भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 243, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 243

तत्र भक्ष्यविशेषाणि सेवकेभ्यो दत्त्वा पश्चात् स्वयमेव भक्ष- यामि, सर्वेषां तृप्तौ जातायां भूयः स्वगृहं गच्छामि । एवं नित्यमेव तदन्नं भक्षयामि । परिव्राजकोऽपि यथाशक्ति रक्षति । परं यदा एव निद्रान्तरितो भवति, तदा अहं तत्र आरुह्य आत्मकृत्यं करोमि । अथ कदाचित् तेन मम रक्ष- णार्थं महान् यत्नः कृतः । जर्जरवंशः समानीतः । तेन सुप्तो- ऽपि मम भयात् भिक्षापात्रं ताडयति । अहमपि अभक्षितेऽपि अन्ने प्रहारभयात् अपसर्पामि । एवं तेन सह सकलां रात्रिं विग्रहपरस्य कालो व्रजति । अथ अन्यस्मिन्नहनि तस्य मठे बृहत्स्फिङ्नामा परिव्राजकः तस्य सुहृत् तीर्थयात्राप्रसङ्गेन पान्थः प्राघूर्णिकः समायातः, तं दृष्ट्वा प्रत्युत्थानविधिना सम्भाव्य प्रतिपत्तिपूर्वकमभ्यागतक्रियया नियोजितः । ततश्च रात्रौ एकत्र कुशसंस्तरे द्वौ अपि प्रसुप्तौ धर्मकथां कथयितुमारब्धौ । अथ बृहत्स्फिकथागोष्ठीषु स ताम्रचूडो मूषकत्रासार्थं व्याक्षिप्तमना जर्जरवंशेन भिक्षापात्रं ताडयन् तस्य शून्यं प्रतिवचनं प्रयच्छति तन्मयः न किञ्चित् उदाह- रति । अथ असौ अभ्यागतः परं कोपमुपागतः तमुवाच,- भोः ताम्रचूड ! परिज्ञातः त्वं सम्यक् न सुहृत्, तेन मया सह साह्लादं न जल्पसि । तत् रात्रौ अपि त्वदीयं मठं त्यक्त्वा अन्यत्र मठे यास्यामि । उक्तञ्च-

दक्षिण देशमें एक महिलारोप्य नाम नगर है। उसके थोड़ीही दूर श्रीभगवान् महादेवका मठ है । वहां ताम्रचूड नामक संन्यासी रहताथा । वह नगरमें भिक्षा- टन करके प्राणनिर्वाह करता, बची भिक्षा उसी भिक्षा पात्रमें रख उस भिक्षा- पात्रको खूंटीपर लटका कर फिर रात्रीमें सोजाता । प्रभातमें उसको वहांके कर्मकारोंको देकर भली प्रकार उस देवस्थानमें बुहारी लीपना मंडन आदिकी आज्ञा देता था । किसी एक दिन मेरे बंधुओंने कहा- "हे स्वामी ! इस मठमें सिद्ध अन्न मूषिकके भयसे उसी भिक्षापात्रमें धरा हुआ खूँटीपर टँगा हुआ सदाही है उसे भक्षण करनेको हम समर्थ नहीं हो सकते । स्वामीको कुछ भी