भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 370, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 370

भाषाटीकासमेतम्। ( ३५१ ) कथा १०. अस्ति कस्मिंश्चिन्नगरे देवशक्तिर्नाम राजा, तस्य च पुत्रो जठरवल्मीकाश्रयेण उरगेण प्रतिदिनं प्रत्यङ्गं क्षीयते। अनेकोपचारैः सद्वैद्यैः सच्छास्त्रोपदिष्टौषधयुक्त्यापि चिकि- त्स्यमानो न स्वास्थ्यमाप्नोति। अथ असौ राजपुत्रो निर्वे- दात् देशान्तरं गतः। कस्मिंश्चिन्नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति। अथ तत्र नगरे बलिर्नाम राजा आस्ते, तस्य च द्वे दुहितरौ यौवनस्थे तिष्ठतः। ते च प्रतिदिवसमादित्योदये पितुः पादान्तिकमागत्य नमस्कारं चक्रतुः। तत्र च एका अब्रवीत्,-"विजयस्व महाराज यस्य प्रसादात् सर्वं सुखं लभ्यते"। द्वितीया तु,-"विहितं भुङ्क्ष्व महाराज!" इति ब्रवीति। तच्छ्रुत्वा प्रकुपितो राजा अब्रवीत्,-"भो मन्त्रिन् ! एनां दुष्टभाषिणीं कुमारिकां कस्यचिद् वैदेशिकस्य प्रयच्छत येन निजविहितामियमेव भुङ्क्ते"। अथ तथेति प्रतिपद्य अल्पपरिवारा सा कुमा- रिका मन्त्रिभिः तस्य देवकुलाश्रितराजपुत्रस्य प्रतिपादिता। सा अपि प्रहृष्टमानसा तं पतिं देववत् प्रतिपाद्य आदाय च अन्यविषयं गता। ततः कस्मिंश्चिद्दूरतरनगरप्रदेशे तडा- गतटे राजपुत्रमावासरक्षायै निरूप्य, स्वयं च घृततैललवण- तण्डुलादिक्रयनिमित्तं सपरिवारा गता। कृत्वा च क्रयवि- क्रयं यावदागच्छति, तावत् स राजपुत्रो वल्मीकोपरि- कृतमूर्धा प्रसुप्तः। तस्य च मुखात् भुजगः फणां निष्क्राम्य वायुमश्नाति। तत्र एव च वल्मीकेऽपरः सर्पो निष्क्रम्य तथा एव आसीत्। अथ तयोः परस्परदर्शनेन क्रोधसंरक्तलो- चनयोः मध्यात् वल्मीकस्थेन सर्पेण उक्तं,-"भोभो दुरात्मन्! कथं सुन्दरसर्वाङ्गं राजपुत्रमित्थं कदर्थयसि!" मुखस्थोऽहिर- ब्रवीत्,-"भो भोः ! त्वया अपि दुरात्मना अस्य वल्मीकस्य मध्ये कथमिदं दूषितं हाटकपूर्णं कलशयुगलम्" इति।एवं पर-

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · पृष्ठ 370, कुल 536 में से · BharatKosha