भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 374, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 374

त्वया किमपि पाथेयं मम योग्यं विधेयम्” । सापि तद्वचनं श्रुत्वा हर्षितचित्ता औत्सुक्यात् सर्वकार्याणि सन्त्यज्य सिद्धमन्नं घृतशर्कराप्रायमकरोत् । अथवा साधु इदमुच्यते- ऐसा विचार कर भार्यामे बोला- "प्रिये ! प्रभात समयमें ग्रामान्तरको जाऊँ- गा वहा कुछ दिन लगेंगे सो तू कुछ भोजनादि बनादे”। वह भी यह वचन सुन बडे हर्षित चित्तसे उत्कण्ठासे सब कार्य त्याग कर सिद्ध अन्न ( पूरी आदि ) घृत शर्करासे युक्त बनाती हुई । अथवा यह अच्छा कहा है- दुर्दिवसे घनतिमिरे वर्षति जलदे महाटवीप्रभृतौ । पत्युर्विदेशगमने परमसुखं जघनचपलायाः ॥ २०५ ॥ दुर्दिन घने अन्धकारमें मेघके वर्षनेमें महाजगलमें पतिके विदेश जानेमें चपल जघावाली ( कामिनी ) परम सुख मानती है ॥ २०५ ॥ अथ असौ प्रत्यूषे उत्थाय स्वगृहात् निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसितवदना अङ्गसंस्कारं कुर्वाणा कथञ्चित् तद्दिवसमत्यवाहयत् । अथ पूर्वपरिचितविटगृहे गत्वा तं प्रत्यु- क्तवती । स दुरात्मा मे पतिर्ग्रामान्तरं गतः । तत् त्वया अ- स्मद्गृहे प्रसुप्ते जने समागन्तव्यम् । तथा अनुष्ठिते स रथका- रोऽरण्ये दिनमतिवाह्य प्रदोषे स्वगृहेऽपरद्वारेण प्रविश्य शय्या- धस्तले निभृतो भूत्वा स्थितः । एतस्मिन्नन्तरे स देवदत्तः समागत्य तत्र शरणे उपविष्टः । तं दृष्ट्वा रोषाविष्टचित्तो रथ- कारो व्यचिन्तयत् “किमेनं उत्थाय हन्मि, अथवा हेलया एव प्रसुप्तौ द्वौ अपि एतौ व्यापादयामि । परं पश्यामि ताव- दस्याः चेष्टितम् । शृणोमि च अनेन सह आलापान्”। अत्रा- न्तरे सा गृहद्वारं निभृतं विधाय शयनतलमारूढा । अथ त- स्यास्तत्र आरोहन्त्या रथकारशरीरे पादो विलग्नः । ततः सा व्यचिन्तयत् । “नूनमेतेन दुरात्मना रथकारेण मत्परीक्ष- णार्थं भाव्यम् । ततः स्त्रीचरित्रविज्ञानं किमपि करोमि”। एवं तस्याः चिन्तयन्त्या स देवदत्तः स्पर्शोत्सुको बभूव । अथ तया कृताञ्जलिपुटया अभिहितं-“भो महानुभाव ! न मे शरीरं त्वया