पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 413, कुल 536 में से
संदर्भ में पढ़ें( ३९८ ) पञ्चतन्त्रम् । प्रिय वा द्वेषी मूर्ख वा पंडित जो वैश्वदेव वलिके समय प्राप्त हो वह स्वर्ग- गमनमें सेतुभूत अतिथि होताहै ॥ २ ॥ न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च । अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥ ३ ॥ वैश्वदेवके अन्तमें श्राद्धमें उपस्थित अतिथिका घर गोत्र विद्या कुल न पूछे, यह मनुने कहाहै ॥ ३ ॥ दूरमार्गश्रमश्रान्तं वैश्वदेवान्तमागतम् । अतिथिं पूजयेद्यस्तु स याति परमां गतिम् ॥ ४ ॥ दूर मार्गके श्रमसे प्राप्तहुए वैश्वदेवके अन्तमें आयेहुए अतिथिका जो पूजन करताहै, वह परम गतिको प्राप्त होताहै ४ ॥ अपूजितोऽतिथिर्यस्य गृहाद्याति विनिश्वसन् । गच्छन्ति विमुखास्तस्य पितृभिः सह देवताः ॥ ५ ॥ जिसके घरसे अपूजित अतिथि श्वास लेता हुआ जाताहै, उसके यहांसे देवता पितरों सहित विमुख होकर चल जाते हैं ॥ ५ ॥ एवमुक्त्वा तस्मै जम्बूफलानि ददौ । सोऽपि तानि भक्ष- यित्वा तेन सह चिरं गोष्ठीसुखमनुभूय भूयोऽपि स्वभवनम- गात् । एवं नित्यमेव तौ वानरमकरौ जम्बूच्छायास्थितौ विविधशास्त्रगोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः । सोऽपि मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्वपत्न्यैः प्रयच्छति । अथ अन्यतमे दिवसे तया स पृष्टः-“नाथ ! क्व एवंविधानि अमृतफलानि प्राप्नोषि?”। स आह-“भद्रे ! मम अस्ति परमसुहृद् रक्तमुखो नाम वानरः स प्रीतिपूर्वमिमानि फलानि प्रयच्छति” । अथ तया अभिहितम्-“यः सदा एव अमृतप्रायाणि ईदृशानि फलानि भक्षयति तस्य हृदय- ममृतमयं भविष्यति । तत् यदि मया भार्य्यया ते प्रयोजनं, ततः तस्य हृदयं मह्यं प्रयच्छ, येन तद्भक्षयित्वा जरामरणर- हिता त्वया सह भोगान् भुनज्मि” । स आह-“भद्रे ! मा मा एवं वद । यतः स प्रतिपन्नोऽस्माकं भ्राता, अपरं फल-