्वामी, तत् त्यक्त्वा एनं दूरे तिष्ठ येनास्य भक्षणं न विकल्पयति”। तथानुष्ठिते सिंहः समायातो यावदुष्ट्रं पश्यति तावद्रिक्तीकृतहृदयो दासेरकः । ततो भुकुटिं कृत्वा परुषत- रमाह-"अहो ! केनैष उष्ट्र उच्छिष्टतां नीतो येन तमपि व्यापादयामि”। एवमभिहिते क्रव्यमुखः चतुरकमुखं अव- लोकयति, "किल तद्वद किंचिद्येन मम शान्तिर्भवति”। अथ चतुरको विहस्योवाच-"भो ! मामनादृत्य पिशितं भक्षयित्वा अधुना मन्मुखमवलोकयसि ! तत् आस्वादय