पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 331, कुल 536 में से
संदर्भ में पढ़ें( ३१६ ) पञ्चतन्त्रम् । अपिच- औरभी- अकृतज्ञं कापुरुषं व्यसनिनमलसं तथा सदा क्षुद्रम् । पृष्ठप्रलपनशीलं स्वामित्वे नाभियोजयेज्जातु ॥ ९० ॥ क्षुद्र आलसी कायर व्यसनी अकृतज्ञ ( उपकारका न माननेवाला ) पीछे निन्दाका करनेवाला हो ऐसे पुरुषको स्वामी न करे ( जिसको जीनेकी इच्छा है ) ॥ ९० ॥ क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषणतत्परौ । उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ ॥ ९१ ॥” न्यायकी खोजकरनेवाले शश कपिञ्जल नामक दोनों पक्षि क्षुद्र अर्थपतिको प्राप्त होकर दोनोंही मरगये ॥ ९१ ॥” ते प्रोचुः,-“कथमेतत् ?” स आह- वे बोले,-“यह कैसी कथा है ?” वायस बोला- कथा २. कस्मिंश्चिद्वृक्षे पुरा अहं अवसम् । तत्र अधस्तात् कोटरे कपिञ्जलो नाम चटकः प्रतिवसति स्म। अथ सदैव अस्तम- नवेलायामागतयोः द्वयोः अनेकसुभाषितगोष्ठ्या देवर्षिब्र- ह्मर्षिराजर्षिपुराणचरितकीर्त्तनेन च पर्य्यटनदृष्टानेककौतूह- लप्रकथनेन च परमसुखमनुभवतोः कालो व्रजति । अथ कदाचित् कपिञ्जलः प्राणयात्रार्थमन्यैः चटकैः सह अन्यं पक्वशालिप्रायं देशं गतः । ततो यावत् निशासमयेऽपि न आयातः तावदहं सोद्विग्नमनाः तद्वियोगदुःखितः चिन्तित- वान् । “अहो ! किमद्य कपिञ्जलो न आयातः । किं केनापि पाशेन बद्धः । उताहो स्वित् केनापि व्यापादितः । सर्वथा यदि कुशलो भवति तन्मां विना न तिष्ठति”। एवं मे चि- न्तयतो बहूनि अहानि व्यतिक्रान्तानि । ततश्च तत्र कोटरे कदाचित् शीघ्रगो नाम शशकोऽस्तमनवेलायामागत्य प्रविष्टः। मया अपि कपिञ्जलनिराशत्वेन न निवारितः । अथ