भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 402, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 402

भाषाटीकासमेतम्। ( ३८७ )

अत्र नातिदूरे भगवत्या देव्या आयतनम्, तत्र अहमुपोषिता सती बलिं भक्ष्यविशेषांश्च अपूर्वान नयामि”। अथ तस्य पश्यतो गृहीत्वा तत् सकलं देव्यायतनाभिमुखी प्रतस्थे । यत्कारणं “देव्या निवेदितेन अनेन मदीयो भर्त्तैव मंस्यते यन्मम ब्राह्मणी भगवत्याः कृते भक्ष्यविशेषान् नित्यमेव नय- ति”इति। अथ देव्यायतने गत्वा स्नानार्थं नद्यामवतीर्य यावत् स्नानक्रियां करोति, तावत् भर्त्ता अन्यमार्गान्तरेण आगत्य देव्याः पृष्ठतोऽदृश्योऽवतस्थे । अथ सा ब्राह्मणी स्ना- त्वा देव्यायतनमागत्य स्नानानुलेपनमाल्यधूपबलिक्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत्-“भगवति ! केन प्रकारेण मम भर्त्ता अन्धो भविष्यति ?” तच्छ्रुत्वा स्वरभेदेन देवीपृष्ठ- स्थितो ब्राह्मणो जगाद,-“यदि त्वमजस्रं घृतपूरादिभक्ष्यं तस्मै भर्त्रे प्रयच्छसि ततः शीघ्रमन्धो भविष्यति” । सा तु बन्धकी कृतकवचनवञ्चितमानसा तस्मै ब्राह्मणाय तदेव नित्यं प्रददौ । अथ अन्येद्युः ब्राह्मणेन अभिहितं,-“भद्रे ! नाहं सुतरां पश्यामि” । तच्छ्रुत्वा चिन्तितमनया,“देव्याः प्रसा- दोऽयं प्राप्तः” इति । अथ तस्या हृदयवल्लभो विटस्तत्सका- शमन्धीभूतोऽयं ब्राह्मणः किं मम करिष्यतीति निः- शङ्कः प्रतिदिनमभ्येति । अथ अन्येद्युस्तं प्रविशन्तमभ्या- शगतं दृष्ट्वा केशैः गृहीत्वा लगुडपाणिप्रभृतिप्रहारैः तावद्- ताडयत् । यावदसौ पञ्चत्वमाप तामपि दुष्टपत्नीं छिन्ननासिकां कृत्वा विससर्ज । अतोऽहं ब्रवीमि- तब एक समय उसके स्वामीने देखकर कहा-“भद्रे ! यह क्या देखता हूँ, रोज इन्हें कहा लेजाती है ? सत्य कह”। वह तत्काल बात बनानेमें चतुर थी, बनावटी वचनोंसे स्वामीसे बोली-“यहासे थोडीही दूर भगवती देवीका स्थान है । वहा मैं व्रती होकर बलि भक्ष्य पदार्थ अपूर्व लेजाती हूं”। तब उसके देखतेही ग्रहण कर वह सब देवीके स्थानकी ओर चली । कारण यह कि “मेरे निवेदन किये इस पदार्थसे मेरा स्वामी यह बात मान जाय कि यह मेरी ब्राह्मणी