भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 212, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 212

असती भवति सलज्जा क्षारं नीरञ्च शीतलं भवति । दम्भी भवति विवेकी प्रियवक्ता भवति धूर्त्तजनः ॥४५२॥ असती लजावती होती है, खारी पानी ठंढा होता है, ज्ञानी पाखण्डी होता है और धूर्त्तमनुष्य प्रियवक्ता होता है ॥ ४५२ ॥ अथ तस्मिन् सेवां कुर्वति तैः विप्रैः सर्ववस्तूनि विक्रीय बहुमूल्यानि रत्नानि क्रीतानि । ततः तानि जंघामध्ये त- त्समक्षं प्रक्षिप्य स्वदेशं प्रति गन्तुमुद्यमो विहितः । ततः स धूर्त्तविप्रस्तान् विप्रान् गन्तुमुद्यतान् प्रेक्ष्य चिन्ताव्याकुलित- मनाः सञ्जातः । “अहो ! धनमेतत् न किञ्चित् मम घटि- तम् । अथ एभिः सह यामि, पथि क्वापि विषं दत्त्वा एता- न्निहत्य सर्वरत्नानि गृह्णामि” । इति विचिन्त्य तेषामग्रे सकरुणं विलप्य इदमाह, - "भोः मित्राणि ! यूयं मामेका- किनं मुक्त्वा गन्तुमुद्यताः । तन्मे मनो भवद्भिः सह स्नेहपाशेन बद्धं भवद्विरहनाम्नैव आकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते । यूयमनुग्रहं विधाय सहायभूतं मामपि सहैव नयत । तद्वचः श्रुत्वा ते करुणाईचित्ताः तेन सममेव स्वदेशं प्रति प्रस्थिताः । अथ अध्वनि तेषां पञ्चानामपि पल्लीपुरमध्ये व्रजतां ध्वांक्षाः कथयितुमारब्धाः,- "रे रे किराताः ! धावत धावत । सपादलक्षधनिनो यान्ति । एतान् निहत्य धनं नयत” । ततः किरातैः ध्वाक्षवचनमाकर्ण्य सत्वरं गत्वा ते विप्रा लगुडप्रहारैः जर्जरीकृत्य वस्त्राणि मोचयित्वा वि- लोकिताः, परं धनं किञ्चिन्न लब्धम् । तदा तैः किरातैरभि- हितम्-“भोः पान्थाः ! पुरा कदापि ध्वाक्षवचनमनृतं न आसीत् । ततो भवतां सन्निधौ क्वापि धनं विद्यते । तद्- र्पयत । अन्यथा सर्वेषामपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः” । तदा तेषामीदृशं वचनमाकर्ण्य चौर- विप्रेण मनसि चिन्तितम्, यदा एषां विप्राणां वधं विधाय अंगं विलोक्य रत्नानि नेष्यन्ति तदा अपि मां वधिष्यन्ति